वेतालपञ्चविंशति 02

विकिस्रोतः तः
Jump to navigation Jump to search
← वेतालपञ्चविंशति 01 वेतालपञ्चविंशति 02
सोमदेव
वेतालपञ्चविंशति 03 →

ततः अत्र पुनः आनेतुम् तम् वेतालम् अगात् नृपः।
सः त्रिविक्रमसेनः तत् शिंशपापादपान्तिकम्॥२.९.१॥

प्राप्तः अत्र वीक्षते यावत् चितालोकवशात् निशि।
तावत् ददर्श तम् भूमौ कूजन्तम् पतितम् शवम्॥२.९.२॥

अथ तम् मृतदेहस्थम् वेतालम् सः महीपतिः।
आरोप्य स्कन्धम् आनेतुम् तूष्णीम् प्रववृते जवात्॥२.९.३॥

ततः स्कन्धात् सः वेतालः भूयः तम् नृपमब्रवीत्।
राजन् महति अनुचिते क्लेशे अस्मिन् पतितः भवान्॥२.९.४॥

अतः तव विनोदाय कथयामि कथाम् शृणु।
अस्ति अग्रहारः कालिन्दीकूले ब्रह्मस्थलाभिधः॥२.९.५॥

अग्निस्वामी इति तत्रासीद् ब्राह्मणः वेदपारगः।
तस्य अतिरूपा मन्दारवती इति अजनि कन्यका॥२.९.६॥

याम् निर्माय नवानर्घलावण्याम् नियतम् विधिः।
स्वर्गस्त्रीपूर्वनिर्माणम् निजम् एव अजुगुप्सत॥२.९.७॥

तस्याम् च यौवनस्थायाम् आययुः कान्यकुब्जतः।
समसर्वगुणाः तत्र त्रयः ब्राह्मणपुत्रकाः॥२.९.८॥

तेषाम् च आत्मार्थम् एकैकः तत्पितुः ताम् अयाचत।
अनिच्छन् दानम् अन्यस्मै तस्याः प्राणव्ययात् अपि॥२.९.९॥

तत्पिता सः तु तन्मध्यात् न एकस्मै अपि ताम् ददौ।
भीतः अन्ययोः वधात् तेन तस्थौ कन्या एव सा ततः॥२.९.१०॥

ते च त्रयः अपि तद्वक्त्रचन्द्रएकासक्त दृष्टयः।
चकोरव्रतम् आलम्ब्य तत्रैवासन् दिवानिशम्॥२.९.११॥

अथ अकस्मात्समुत्पन्न दाहज्वरवशेन सा।
जगाम मन्दारवती कुमारी किल पञ्चताम्॥२.९.१२॥

ततः ताम् विप्रपुत्राः ते परासुम् शोकविक्लवाः।
कृतप्रसाधनाम् नीत्वा श्मशानम् चक्रुः अग्निसात्॥२.९.१३॥

एकः च तेषाम् तत्रैव विधाय मठिकाम् ततः।
कृततत्भस्मशय्यः सन् आस्तायाचितभैक्षभुक्॥२.९.१४॥

द्वितीयः अस्थीनि उपादाय तस्याः भागीरथीम् ययौ।
तृतीयः तापसः भूत्वा भ्रान्तुम् देशान्तराणि अगात्॥२.९.१५॥

सः भ्राम्यन् तापसः प्राप ग्रामम् वक्रोलकाभिधम्।
तत्र अतिथिः सन् कस्यापि विप्रस्य प्राविशत् गृहम्॥२.९.१६॥

तत्पूजितः सः यावत् च भोक्तुम् तत्र प्रचक्रमे।
तावत् एकः शिशुः तत्र प्रवृत्तः अभूत् प्ररोदितुम्॥२.९.१७॥

सः सान्त्व्यमानः अपि यदा न व्यरंसीत् तदा क्रुधा।
बाहौ आदाय गृहिणी ज्वलति अग्नौ तमक्षिपत्॥२.९.१८॥

क्षिप्त मात्रः सः मृद्वङ्गः भस्मीभावम् अवाप्तवान्।
तत् दृष्ट्वा जातरोमाञ्चः सः अब्रवीत् तापसः अतिथिः॥२.९.१९॥

हा धिक्कष्टम् प्रविष्टः अस्मि ब्रह्मराक्षसवेश्मनि।
तन्मूर्तम् किल्बिषम् इदम् न भोक्ष्ये अन्नम् इह अधुना॥२.९.२०॥

एवम् वदन्तम् तम् सः अत्र गृहस्थः प्राह पश्य मे।
शक्तिम् पठितसिद्धस्य मन्त्रस्य मृतजीवनीम्॥२.९.२१॥

इति उक्त्वा अदाय तत् मन्त्रपुस्तिकाम् अनुवाच्य च।
तत्र भस्मनि चिक्षेप सः धूलिम् अभिमन्त्रिताम्॥२.९.२२॥

तेन उदतिष्ठत् तद्रूप एव जीवन् सः बालकः।
ततः सः निर्वृतः तत्र भुक्तवान् विप्रतापसः॥२.९.२३॥

गृहस्थः अपि सः ताम् नागदन्ते अवस्थाप्य पुस्तिकाम्।
भुक्त्वा च शयनम् भेजे रात्रौ तत्र एव तद्युतः॥२.९.२४॥

सुप्ते गृहपतौ तस्मिन् स्वैरम् उत्थाय शङ्कितः।
सः प्रियाजीवितार्थी ताम् पुस्तिकाम् तापसः अग्रहीत्॥२.९.२५॥

गृहीत्वा एव च निर्गत्य ततः रात्रिदिनम् व्रजन्।
क्रमात् श्मशानम् तत् प्राप यत्र दग्धा अस्य सा प्रिया॥२.९.२६॥

ददर्श च अत्र तत्कालम् तम् द्वितीयम् उपागतम्।
यः सः गङ्गा- अम्भसि क्षेप्तुम् तदस्थीनि गतः अभवत्॥२.९.२७॥

ततः तम् च तम् आद्यम् च तस्याः भस्मनि शायिनम्।
निबद्धमठिकम् तत्र द्वौ अपि एतौ जगाद सः॥२.९.२८॥

मठिका अपास्यताम् एषा यावत् उत्थापयामि ताम्।
जीवन्तीम् भस्मतः कान्ताम् मन्त्रशक्त्या कया अपि अहम्॥२.९.२९॥

इति तौ प्रेर्य निर्बन्धात् निर्लोठ्य मठिकाम् च सः।
उद्घाट्य तापसः विप्रः पुस्तिकाम् ताम् अवाचयत्॥२.९.३०॥

अभिमन्त्र्य च मन्त्रेण धूलिम् भस्मनि अवाक्षिपत्।
उदतिष्ठत् च जीवन्ती सा मन्दारवती ततः॥२.९.३१॥

वह्निम् प्रविश्य निष्क्रान्तम् वपुः पूर्वाधिकद्युति।
तदा बभार सा कन्या काञ्चनेन इव निर्मितम्॥२.९.३२॥

तादृशीम् ताम् पुनः जाताम् ते दृष्ट्वा एव स्मरातुराः।
प्राप्तुकामाः त्रयः अपि एवम् अन्यःअन्यम् कलहम् व्यधुः॥२.९.३३॥

एकः अब्रवीत् इयम् भार्या मम मन्त्रबलार्जिता।
तीर्थप्रभावजा भार्या मम इयम् इति चापरः॥२.९.३४॥

रक्षित्वा भस्म तपसा जीविता इयम् मयेह यत्।
तत् एषा मम भार्या इति तृतीयः अत्र जगाद सः॥२.९.३५॥

विवादनिर्णये तेषाम् त्वम् तावत् मे महीपते।
निश्चयम् ब्रूहि कस्य एषा कन्या भार्या उपपद्यते॥२.९.३६॥

विदलिष्यति मूर्धा ते यदि जानन् न वक्ष्यसि।
इति वेतालतः श्रुत्वा तम् सः राजा एवम् अभ्यधात्॥२.९.३७॥

यः क्लेशम् अनुभूय अपि मन्त्रेण एताम् अजीवयत्।
पिता सः तस्याः तत्कार्यकरणात् न पुनः पतीः॥२.९.३८॥

यः च अस्थीनि निनाय अस्य गङ्गायाम् सः सुतः मतः।
यः तु तत् भस्मशय्यम् ताम् आश्लिष्य आसीत् तपः चरन्॥२.९.३९॥

श्मशाने एव तत् प्रीत्या भर्ता तस्याः सः उच्यते।
कृतम् तत् अनुरूपम् इह तेन गाढानुरागिण॥२.९.४०॥

एवम् नृपात् त्रिविक्रमसेनात् श्रुत्वा एव मुक्तमौनात् सः।
तस्य स्कन्धात् अगमत् वेतालः अतर्कितः स्वपदम्॥२.९.४१॥

राजा अथ भिक्ष्वर्थसमुद्यतः तम् प्राप्तुम् सः भूयः अपि मनः बबन्ध।
प्राणात्यये अपि प्रतिपन्नम् अर्थम् तिष्ठन्ति अनिर्वाह्य न धीरसत्त्वाः॥२.९.४२॥

वामनोपरि टिप्पणी

केशवोपरि टिप्पणी

अस्थ्नोपरि टिप्पणी


तुलनीय - भविष्यपुराणम्

संबंधित कड़ियाँ[सम्पाद्यताम्]

  1. वेतालपञ्चविंशति
    1. वेतालपञ्चविंशति 00
    2. वेतालपञ्चविंशति 01
    3. वेतालपञ्चविंशति 02
    4. वेतालपञ्चविंशति 03
    5. वेतालपञ्चविंशति 04
    6. वेतालपञ्चविंशति 05
    7. वेतालपञ्चविंशति 06
    8. वेतालपञ्चविंशति 07
    9. वेतालपञ्चविंशति 08
    10. वेतालपञ्चविंशति 09
    11. वेतालपञ्चविंशति 10
    12. वेतालपञ्चविंशति 11
    13. वेतालपञ्चविंशति 12
    14. वेतालपञ्चविंशति 13
    15. वेतालपञ्चविंशति 14
    16. वेतालपञ्चविंशति 15
    17. तालपञ्चविंशति 16
    18. वेतालपञ्चविंशति 17
    19. वेतालपञ्चविंशति 18
    20. वेतालपञ्चविंशति 19
    21. वेतालपञ्चविंशति 20
    22. वेतालपञ्चविंशति 21
    23. वेतालपञ्चविंशति 22
    24. वेतालपञ्चविंशति 23
    25. वेतालपञ्चविंशति 24
    26. वेतालपञ्चविंशति 25

बाहरी कडियाँ[सम्पाद्यताम्]

"https://sa.wikisource.org/w/index.php?title=वेतालपञ्चविंशति_02&oldid=99581" इत्यस्माद् पुनः प्राप्तिः