सामग्री पर जाएँ

वेतालपञ्चविंशति 05

विकिस्रोतः तः
← वेतालपञ्चविंशति ०४ वेतालपञ्चविंशति ०५
सोमदेव
वेतालपञ्चविंशति ०६ →

द्वादशस्तरङ्गः ।

(पञ्चमो वेतालः ।)

ततस्तस्य पुनर्गत्वा शिंशपाशाखिनोऽन्तिकम् ।
तथैवोल्लम्बमानं तं दृष्ट्वा नरशरीरगम् ।। १
वेतालमवतार्यैव कृत्वास्मै बहु वैकृतम् ।
स त्रिविक्रमसेनो द्राग्गन्तुं प्रववृते ततः ।। २
आगच्छन्तं च तं तूष्णीं वेतालः पूर्ववत्पथि ।
रात्रौ महाश्मशानेऽत्र स्कन्धस्थो व्याजहार सः ।। ३
राजन्नभिनिविष्टोऽसि कष्टेऽत्यन्तप्रियोऽसि च ।
तत्ते चेतोविनोदाय वर्णयामि कथां शृणु ।। ४
उज्जयिन्यामभूद्विप्रः पुण्यसेनस्य भूपतेः ।
अनुजीवी प्रियोऽमात्यो हरिस्वामीति सद्गुणः ।। ५
तस्यात्मनोऽनुरूपायां भार्यायां गृहमेधिनः ।
गुणवान्सदृशः पुत्रो देवस्वामीत्यजायत ।। ६
तद्वच्चानन्यसामान्यरूपलावण्यविश्रुता ।
कन्या सोमप्रभा नाम तस्यान्वर्थोदपद्यत ।। ७
सा प्रदेया सती कन्या रूपोत्कर्षाभिमानिनी ।
मातुर्मुखेन पितरं भ्रातरं च जगाद तम् ।। ८
शूरस्य ज्ञानिनो वाहं देया विज्ञानिनोऽपि वा ।
अन्यस्मै नास्मि दातव्या कार्यं मज्जीवितेन चेत् ।। ९
तच्छ्रुत्वा तादृशं तस्याश्चिन्वन्नेकतमं वरम् ।
तत्पिता स हरिस्वामी यावच्चिन्तां वहत्यलम् ।। १०
तावद्व्यसर्जि राज्ञा स पुण्यसेनेन दूत्यया ।
संध्यर्थं विग्रहायातदाक्षिणात्यनृपान्तिकम् ।। ११
कृतकार्यश्च तत्रासावेकेनाभ्येत्य तां सुताम् ।
याचितोऽभूद्द्विजाग्र्येण श्रुततद्रूपसंपदा ।। १२
विज्ञानिनो ज्ञानिनो वा शूराद्वा नापरं पतिम् ।
मत्पुत्रीच्छति तत्तेषां मध्यात्कथय को भवान् ।। १३
इत्युक्तस्तेन भार्यार्थी स हरिस्वामिना द्विजः ।
अहं जानामि विज्ञानमिति तं प्रत्यभाषत ।। १४
तर्हि तद्दर्शयस्वेति पुनरुक्तश्च तेन सः ।
विज्ञानी कल्पयामास स्वशक्त्या द्युचरं रथम् ।। १५
मायायन्त्ररथे तत्र तं हरिस्वामिनं क्षणात् ।
आरोप्य नीत्वा स्वर्गादींल्लोकांस्तस्मायदर्शयत् ।। १६
आनिनाय च तुष्टं तं तत्रैव कटकं पुनः ।
दाक्षिणात्यस्य नृपतेर्यत्रायातः स कार्यतः ।। १७
ततः सोऽस्मै हरिस्वामी प्रतिशुश्राव तां सुताम् ।
विज्ञानिने विवाहं च निश्चिकायाह्नि सप्तमे ।। १८
तत्कालमुज्जयिन्यामप्यन्येनैत्य द्विजन्मना ।
देवस्वामी स तत्पुत्रः स्वसारं तामयाच्यत ।। १९
ज्ञानिविज्ञानिशूरेभ्यो नान्यमिच्छति सा पतिम् ।
इति तेनापि सोऽप्युक्तः शूरमात्मानमभ्यधात् ।। २०
ततो दर्शितशस्त्रास्त्रश्रिये तस्मै द्विजोऽनुजाम् ।
देवस्वामी स शूराय दातुं तां प्रत्यपद्यत ।। २१
सप्तमेऽह्नि च तत्रैव विवाहं गणकोक्तितः ।
तस्यापि सोऽभ्यधान्मातुः परोक्षं कृतनिश्चयः ।। २२
तन्मातापि हरिस्वामिभार्या तत्कालमेव सा ।
केनाप्येत्य तृतीयेन सुतां तां याचिता पृथक् ।। २३
ज्ञानी शूरोऽथ विज्ञानी भर्तास्मद्दुहितुर्मतः ।
इत्युक्तश्च तया मातरहं ज्ञानीति सोऽभ्यधात् ।। २४
पृष्ट्वा भूतं भविष्यच्च तस्मै तां ज्ञानिने सुताम् ।
प्रतिजज्ञे प्रदातुं साप्यह्नि तत्रैव सप्तमे ।। २५
अन्येद्युश्चागतः सोऽत्र हरिस्वामी यथाकृतम् ।
पत्न्यै पुत्राय चाचख्यौ तं कन्यादाननिश्चयम् ।। २६
तौ च तं स्वकृतं तस्मै भिन्नं भिन्नमवोचताम् ।
सोऽपि तेनाकुलो जज्ञे वरत्रयनिमन्त्रणात् ।। २७
अथोद्वाहदिने तस्मिन्हरिस्वामिगृहे वराः ।
आययुर्ज्ञानिविज्ञानिशूरास्तत्र त्रयोऽपि ते ।। २८
तत्कालं चात्र सा चित्रं कन्या सोमप्रभा वधूः ।
अशङ्कितं गता क्वापि न विचित्याप्यलभ्यत ।। २१
ततोऽब्रवीद्धरिस्वामी ज्ञानिनं तं ससंभ्रमः ।
ज्ञानिन्निदानीं ब्रूह्याशु दुहिता मे क्व सा गता ।। ३०
तच्छ्रुत्वा सोऽवदज्ज्ञानी राक्षसेनापहृत्य सा ।
नीता विन्ध्याटवीं धूमशिखेन वसतिं निजाम् ।। ३१
इत्युक्तो ज्ञानिना भीतो हरिस्वामी जगाद सः ।
हा धिक्कथं सा प्राप्येत विवाहश्चापि हा कथम् ।। ३२
श्रुत्वैतत्प्राह विज्ञानी धीरो भव नयामि वः ।
तत्राधुनैव यत्रैष ज्ञानी वदति तां स्थिताम् ।। ३३
इत्युक्त्वा तत्क्षणं कृत्वा रथं सर्वास्त्रसंयुतम् ।
तत्रारोप्य हरिस्वामिज्ञानिशूरान्खगामिनि ।। ३४
तान्स संप्रापयामास क्षणाद्विन्ध्याटवीभुवि ।
ज्ञानिना तां समाख्यातां वसतिं तत्र रक्षसः ।। ३५
तत्र तं राक्षसं क्रुद्धं ज्ञातवृत्तान्तनिर्गतम् ।
शूरोऽथ योधयामास हरिस्वामिपुरस्कृतः ।। ३६
तदाश्चर्यमभूद्युद्धं तयोर्मानुषरक्षसोः ।
चित्रास्त्रयोधिनोः स्त्र्यर्थं रामरावणयोरिव ।। ३७
क्षणेन च स सङ्ग्रामदुर्मदस्यापि रक्षसः ।
अर्धचन्द्रेण बाणेन शूरस्तस्याच्छिनच्छिरः ।। ३८
हते रक्षसि तां सोमप्रभामाप्तां तदास्पदात् ।
आदाय विज्ञानिरथेनाजग्मुस्ते ततोऽखिलाः ।। ३९
हरिस्वामिगृहं प्राप्य तेषां लग्नेऽप्युपस्थिते ।
ज्ञानिविज्ञानिशूराणां विवाद उदभून्महान् ।। ४०
ज्ञानी जगाद नाहं चेज्जानीयां तदियं कथम् ।
प्राप्येत कन्या गूढस्था देया मह्यमसावितः ।। ४१
विज्ञानी त्ववदन्नाहं कुर्यां चेद्व्योमगं रथम् ।
गमागमौ कथं स्यातां देवानामिव वः क्षणात् ।। ४२
कथं स्याच्चारथं युद्धं रथिना रक्षसा सह ।
तस्मान्मह्यमियं देया लग्नो ह्येष मयार्जितः ।। ४३
शूरोऽप्युवाच हन्यां चेन्नाहं तं राक्षसं रणे ।
तद्युवाभ्यां कृते यत्नेऽप्येतां कन्यां क आनयेत् ।। ४४
तन्मह्ममेषा दातव्येत्येवं तेषु विवादिषु ।
हरिस्वामी क्षणं तूष्णीमासीदुद्भ्रान्तमानसः ।। ४५
तत्कस्मै सात्र देयेति राजन्वदतु मे भवान् ।
न वदिष्यसि जानंश्चेत्तत्ते मूर्धा स्फुटिष्यति ।। ४६
इति वेतालतस्तस्माच्छ्रुत्वा मौनं विहाय च ।
स त्रिविक्रमसेनस्तमुवाचैवं महीपतिः ।। ४७
शूराय सा प्रदातव्या येन प्राणपणोद्यमात् ।
अर्जिता बाहुवीर्येण हत्वा तं युधि राक्षसम् ।। ४८
ज्ञानिविज्ञानिनौ त्वस्य धात्रा कर्मकरौ कृतौ ।
सदा गणकतक्षाणौ परोपकरणे न किम् ।। ४९
इत्युक्तं मनुजपतेर्निशम्य तस्य स्कन्धाग्रात्सपदि स पूर्ववज्जगाम ।
वेतालो निजपदमेव सोऽपि राजानुद्वेगः पुनरपि तं प्रति प्रतस्थे ।। ५०

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलम्बके द्वादशस्तरङ्गः ।

विज्ञानाद्युपरि टिप्पणी

तुलनीय - भविष्यपुराणम् ३.२.५

संबंधित कड़ियाँ

[सम्पाद्यताम्]
  1. वेतालपञ्चविंशति
    1. वेतालपञ्चविंशति 00
    2. वेतालपञ्चविंशति 01
    3. वेतालपञ्चविंशति 02
    4. वेतालपञ्चविंशति 03
    5. वेतालपञ्चविंशति 04
    6. वेतालपञ्चविंशति 05
    7. वेतालपञ्चविंशति 06
    8. वेतालपञ्चविंशति 07
    9. वेतालपञ्चविंशति 08
    10. वेतालपञ्चविंशति 09
    11. वेतालपञ्चविंशति 10
    12. वेतालपञ्चविंशति 11
    13. वेतालपञ्चविंशति 12
    14. वेतालपञ्चविंशति 13
    15. वेतालपञ्चविंशति 14
    16. वेतालपञ्चविंशति 15
    17. वेतालपञ्चविंशति 16
    18. वेतालपञ्चविंशति 17
    19. वेतालपञ्चविंशति 18
    20. वेतालपञ्चविंशति 19
    21. वेतालपञ्चविंशति 20
    22. वेतालपञ्चविंशति 21
    23. वेतालपञ्चविंशति 22
    24. वेतालपञ्चविंशति 23
    25. वेतालपञ्चविंशति 24
    26. वेतालपञ्चविंशति 25

बाहरी कडियाँ

[सम्पाद्यताम्]
"https://sa.wikisource.org/w/index.php?title=वेतालपञ्चविंशति_05&oldid=75815" इत्यस्माद् प्रतिप्राप्तम्