भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः २/अध्यायः ११

विकिस्रोतः तः
Jump to navigation Jump to search


।। सूत उवाच ।। ।।
भोः शौनक महाभाग स वैतालो हि देवता।।।
राजानमब्रवीद्गाथां धर्मप्रश्नमयीं शुभाम् ।।१।।
राजन्पुण्यपुरे रम्ये नानाजननिषेविते ।।
धर्मवल्लभभूपालस्तत्र राज्यं पुराकरोत् ।।२।।
सत्यप्रकाशस्तन्मंत्री लक्ष्मीश्चामात्यकामिनी ।।
कदाचित्स तु भूपालो मंत्रिणं प्राह धर्मवित् ।।३।।
आनंदः कतिधा लोके तन्ममाचक्ष्व सत्तम ।।
स होवाच महाराज सुखं चैव चतुर्विधम् ।।४।।
ब्रह्मचर्याश्रमे यो वै ब्रह्मानंदो महोत्तमः ।।
गार्हस्थ्ये विषयानंदो मध्यमः कथितो बुधैः ।।५।।
वानप्रस्थे महाराज स धर्मानंदकोऽधमः ।।
कर्मकांडेन चानंदः सत्यधर्मः स वै स्मृतः।।६।।
संन्यस्ते तु शिवानंदस्स हि सर्वोत्तमोत्तमः।।
विषयानंदको राजन्स्त्रीप्रधानः प्रकीर्तितः।।७।।
स्त्रियं विना सुखं नास्ति गृहस्थाश्रमके नृप।।
इति श्रुत्वा स भूपालो देशांतरमुपाययौ ।।८।।
पत्नीमन्वेषयामास स्वयोग्यां धर्मतत्पराम् ।।
प्राप्तवान्न तु वामांगीं मनोवृत्त्यनुसारिणीम्।।९।।
स भूपो मंत्रिणं प्राह नारीमन्वेषयाद्य भोः।।
नो चेत्प्राणानहं त्यक्ष्ये सत्यं वाक्यं ब्रवीम्यहम्।।3.2.11.१०।।
इति श्रुत्वा ययौ मंत्री देशाद्देशांतरं प्रति ।।
सिंधुदेशे च संप्राप्य समुद्रं प्रति सोऽगमत् ।।
तुष्टाव मनसा सिंधुं सर्वतीर्थपतिं शुभम्।। ११ ।।
।। बुद्धिप्रकाश उवाच ।। ।।
सिंधुदेव नमस्तुभ्यं सर्वरत्नालय प्रभो ।।१२।।
अहं ते शरणं प्राप्तः शरणागतवत्सल।।
त्वां नमामि जलाधीशं गंगादिसरितां पतिम्।।१३।।
स्त्रीरत्नं देहि राज्ञोऽर्थे नो चेत्प्राणांस्त्यजाम्यहम् ।।
इति श्रुत्वा प्रसन्नात्मा सागरः सरितां पतिः ।।१४।।
जले वृक्षं सुवर्णांगं पत्रविद्रुमकं महत् ।।
मुक्ता फलान्वितं दिव्यं मंत्रिणे समदर्शयत् ।।१५।।
तस्योपरि स्थिता बाला सुकुमारी मनोरमा ।।
तत्रैव सा लये जाता वृक्षेण सह भूपते ।।१६।।
इति दृष्ट्वा महाश्चर्यं नृपांतिकमुपाययौ ।।
वर्णयित्वा तु तत्सर्वं राज्ञा सार्धं समाप्तवान्।। १७ ।।
तथाविधं नृपो दृष्ट्वा सागरांतमुपाययौ ।।
बालया सह पातालं प्राप्तवान्भूपतिः स्वयम् ।। १८ ।।
तां नारीं प्राह नम्रात्मा त्वदर्थेऽहं समागतः ।।
गांधर्वेण विवाहेन मां प्रापय वरानने ।। १९ ।।
विहस्य साऽऽह तं भूपं कृष्णपक्षे चतुर्दशी ।।
तद्दिनेऽहं समागत्य त्वां भजामि नृपोत्तम ।।3.2.11.२०।।
इति श्रुत्वा स नृपतिस्तद्दिने स्मरविह्वलः।।
खड्गहस्तो ययौ तत्र यत्र देवीगृहोत्तमम् ।। २१ ।।
एतस्मिन्नंतरे तत्र राक्षसो बकवाहनः ।।
तां बालां स च पस्पर्श नृपः क्रोधातुरोऽभवत् ।। २२ ।।
कामांधो राक्षसं हत्वा स्वपत्नीं प्राह निर्भयाम् ।।
कोऽयं तेऽत्र समायातः कारणं वद भामिनि ।। २३ ।।
साह भोः शृणु भूपाल विद्याधरसुता ह्यहम् ।।
पितृप्रिया मदवती कामार्ता वनमागता ।। २४ ।।
नागता भोजने काले पितृमात्रोश्च मंदिरे ।।
ज्ञात्वा ध्यानेन मत्पित्रा शापिता तच्छृणुष्व भोः ।। २५ ।।
अद्य कृष्णचतुर्दश्यां त्वां भजिष्यति राक्षसः ।।
कृष्णपक्षचतुर्दश्यां भुंक्ष्व त्वमपराधकम् ।। २६ ।।
तदाहं रोदनं कृत्वा ब्रवीमि पितरं प्रति ।।
कदा मुक्तिर्भवेद्देव तत्त्वं कथय सुव्रत ।। २७ ।।
स होवाच कुमारि त्वं वीरभुक्ता भविष्यसि।।
तदा शापस्य मुक्तिः स्यात्साहं तव विमोचिता ।। २८ ।।
त्वदाज्ञयाहं यास्यामि भो राजन्पितृमंदिरे ।।
इति श्रुत्वा नृपः प्राह मम गेहं समाव्रज ।। २९ ।।
त्वया सार्द्धं गमिष्यामि गृहं विद्याधरस्य तत् ।।
तथेत्युक्त्वा तु सा देवी नृपगेहं समाययौ ।। 3.2.11.३० ।।
तदा तु नगरे तस्मिन्नृणां जातो महोत्सवः ।।
मंत्री दृष्ट्वा तु तं भूपं दिव्यपत्नीसमन्वितम् ।।
पञ्चत्वमगमत्तूर्णं कुतो हेतोर्हि तद्वद ।। ३१ ।।
।। राजोवाच ।। ।।
मन्त्री बुद्धिप्रकाशस्तु दृष्ट्वा देवीं समागताम् ।।३२।।
नृपं स हृदि संध्यात्वा राज्यभंगभयातुरः ।।
त्यक्त्वा प्राणान्ययौ स्वर्गं शृणु यत्कारणं शुभम् ।। ३३ ।।
विषयी यो हि भूपालस्तस्य राज्यविनाशनम् ।।
स्त्रीमदं प्राप्य राज्यस्य सदा हानिमवाप्नुयात् ।। ३४ ।। ।।
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलियुगीयेतिहाससमुच्चये एकादशोऽध्यायः ।। ११ ।।

तुलनीय - कथासरित्सागरः