वेतालपञ्चविंशति 04

विकिस्रोतः तः
Jump to navigation Jump to search
← वेतालपञ्चविंशति 03 वेतालपञ्चविंशति 04
सोमदेव
वेतालपञ्चविंशति 05 →

ततः गत्वा पुनः तस्य निकटम् शिंशपातरोः।
सः त्रिविक्रमसेनः अत्र श्मशानम् निशि भूपतिः॥४.११.१॥

लब्ध्वा मुक्ताट्टहासम् तम् वेतालम् नृशरीरगम्।
निःकम्पः स्कन्धम् आरोप्य तूष्णीम् उदचलत् ततः॥४.११.२॥

चलन्तम् च तम् अंसस्थः वेतालः सः अब्रवीत् पुनः।
राजन् कुभिक्षोः एतस्य कृते कः अयम् तव श्रमः॥४.११.३॥

आयासे निष्फले अमुष्मिन् विवेकः बत न अस्ति ते।
तत् इमाम् शृणु मत्तः त्वम् कथाम् पथि विनोदिनीम्॥४.११.४॥

अस्ति शोभावती नाम सत्याख्या नगरी भुवि।
तस्याम् च शूद्रकाख्यः अभूत् भूपतिः प्राज्यविक्रमः॥४.११.५॥

यस्य जज्वाल जयिनः प्रतापज्वलनः निशम्।
बन्दीकृतारिललनाधूतचामरमारुतैः॥४.११.६॥

अलुप्तधर्मचरणस्फीता मन्थे वसुंधरा।
राज्ञि यस्मिन् विसस्मार रामादीन् अपि भूपतीन्॥४.११.७॥

तम् कदाचित् महीपालम् प्रियशूरम् उपाययौ।
सेवार्थम् मालवात् एकः नाम्ना वीरवरः द्विजः॥४.११.८॥

यस्य धर्मवती नाम भार्या सत्ववरः सुतः।
कन्या वीरवती च इति त्रयम् गृहपरिच्छदः॥४.११.९॥

सेवापरिच्छदश्चान्यत् त्रयम् कट्याम् कृपाणिका।
करे करतलैकत्र चारु चर्म परत्र च॥४.११.१०॥
- - - -- - -- - -- - - -- - - - - - - -- -- -
तुलनीय -
पाणौ करतलैकस्मिंश्चर्मान्यस्मिन्सुदर्पणम् - कथासरित्
९.३.९१
स्थितो हस्ततले नित्यं निर्मलस्तस्य दर्पणः - स्कन्द २.२.२५.१४
- - - -- - -- - - -- - - - -- - -- - - - -- - - - -

तावन्मात्रपरीवारः दीनारशतपञ्चकम्।
प्रत्यहम् प्रार्थयामास राज्ञः तस्मात् स वृत्तये॥४.११.११॥

राजापि सः तम् आकारसूचितोदारपौरुषम्।
वीक्ष्य तस्मै ददौ वृत्तिम् सूद्रकः ताम् यथा- ईप्सिताम्॥४.११.१२॥

अल्पे परिकरे अप्येभिः इयद्भिः स्वर्णरूपकैः।
किम् एषः व्यसनम् पुष्णाति अथ कंचन सद्व्ययम्॥४.११.१३॥

इति अन्वेष्टुम् समाचारम् कौतुकात् सः महीपतिः।
प्रच्छन्नान् स्थापयामास चारानस्यात्र पृष्ठतः॥४.११.१४॥

सः च वीरवरः प्रातः कृत्वा भूपस्य दर्शनम्।
स्थित्वा च तस्या मध्याह्नम् सिंहद्वारे धृतायुधः॥४.११.१५॥

गत्वा स्ववृत्तिलब्धानाम् दीनाराणाम् शतम् गृहे।
भोजनार्थम् स्वभार्यायाः हस्ते प्रादात् किल अन्वहम्॥४.११.१६॥

वस्त्राङ्गरागताम्बूलम् क्रीणाति स्म शतेन च।
शतम् स्नात्वा च पूजार्थम् व्यधात् विष्णोः शिवस्य च॥४.११.१७॥

विप्रेभ्यः कृपणेभ्यः च ददौ दानम् शतद्वयम्।
एवम् विभेजे पञ्चापि तानि नित्यम् शतानि असौ॥४.११.१८॥

ततः कृत्वा अग्निकार्यादि भुक्त्वा गत्वैककः निशि।
सिंहद्वारे पुनः तस्थौ पाणौ करतलाम् दधत्॥४.११.१९॥

एताम् सततचर्याम् च तस्य वीरवरस्य सः।
राजा चारमुखात् श्रुत्वा तुतोष हृदि शूद्रकः॥४.११.२०॥

निवारयामास च तान् चारान् तस्यानुमार्गगान्।
मेने विशेषपूजार्हम् पुरुषातिशयम् च तम्॥४.११.२१॥

अथ यातेषु दिवसेषु अवहेलावलङ्घिते।
ग्रीष्मे वीरवरेण अत्र सुप्रचण्डार्कतेजसि॥४.११.२२॥

तदीर्ष्यातः इव उद्भूतविद्युत्करतलाम् दधत्।
धाराप्रहारी निनदन् आजगाम घनागमः॥४.११.२३॥

तदा च घोर मेघौघे प्रवर्षति दिवानिशम्।
सिंहद्वारे तथा एव आसीत् सः अत्र वीरवरः अचलः॥४.१.२४॥

तम् च दृष्ट्वा दिवा राजा प्रासादाग्रात् सः शूद्रकः।
निशि भूयः तदारोहत् जिज्ञासुः तस्य ताम् स्थितिम्॥४.११.२५॥

जगाद च ततः कः नु सिंहद्वारे स्थितः अत्र भोः।
तत् श्रुत्वा अहम् स्थितः अत्र इति सः अपि वीरवरः अब्रवीत्॥४.११.२६॥

अहो सुदृढसत्त्वः अयम् भक्तः वीरवरः मयि।
तद् एषः प्रापणीयः मे अवश्यम् एव महत् पदम्॥४.११.२७॥

इति संचिन्त्य नृपतिः प्रासादात् अवतीर्य सः।
शूद्रकः शयनम् भेजे प्रविश्य अन्तःपुरम् ततः॥४.११.२८॥

अन्येद्युः च भृशम् मेघे धारासारेण वर्षति।
प्रदोषे गुप्तभवने काले तमसि जृम्भिते॥४.११.२९॥

पुनः स राजा जिज्ञासुः प्रासादम् अधिरुह्य तम्।
सिंहद्वारे स्थितः कः अत्र इति एकाकी प्राह तम् स्फुटम्॥४.११.३०॥

अहम् स्थितः इति प्रोक्ते पुनः वीरवरेण च।
यावत् विस्मयते सः अत्र राजा तद्धैर्यदर्शनात्॥४.११.३१॥

तावत् विदूरे शुश्राव सहसा रुदतीम् स्त्रियम्।
विषादविकलाम् एकाम् प्रलापकरुणस्वनम्॥४.११.३२॥

न मे राष्ट्रे पराभूतः न दरिद्रः न दुःखितः।
कः चित् अस्ति तत् एषा का रोदिति एकाकिनी निशि॥४.११.३३॥

इति च अचिन्तयत् श्रुत्वा सः जातकरुणः नृपः।
आदिदेश च तम् वीरवरम् एकम् अधः स्थितम्॥४.११.३४॥

भोः वीरवर शृणु एषा दूरे स्त्री कापि रोदिति।
का असौ रोदिति किम् च इति त्वया गत्वा निरूप्यताम्॥४.११.३५॥

तच्छ्रुत्वा सः तथा इति उक्त्वा गन्तुम् वीरवरः ततः।
प्रावर्तत निबद्धासिधेनुः करतलाकरः॥४.११.३६॥

न च मेघान्धकारम् तत् ज्वलत्विद्युत्विलोचनम्।
स्थूलधाराशिलावार्षि रक्षोरूपम् अजीगणत्॥४.११.३७॥

प्रस्थितम् वीक्ष्य तादृश्याम् तस्याम् रात्रौ तम् एककम्।
करुणाकौतुकाविष्टः राजा प्रासादपृष्ठतः॥४.११.३८॥

अवतीर्य गृहीतासिः एकाकी तस्य पृष्ठतः।
सः अपि प्रतस्थे तत्रैव शूद्रकः अनुपलक्षितः॥४.११.३९॥

सः च वीरवरः गत्वा रुदितानुसृतिक्रियः।
बहिःनगर्याः प्राप एकम् सरः तत्र ददर्श च॥४.११.४०॥

हा शूर हा कृपालः हा त्यागिन् शून्या त्वया कथम्।
वत्स्यामि इत्यादि रुदतीम् ताम् स्त्रियम् वारिमध्यगाम्॥४.११.४१॥

का त्वम् रोदिषि किम् च एवम् इति अन्वक्प्राप्तभूपतिः।
पप्रच्छ ताम् च साश्चर्यः ततः सा अपि एवम् अभ्यधात्॥४.११.४२॥

भो वीरवर जानीहि वत्स माम् पृथिवीम् इमाम्।
तस्याः मम अधुना राजा शूद्रकः धार्मिकः पतिः॥४.११.४३॥

तृतीये च दिने तस्य राज्ञः मृत्युः भविष्यति।
तादृशम् च पतिम् प्राप्स्यामि अहम् अन्यम् नृपम् कुतः॥४.११.४४॥

अतः तम् अनुशोचामि दुःखिता आत्मानम् एव च।
एतत् श्रुत्वा सः ताम् त्रस्तः इव वीरवरः अब्रवीत्॥४.११.४५॥

हे देवि कच्चिदप्यस्ति कः अपि उपायः सः तादृशः।
येन अस्य न भवेन्मृत्युः जगद्रक्षामणेः प्रभोः॥४.११.४६॥

इति तत् वचनम् श्रुत्वा सा जगाद वसुन्धरा।
एकः अस्ति उपायः तम् च एकः कर्तुम् शक्तः भवान् इति॥४.११.४७॥

ततः वीरवरः अवादीत् तर्हि देवि वद द्रुतम्।
यावत् तत् साधयामि आशु कः अर्थः प्राणैः मम अन्यथा॥४.११.४८॥

तत् श्रुत्वा उवाच वसुधा वीरः कः अन्यः त्वया समः।
स्वामिभक्तः तत् एतस्य शर्मौपायम् इमम् शृणु॥४.११.४९॥

राज्ञा कृतप्रतिष्ठास्ति या एषा राजकुलान्तिके।
उत्तमा चण्डिका देवी सांनिध्यौत्कर्षशालिनी॥४.११.५०॥

तस्यै सत्त्ववरम् पुत्रम् उपहारी करोषि चेत्।
तत् न एषः राजा म्रियते जीवति अन्यत् समाशतम्॥४.११.५१॥

अद्य एव च एतत् भवता कृतम् चेत् अस्ति तत् शिवम्।
अन्यथा अस्य तृतीये अह्नि प्राप्ते न अस्ति एव जीवितम्॥४.११.५२॥

इति उक्तः सः तया पृथ्व्या वीरः वीरवरः तदा।
यामि देवि करोमि एतत् अधुना एव इति अभाषत॥४.११.५३॥

ततः भद्रम् तव इति उक्त्वा वसुधा सा तिरोदधे।
तत् च सर्वम् सः शुश्राव गुप्तम् अन्वक्स्थितः नृपः॥४.११.५४॥

ततः च गूढे जिज्ञासौ तस्मिन् राज्ञि अनुगच्छति।
शूद्रके त्वरितम् गेहम् निशि वीरवरः ययौ॥४.११.५५॥

तत्र पुत्रोपहारः अस्य राजार्थे धरया यथा।
उक्तः तथा अब्रवीत् पत्न्यै धर्मवत्यै विबोध्य सः॥४.११.५६॥

तत् श्रुत्वा सा तम् आह स्म नाथ कार्यम् शिवम् प्रभोः।
तत्प्रबोध्य सुतस्य अस्य शिशोः वक्तु भवान् इति॥४.११.५७॥

ततः प्रबोध्य सुप्तम् तम् बालम् सत्त्ववरम् सुतम्।
आख्याय तम् च वृत्तान्तम् एवम् वीरवरः अब्रवीत्॥४.११.५८॥

तत् पुत्र चण्डिकादेव्यै उपहारीकृते त्वयि।
राजा जीवति असौ नो चेत् तृतीये अह्नि विपद्यते॥४.११.५९॥

एतत् श्रुत्वा एव बालः अपि यथा अर्थम् नाम दर्शयन्।
अक्लीबचित्तः पितरम् तम् सः सत्त्ववरः अब्रवीत्॥४.११.६०॥

कृतार्थः अहम् मम प्राणैः राजा चेत् तात जीवति।
भुक्तस्य हि ततन्नस्य दत्ता स्यात् निष्कृतिः मया॥४.११.६१॥

तत्किम् विलम्ब्यते नीत्वा भगवत्याः पुरः अधुना।
उपहारीकुरुध्वम् माम् अस्तु शान्तिः मया प्रभोः॥४.११.६२॥

इति सत्त्ववरेण उक्ते तेन वीरवरः अत्र सः।
साधु सत्यम् प्रसूतः असि मत्तः पुत्र इति अभाषत॥४.११.६३॥

एतत् सः अन्वागतः राजा सर्वम् श्रुत्वा बहिः स्थितः।
अहो एषाम् समम् सत्त्वम् सर्वेषाम् इति अचिन्तयत्॥४.११.६४॥

ततः वीरवरः स्कन्धे कृत्वा सत्त्ववरम् सुतम्।
भर्या धर्मवती च अस्य कन्याम् वीरवतीम् अपि॥४.११.६५॥

उभौ तौ ययतुः तस्याम् रात्रौ तत् चण्डिकागृहम्।
राजा अपि शूद्रकः छन्नः पृष्टतः सः तयोः ययौ॥४.११.६६॥

तत्र देव्याः पुरः स्कन्धात् सः अथ पित्रा अवतारितः।
देवीम् सत्त्ववरः नत्वा धैर्यराशिः व्यजिज्ञपत्॥४.११.६७॥

मम मूर्धौपहारेण राजा जीवतु शुद्रकः।
अन्यत् वर्षशतं देवि कुर्यात् राज्यम् अकण्टकम्॥४.११.६८॥

एवम् उक्तवतः तस्य साधु साधु इति उदीर्य सः।
सूनोः सत्त्ववरस्य अथ कृष्ट्वा करतलाम् शिशोः॥४.११.६९॥

छित्त्वा शिरः चण्डिकायै देव्यै वीरवरः ददौ।
मत्पुत्रेण उपहारेण राजा जीवतु इति ब्रुवन्॥४.११.७०॥

साधु कः स्वामिभक्तः अन्यः समः वीरवर त्वया।
येन एवम् एकसत्पुत्रप्राणव्ययविधायिना॥४.११.७१॥

दत्तः जीवः च राज्यम् च शुद्रकस्य अस्य भूपतेः।
इति अन्तरिक्षात् उदगात् तत्क्षणम् तत्र भारती॥४.११.७२॥

तत् च सर्वम् नृपे तस्मिन् छन्ने शृण्वति पस्यति।
कन्या वीरवती सा तु बाला वीरवर- आत्मजा॥४.११.७३॥

उपेत्य आश्लिष्य मूर्धाणम् तस्य भ्रातुः हतस्य तम्।
विलपन्ती उरुशोकान्धा हृत्स्फोटेन व्यपद्यत॥४.११.७४॥

ततः वीरवरम् भार्या धर्मवती एवम् अब्रवीत्।
राज्ञः तावत् कृतम् श्रेयः तत् इदानीम् वदामि ते॥४.११.७५॥

निःज्ञाना यत्र बाला अपि भ्रातृशोकात् इयम् मृता।
नष्टे अपत्यद्वये अपि अस्मिन् तत्र किम् जीवितेन मे॥४.११.७६॥

प्राक् एव राज्ञः श्रेयःअर्थम् मूढया स्वशिरः मया।
देव्यै न उपहृतम् तस्मात् देहि अनुज्ञाम् मम अधुना॥४.११.७७॥

प्रविषमि अनलम् तावत् आत्तापत्यकलेवरा।
इति- आग्रहाद् वदन्तीम् ताम् सः अथ वीरवरः अब्रवीत्॥४.११.७८॥

एवम् कुरुष्व भद्रम् ते का हि संप्रति ते रतिः।
अपत्यदुःखएकमये जीवितव्ये मनस्विनि॥४.११.७९॥

किम् न दत्तः मया एव आत्म इति एषा मा भूत् च ते व्यथा।
दद्याम् किम् न अहम् आत्मानम् अन्यसाध्यम् भवेत् यदि॥४.११.८०॥

तत् प्रतीक्षस्व यावत् ते चिताम् अत्र करोमि अहम्।
अमीभिः दारुभिः देवीक्षेत्रनिर्माणसंभृतैह्॥४.११.८१॥

इति उक्त्वा दारुभिः तैः सः कृत्वा वीरवरः चिताम्।
दीपाग्रे ज्वालयामास न्यस्तापत्यशवद्वयाम्॥४.११.८२॥

ततः धर्मवती पत्नी पतित्वा सा अस्य पादयोः।
प्रणम्य देवीम् चण्डीम् ताम् व्यजिज्ञपत् अपांसुला॥४.११.८३॥

जन्मान्तरे अपि अयम् भूयात् आर्यपुत्रः पतिः मम।
एतत् प्रभोः तु राज्ञः अस्तु मत्देहेन अमुना शिवम्॥४.११.८४॥

इति उदीर्य एव सा साध्वी तस्मिन् अम्भःअवहेलया।
ज्वालाकलापजटिले निपपात चिता- अनले॥४.११.८५॥

ततः च चिन्तयामास वीरः वीरवरः अत्र सः।
निष्पन्नम् राजकार्यम् मे वाक् दिव्या हि उद्गता यथा॥४.११.८६॥

भुक्तस्य च अन्नपिण्डस्य जातः अहम् अनृणः प्रभोः।
तत् इदानीम् मम एकस्य का इयम् जीवितगृध्नुता॥४.११.८७॥

भरणीयम् प्रियम् कृत्स्नम् व्ययीकृत्य कुटुम्बकम्।
जीवयन् एकम् आत्मानम् मादृशः कः हि शोभते॥४.११.८८॥

तत् किम् आत्मौपहारेण अपि एताम् प्रीणामि न अम्बिकाम्।
इति आलोच्य सः देवीम् ताम् स्तुत्या प्राक् उपतस्थिवान्॥४.११.८९॥

जय महिषासुरमारिणि दारिणि रुरुदानवस्य शूलकरे।
जय विबुधौत्सवकारिणि धारिणि भुवन त्रयस्य मातृवरे॥४.११.९०॥

जय जगत् अर्चितचरणे शरणे निःश्रेयसस्य भक्तानाम्।
जय धृतभास्करकिरणे हरणे दुरितान्धकारवृन्दानाम्॥४.११.९१॥

जय कालि जय कपालिनि जय कङ्कालिनि शिवे नमः ते अस्तु।
शूद्रकनृपतेः अधुना प्रसीद मन्मस्तकौपहारेण॥४.११.९२॥

इति उपस्थाय देव्याम् सः तस्याम् वीरवरः पुनः।
सद्यः करतलाघातेन उत्तमाङ्गम् स्वमच्छिनत्॥४.११.९३॥

तत् आलोक्य अखिलम् तत्र छन्नस्थः शूद्रकः नृपः।
साकुलः च सदुःखः च साश्चर्यः च व्यचिन्तयत्॥४.११.९४॥

अहो किम् अपि अनेन एतत् अन्यत्र अदृष्टम् अश्रुतम्।
साधुना सकुटुम्बेन दुःकरम् मत्कृते कृतम्॥४.११.९५॥

विचित्रे अपि अत्र संसारे धीरः स्यातीदृशः कुतः।
अख्यापयन् प्रभोः अर्थे परोक्षम् यः ददाति असून्॥४.११.९६॥

एतस्य च उपकारोस्य न कुर्याम् सदृशम् यदि।
तत् मे का प्रभुता किम् च जीवितव्यम् पशोः इव॥४.११.९७॥

इति संचिन्त्य नृपतिः खड्गम् आकृष्य कोपतः।
उपेत्य शूद्रकः देवीम् ताम् प्रवीरः व्यजिज्ञपत्॥४.११.९८॥

सततानुप्रपन्नस्य भगवति अधुना अमुना।
मम मूर्धौपहारेण सुप्रीता कुरु अनुग्रहम्॥४.११.९९॥

अयम् वीरवरः विप्रः नामानुगुणचेष्टितः।
मदर्थम् उज्झितप्राणः सकुटुम्बः अपि जीवतु॥४.११.१००॥

इति उदीर्य असिना राजा शिरः छेत्तुम् सः शूद्रकः।
यावत् प्रवर्तते तावत् उदभूत् भारती दिवः॥४.११.१०१॥

मा साहसम् कृथाः तुष्टा सत्त्वेन अनेन ते हि अहम्।
प्रत्युज्जीवतु सापत्यदारः वीरवरः द्विजः॥४.११.१०२॥

इति उक्त्वा व्यरमत् वाक् सा सः च उत्तस्थौ सपुत्रकः।
साकम् दुहित्रा पत्न्या च जीवन् वीरवरः अक्षतः॥४.११.१०३॥

तत् विलोक्य अद्भुतम् राजा छन्नः भूत्वा पुनः च सः।
पश्यन् अतृप्तः ताम् आसीत् दृष्ट्या हर्षाश्रुपूर्णया॥४.११.१०४॥

सः अपि वीरवरः दृष्ट्वा सुप्त उत्थितः इव आशु तम्।
पुत्रदारम् तथा आत्मानम् अभूत् विभ्रान्तमानसः॥४.११.१०५॥

पप्रच्छ च पृथक् नामग्राहम् दारसुतान् सः तान्।
भस्मीभूताः कथम् यूयम् जीवन्तः पुनः उत्थिताः॥४.११.१०६॥

मया अपि स्वशिरः छिन्नम् जीवामि एषः च किम् नु इदम्।
किम् विभ्रमः अयम् आहो स्विद् सुस्पष्टः देवी- अनुग्रहः॥४.११.१०७॥

एवम् वदन् सः तैः ऊचे दारापत्यैः अलक्षितः।
देवी- अनुग्रहः एव अयम् जीवामः यत् अमी इति॥४.११.१०८॥

ततः सः तत् तथा मत्वा नत्वा वीरवरः अम्बकाम्।
आदाय पुत्रदारान् तान्सिद्धकार्यः गृहम् ययौ॥४.११.१०९॥

तत्र प्रवेश्य पुत्रम् तम् भार्याम् दुहितरम् च ताम्।
सिंहद्वारम् अगात् राज्ञः रात्रौ तस्याम् सः पूर्ववत्॥४.११.११०॥

राजा सः शूद्रकः अपि एतत् दृष्ट्वा सर्वम् अलक्षितः।
गत्वा आरुरोह स्व- आवासप्रासादम् तम् पुनः तदा॥४.११.१११॥

व्याहरत् च स्थितः कः अत्र सिंहद्वारि इति पृष्ठतः।
ततः वीरवरः अवादीत् सः एषः तिष्ठामि अहम् प्रभो॥४.११.११२॥

देव- आदेशात् गतः च अहम् अभूवम् ताम् स्त्रियम् प्रति।
राक्षसी इव च सा क्व अपि दृष्टनष्टा एव मे गता॥४.११.११३॥

एतत् श्रुत्वा वचः तस्य राजा वीरवरस्य सः।
सुतराम् विस्मय आविष्टः दृष्टौदन्तः व्यचिन्तयत्॥४.११.११४॥

अहो समुद्रगम्भीरधीरचित्ताः मनस्विनः।
कृत्वा अपि अनन्यसामान्यम् उल्लेखम् न उद्गिरन्ति ये॥४.११.११५॥

इति आदि आकलयन् तूष्णीम् प्रासादात् अवरुह्य सः।
प्रविश्य अन्तःपुरम् राजा रात्रिशेषम् निनाय तम्॥४.११.११६॥

प्रातः च आस्थानसमये दर्शनौपगतस्थिते।
तस्मिन् वीरवरे प्रीतः तथा कृत्स्नम् सः भूपतिः॥४.११.११७॥

तदीयम् रात्रिवृत्तान्तम् मन्त्रिभ्यः तम् अवर्णयत्।
यथा बभूवुः आश्चर्यमोहिताः इव ते अखिलाः॥४.११.११८॥

ददौ तस्मै सपुत्राय प्रीत्या वीरवराय च।
लाटदेशे ततः राज्यम् सः कर्णाटयुते नृपः॥४.११.११९॥

ततः अत्र तुल्यविभवौ अन्योन्यस्य उपकारिणौ।
आसाताम् तौ सुखम् वीरवरशूद्रकभूपती॥४.११.१२०॥

इति आख्याय कथाम् एताम् वेतालः अत्यद्भुताम् तदा।
तम् त्रिविक्रमसेनम् सः राजानम् अवदत् पुनः॥४.११.१२१॥

तत् ब्रूहि राजन् एतेषु वीरः सर्वेषु कः अधिकः।
पूर्वः एव सः शापः ते यदि जानन् न वक्ष्यसि॥४.११.१२२॥

एतत् श्रुत्वा सः भूपालः वेतालम् प्रत्युवाच तम्।
एतेषु शूद्रकः राजा प्रवीरः सः अखिलेषु इति॥४.११.१२३॥

ततः अब्रवीत् सः वेतालः राजन् वीरवरः न किम्।
सः अधिकः यस्य तुल्यः अस्याम् पृथ्व्याम् एव न जायते॥४.११.१२४॥

तत्पत्नी न अधिका किम् वा स्त्रीभूता या अन्वमन्यत।
तथा उपहारपशुताम् सूनोः प्रत्यक्षदर्शिनी॥४.११.१२५॥

सः वा सत्त्ववरः न अत्र तत्पुत्रः अभ्यधिकः कथम्।
बालस्य अपि सतः यस्य सत्त्वौत्कर्षः सः तादृशः॥४.११.१२६॥

तत् कस्मात् शूद्रकम् भूपम् एभ्यः त्वम् भाषसे अधिकम्।
इति उक्तवन्तम् वेतालम् सः जगाद पुनः नृपः॥४.११.१२७॥

मा एवम् वीरवरः तावत् सः तादृक्कुलपुत्रकः।
तस्य प्राणैः सुतैः दारैः स्वामिसंरक्षणम् व्रतम्॥४.११.१२८॥

तत्पत्नी सा अपि कुलजा साध्वी पत्येकदेवता।
भर्तृवर्त्मानुसारेण तस्याः धर्मः अस्तु कः अपरः॥४.११.१२९॥

ताभ्याम् जातः तु तद्रूप एव सत्त्ववरः अपि सः।
यादृशाः तन्तवः कामम् तादृशः जायते पटः॥४.११.१३०॥

येषाम् प्राणैः तु भृत्यानाम् नृपैः आत्मा अभिरक्ष्यते।
तेषाम् अर्थे त्यजन्देहम् शूद्रकः अत्र विशिष्यते॥४.११.१३१॥

इति आकर्ण्य वचः सः तस्य नृपतेः अंसात् असंलक्षितः
वेतालः सहसा ययौ निजपदम् भूयः अपि तत्मायया।
राजा अपि उच्चलितः बभूव पुनः अपि आनेतुम् एतम् पथा
पूर्वेण एव सुनिश्चितः पितृवने तस्मिन् सः तस्याम् निशि॥४.११.१३२॥

तुलनीय - भविष्यपुराणम् ; कथासरित्सागरः ९.३.८६

वीरवर - शूद्रकोपरि टिप्पणी

संबंधित कड़ियाँ[सम्पाद्यताम्]

  1. वेतालपञ्चविंशति
    1. वेतालपञ्चविंशति 00
    2. वेतालपञ्चविंशति 01
    3. वेतालपञ्चविंशति 02
    4. वेतालपञ्चविंशति 03
    5. वेतालपञ्चविंशति 04
    6. वेतालपञ्चविंशति 05
    7. वेतालपञ्चविंशति 06
    8. वेतालपञ्चविंशति 07
    9. वेतालपञ्चविंशति 08
    10. वेतालपञ्चविंशति 09
    11. वेतालपञ्चविंशति 10
    12. वेतालपञ्चविंशति 11
    13. वेतालपञ्चविंशति 12
    14. वेतालपञ्चविंशति 13
    15. वेतालपञ्चविंशति 14
    16. वेतालपञ्चविंशति 15
    17. वेतालपञ्चविंशति 16
    18. वेतालपञ्चविंशति 17
    19. वेतालपञ्चविंशति 18
    20. वेतालपञ्चविंशति 19
    21. वेतालपञ्चविंशति 20
    22. वेतालपञ्चविंशति 21
    23. वेतालपञ्चविंशति 22
    24. वेतालपञ्चविंशति 23
    25. वेतालपञ्चविंशति 24
    26. वेतालपञ्चविंशति 25

बाहरी कडियाँ[सम्पाद्यताम्]

"https://sa.wikisource.org/w/index.php?title=वेतालपञ्चविंशति_04&oldid=75278" इत्यस्माद् पुनः प्राप्तिः