लिङ्गपुराणम् - उत्तरभागः/अध्यायः ४५
ऋषय ऊचुः॥
एवं षोडश दानानि कथितानि शुभानि च॥
जीवच्छ्रा द्धक्रमोऽस्माकं वक्तुमर्हसि सांप्रतम्॥ ४५.१ ॥
सूत उवाच॥
जीवच्छ्राद्धविधिं वक्ष्ये समासात्सर्वसंमतम्॥
मनवे देवदेवेन कथितं ब्रह्मणा पुरा॥ ४५.२ ॥
वसिष्ठास च शिष्टाय भृगवे भार्गवाय च॥
श्रृण्वंतु सर्वभावेन सर्वसिद्धिकरं परम्॥ ४५.३ ॥
श्राद्धमार्गक्रमं साक्षाच्छ्राद्धार्हाणामपि क्रमम्॥
विशेषमपि वक्ष्यामि जीवच्छ्राद्धस्य सुव्रताः॥ ४५.४ ॥
पर्वते वा नदीतीरे वने वायतनेऽपि वा॥
जीवच्छ्राद्धं प्रकर्तव्यं मृतकाले प्रयत्नतः॥ ४५.५ ॥
जीवच्छ्राद्धे कृते जीवो जीवन्नेव विमुच्यते॥
कर्म कुर्वन्नकुर्वन्वा ज्ञानी वाज्ञानवानपि॥ ४५.६ ॥
श्रोत्रियोऽश्रोत्रियो वापि ब्राह्मणः क्षत्रियोऽपि वा॥
वैश्यो वा नात्र संदेहो योगमार्गगतो यता॥ ४५.७ ॥
परीक्ष्य भूमिं विधिवद्गंधवर्णरसादिभिः॥
शल्यमुद्धृत्य यत्नेन स्थांडिलं सैकतं भुवि॥ ४५.८ ॥
मध्यतो हस्तमात्रेण कुंडं चैवायतं शुभम्॥
स्थांडिलं वा प्रकर्तव्यमिषुमात्रं पुनः पुनः॥ ४५.९ ॥
उपलिप्य विधानेन चालिप्याग्निं विधाय च॥
अन्वाधाय यथाशास्त्रं परिगृह्य च सर्वतः॥ ४५.१० ॥
परिस्तीर्य स्वशाखोक्तं पारंपर्यक्रमागतम्॥
समाप्याग्निमुखं सर्वं मंत्रैरेतैर्यथाक्रमम्॥ ४५.११ ॥
संपूज्य स्थंडिले वह्नौ होमयेत्समिदादिभिः॥
आदौ कृत्वा समिद्धोमं चरुणा च पृथक्पृथक्॥ ४५.१२ ॥
घृतेन च पृथक्प्रात्रे शोधितेन पृथक्पृथक्॥
जुहुयादात्मनोद्धृत्य तत्त्वभूतानि सर्वतः॥ ४५.१३ ॥
ॐ भूः ब्रह्मणे नमः॥ ४५.१४ ॥
ॐ भूः ब्रह्मणे स्वाहा॥ ४५.१५ ॥
ॐ भुवः विष्णवे नमः॥ ४५.१६ ॥
ॐ भुवः विष्णवे स्वाहा॥ ४५.१७ ॥
ॐ स्वः रुद्राय नमः॥ ४५.१८ ॥
ॐ स्वः रुद्राय स्वाहा॥ ४५.१९ ॥
ॐ महः ईश्वराय नमः॥ ४५.२० ॥
ॐ महः ईश्वराय स्वाहा॥ ४५.२१ ॥
ॐ जनः प्रकृतये नमः॥ ४५.२२ ॥
ॐ जनः प्रकृतये स्वाहा॥ ४५.२३ ॥
ॐ तपः मुद्गलाय नमः॥ ४५.२४ ॥
ॐ तपः मुद्गलाय स्वाहा॥ ४५.२५ ॥
ॐ ऋतं पुरुषाय नमः॥ ४५.२६ ॥
ॐ ऋतं परुषाय स्वाहा॥ ४५.२७ ॥
ॐ सत्यं शिवाय नमः॥ ४५.२८ ॥
ॐ सत्यं शिवाय स्वाहा॥ ४५.२९ ॥
ॐ शर्व धरां मे गोपाय घ्राणे गंधं शर्वाय देवाय भूर्नमः॥ ४५.३० ॥
ॐ शर्व धरां मे गोपाय घ्राणे गंधं शर्वाय भूः स्वाहा॥ ४५.३१ ॥
शर्व धरां मे गोपाय घ्राणे गंधं शर्वस्य देवस्य पत्न्यै भूर्नमः॥ ४५.३२ ॥
ॐ शर्व धरां मे गोपाय घ्राणे गंधं सर्वपत्न्यैभूः स्वाहा॥ ४५.३३ ॥
ॐ भव जलं मे गोपाय जिह्वायं रसं भवाय देवाय भुवो नमः॥ ४५.३४ ॥
ॐ भव जलं मे गोपाय जिह्वायां रसं भवाय देवाय भुवः स्वाहा॥ ४५.३५ ॥
ॐ भव जलं मे गोपाय जिह्वायां रसं भवस्य देवस्य पत्न्यै भुवो नमः॥ ४५.३६ ॥
ॐ भव जलं मे गोपाय जिह्वायां रसं भवस्य पत्न्यै भुवः स्वाहा॥ ४५.३७ ॥
रुद्राग्निं मे गोपाय नेत्रे रूपं रुद्राय देवाय स्वरों नमः॥ ४५.३८ ॥
रुद्राग्निं मे गोपाय नेत्रे रूपं रुद्राय देवाय स्वः स्वाहा॥ ४५.३९ ॥
रुद्राग्निं मे गापाय नेत्रे रूपं रुद्रस्य पत्न्यै स्वरों नमः॥ ४५.४० ॥
रुद्राग्निं मे गोपाय नेत्रे रूपं रुद्रस्य देवस्य पत्न्यैस्वः स्वाहा॥ ४५.४१ ॥
उग्र वायुं मे गोपाय त्वचि स्पर्शं उग्राय देवाय महर्नमः॥ ४५.४२ ॥
उग्र वायूं मे गोपाय त्वचि स्पर्शमुग्राय देवाय महः स्वाहा॥ ४५.४३ ॥
उग्र वायुं मे गोपाय त्वचि स्पर्शमुग्रस्य देवस्य पत्न्यै महरों नमः॥ ४५.४४ ॥
ॐ उग्र वायुं मो गोपाय त्वचि स्पर्शमुग्रस्य देवस्य पत्न्यै देवाय जनः स्वाहा॥ ४५.४५ ॥
भीम सुषिरं मे गोपाय श्रोत्रे शब्दं भीमाय देवाय जनो नमः॥ ४५.४६ ॥
भीम सुषिरं मे गोपाय श्रोत्रे शब्दं भीमाय देवाय जनः स्वाहा॥ ४५.४७ ॥
भीम सुषिरं मे गोपाय श्रोत्रे शब्दं भीमस्य पत्न्यै जनो नमः॥ ४५.४८ ॥
भीम सुषिरं मे गोपाय श्रोत्रे शब्दं भीमस्य देवस्य पत्न्यै जनः स्वाहा॥ ४५.४९ ॥
ईश रजो मे गोपाय द्रव्ये तृष्णामीशाय देवाय तपो नमः॥ ४५.५० ॥
ईश रजो मे गोपाय द्रव्ये तृष्णमीशाय देवाय तपः स्वाहा॥ ४५.५१ ॥
रजो मे गोपाय द्रव्ये तृष्णामीशस्य पत्न्यै तपो नमः॥ ४५.५२ ॥
ईश रजो मे गोपाय द्रव्ये तृष्णामीशस्य पत्न्यै तपः स्वाहा॥ ४५.५३ ॥
महादेव सत्यं मे गोपाय श्रद्धां धर्मे महादेवाय ऋतं नमः॥ ४५.५४ ॥
महादेव सत्यं मे गोपाय श्रद्धां धर्मे महादेवाय ऋतं स्वाहा॥ ४५.५५ ॥
महादेव सत्यं मे गोपाय श्रद्धां धर्मे महादेवाय पत्न्यै ऋतं नमः॥ ४५.५६ ॥
महादेव सत्यं म गोपाय श्रद्धां महादेवस्य पत्न्यै ऋतं स्वाहा॥ ४५.५७ ॥
पशुपते पाशं मे गोपाय भोक्तृत्वभोग्यं पशुपतये देवाय सत्यं नमः॥ ४५.५८ ॥
पशुपते पाशं मे गोपाय भोक्तृत्वभाग्यं पशुपतये देवस्य सत्यं स्वाहा॥ ४५.५९ ॥
ॐ पशुपते पाशं मे गोपाय योक्तृत्वभोग्यं पशुपते र्देवस्य पत्न्यै सत्यं नमः॥ ४५.६० ॥
ॐ पशुपते पाशं म गोपाय योक्तृत्वभोग्यं पशुपतेर्देवस्य पत्न्यै सत्यं स्वाहा॥ ४५.६१ ॥
ॐ शिवाय नमः॥ ४५.६२ ॥
ॐ शिवाय सत्यं स्वाहा॥ ४५.६३ ॥
एवं शिवाय होतव्यं विरिंच्याद्यं च पूववत्॥
विरिंचाद्यं च पूर्वोक्तं सृष्टिमार्गेषु सुव्रताः॥ ४५.६४ ॥
पुनः पशुपतेः पत्नीं तथा पशुपतीं क्रमात्॥
संपूज्य पूर्ववन्मंत्रैर्होतव्यं च क्रमेण वै॥ ४५.६५ ॥
चर्वंतमाज्यपूर्वं च समिदंतं समाहितः॥ ४५.६६ ॥
ॐ शर्व धरां मे छिंधि घ्राणे गंधं छिंधि मेघं जहि भूः स्वाहा॥ ४५.६७ ॥
भुवः स्वाहा॥ ४५.६८ ॥
स्वः स्वाहा॥ ४५.६९ ॥
भूर्भुवः स्वः स्वाहा॥ ४५.७० ॥
एवं पृथक्पृथग्घुत्वा केवलेन घृतेन वा॥
सहस्रं वा तदर्धं वा शतमष्टोत्तरं तु वा॥ ४५.७१ ॥
विरजा च घृतेनैव शतमष्टोत्तरं पृथक्॥
प्राणादिभिश्च जुहुयाद्धृतेनैव तु केवलम्॥ ४५.७२ ॥
ॐ प्राणे निविष्टोऽमृतं जुहोमि शिवो म विशाप्रदाहाय प्राणाय स्वाहा॥ ४५.७३ ॥
प्राणाधिपतये रुद्राय वृषांतकाय स्वाहा॥ ४५.७४ ॥
ॐ भूः स्वाहा॥ ४५.७५ ॥
ॐ भुवः स्वाहा॥ ४५.७६ ॥
ॐ स्वः स्वाहा॥ ४५.७७ ॥
भूर्भूवः स्वः स्वाहा॥ ४५.७८ ॥
एवं क्रमेण जुहुयाच्छ्राद्धोक्तं च यताक्रमम्॥
सप्तमेऽनि योगींद्राञ्छ्राद्धार्हानपि भोजयेत्॥ ४५.७९ ॥
शर्वादीनां च विप्राणां वस्त्राभरणकंबलान्॥
वाहनं शयनं यानं कांस्यताम्रादिभाजनम्॥ ४५.८० ॥
हैमं च राजतं धेनुं तिलान् क्षेत्रं च वैभवम्॥
दासीदासगणश्चैव दातव्यो दक्षिणामपि॥ ४५.८१ ॥
पिंडं च पूर्ववद्दद्यात्पृथगष्टप्रकारतः॥
ब्राह्मणानं सहस्रं च भोजयेच्च सदक्षिणम्॥ ४५.८२ ॥
एकं वा योगनिरतं भस्मनिष्ठं जितेंद्रियम्॥
त्र्यहं चैव तु रुद्रस्य महाचरुनिवेदनम्॥ ४५.८३ ॥
विशेष एवं कथित अशेषश्राद्धचोदितः॥
मृते कुर्यान्न कुर्याद्वा जीवन्मुक्तो यतः स्वयम्॥ ४५.८४ ॥
नित्यनैमित्तिकादीनि कुर्याद्धा संत्त्यजेत्तु वा॥
बांधवेऽपि मृते तस्य शौचाशौचं न विद्यते॥ ४५.८५ ॥
सूतकं च न संदेहः स्नानमात्रेण शुद्ध्यति॥
पश्चाज्जाते कुमारे च स्वे क्षेत्रे चात्मनो यदि॥ ४५.८६ ॥
तस्य सर्वं प्रकर्तव्यं पुत्रोऽपि ब्रह्मविद्भिवेत्॥
कन्यका यदि रांजाता पश्चात्तस्य महात्मनः॥ ४५.८७ ॥
एकपर्णा इव ज्ञेया अपर्णा इव सुव्रता॥
भवत्येव न संदेहस्तस्याश्चान्वयजा अपि॥ ४५.८८ ॥
मुच्यंते नात्र संदेहः पितरो नरकादपि॥
मुच्यंते कर्मणानेन मातृतः पितृतस्तथा॥ ४५.८९ ॥
कालं गते द्विजे भूमौ खनेच्चापि दहेत्तु वा॥
पुत्रकृत्यमशेषं च कृत्वा दोषो न विद्यते॥ ४५.९० ॥
कर्मणा चोत्तरेणैव गतिरस्य न विद्यते॥
ब्रह्मणाकथितं सर्वं मुनीनां भावितात्मनाम्॥ ४५.९१ ॥
पुनः सनत्कुमाराय कथितं तेन धीमता॥
कृष्णद्वैपायनायैव कथितं ब्रह्मसूनुना॥ ४५.९२ ॥
प्रसादात्तस्य देवस्य वेदव्यासस्य धीमतः॥
ज्ञातं मया कृतं चैव नियोगादेव तस्य तु॥ ४५.९३ ॥
एतद्वः कथितं सर्वं रहस्यं ब्रह्मसिद्धिदम्॥
मुनिपुत्राय दातव्यं न चाभक्ताय सुव्रताः॥ ४५.९४ ॥
इति श्रीलिंगमहापुराणे उत्तरभागे जीवच्छ्राद्वविधिर्नाम पंचचत्वारिंशत्तमोऽध्यायः॥ ४५ ॥