लिङ्गपुराणम् - उत्तरभागः/अध्यायः ७

विकिस्रोतः तः
Jump to navigation Jump to search
लिङ्गपुराणम् - उत्तरभागः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५


ऋषय ऊचुः।।
किंजपान्मुच्यते जंतुः सर्वलोकभयादिभिः।।
सर्वपापविनिर्मुक्तः प्राप्नोति परमां गतिम्।। ७.१ ।।

अलक्ष्मींवाथ संत्यज्य गमिष्यति जपेन वै।।
लक्ष्मीवासो भवेन्मर्त्यः सूत वक्तुमिहार्हसि।। ७.२ ।।

सूत उवाच।।
पुरा पितामहेनोक्तं वसिष्ठाय महात्मने।।
वक्ष्ये संक्षेपतः सर्वं सर्वलोकहिताय वै।। ७.३ ।।

श्रृण्वंतु वचनं सर्वे प्रणिपत्य जनार्दनम्।।
देवदेवमजं विष्णुं कृष्णमच्युतमव्ययम्।। ७.४ ।।

सर्वपापहरं शुद्धं मोक्षदं ब्रह्मवादिनम्।।
मनसाकर्मणा वाचा यो विद्वान्पुण्यकर्मकृत्।। ७.५ ।।

नारायणं जपेन्नित्यं प्रणम्य पुरुषोत्तमम्।।
स्वपन्नारायणं देवं गच्छन्नारायणं तथा।। ७.६ ।।

भुंजन्नारायणं विप्रास्तिष्ठञ्जाग्रत्सनातनम्।।
उन्मिषन्निमिषन्वापि नमो नारायणेति वै।। ७.७ ।।

भोज्यं पेयं च लेह्यं च नमो नारायणेति च।।
अभिमंत्र्य स्पृशन्भुंक्ते स याति परमां गतिम्।। ७.८ ।।

सर्वपापविनिर्मुक्तः प्राप्नोति च सतां गतिम्।।
अलक्ष्मीश्च मया प्रोक्ता पत्नी या दुःसहस्य च।। ७.९ ।।

नारायणपदं श्रुत्वा गच्छत्येव न संशयः।।
या लक्ष्मीर्देवदेवस्य हरेः कृष्णस्य वल्लभा।। ७.१० ।।

गृहे क्षेत्रे तथावासे तनौवसति सुव्रताः।।
आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः।। ७.११ ।।

इतमेकं सुनिष्पन्नं ध्येयो नारायणः सदा।।
किं तस्य बहुभिर्मंत्रैः किं तस्य बहुभिर्व्रतैः।। ७.१२ ।।

नमो नारायणायेति मंत्रः सर्वार्थसाधकः।।
तस्मात्सर्वेषु कालेषु नमो नारायणेति च।। ७.१३ ।।

जपेत्स याति विप्रेंद्रा विष्णुलोकं सबांधवः।।
अन्यच्च देवदेवस्य श्रृण्वंतु मुनिसत्तमाः।। ७.१४ ।।

मंत्रो मया पुराभ्यस्तः सर्ववेदार्थसाधकः।।
द्वादशाक्षरसंयुक्तो द्वादशात्मा पुरातनः।। ७.१५ ।।

तस्यैवेह च माहात्म्यं संक्षेपात्प्रवदामि वः।।
कश्चिद्द्विजो महाप्राज्ञस्तपस्तप्त्वा कथंचन।। ७.१६ ।।

पुत्रमेकं तयोत्पाद्य संस्कारैश्च यथाक्रमम्।।
योजयित्वा यताकालं कृतोपनयनं पुनः।। ७.१७ ।।

अध्यापयामास तदा स च नोवाच किंचन।।
न जिह्वा स्पंदते तस्य दुःखितोऽभूद्द्विजोत्तमः।। ७.१८ ।।

वासुदेवेति नियतमैतरेयो वदत्यसौ।।
पिता तस्य तथा चान्यां परिणीय यथाविधि।। ७.१९ ।।

पुत्रानुत्पादयामास तथैव विधिपूर्वकम्।।
वेदानधीत्य संपन्ना बभूवुः सर्वसंमताः।। ७.२० ।।

ऐतरेयस्य सा माता दुःखिता शोकमूर्च्छिता।।
उवाच पुत्राः संपन्ना वेदवेदांगपारगाः।। ७.२१ ।।

ब्राह्मणैः पूज्यमाना वै मोदयंति च मातरम्।।
मम त्वं भाग्यहीनायाः पुत्रो जातो निराकृतिः।। ७.२२ ।।

ममात्र निधनं श्रेयो न कथंचन जीवितम्।।
इत्युक्तः स च निर्गम्य यज्ञवाटं जगाम वै।। ७.२३ ।।

तस्मिन्याते द्विजानां तु न मंत्राः प्रतिपेदिरे।।
ऐतरेये स्थितेतत्र ब्राह्मणा मोहितास्तदा।। ७.२४ ।।

ततो वाणी समुद्भूता वासुदेवेति कीर्तनात्।।
ऐतरेयस्य ते विप्राः प्रणिपत्य यतातथम्।। ७.२५ ।।

पूजां चक्रुस्ततो यज्ञं स्वयमेव समागतम्।।
ततः समाप्य तं यज्ञमैतरेयो धनादिभिः।। ७.२६ ।।

सर्ववेदान्सदस्याह स षडंगान् समाहिताः।।
तुष्टुवुश्च तथा विप्रा ब्रह्माद्याश्च तथा द्विजाः।। ७.२७ ।।

ससर्जुः पुष्पवर्षाणि खेचराः सिद्धचारणाः।।
एवं समाप्य वै यज्ञमैतरेयो द्विजोत्तमाः।। ७.२८ ।।

मातरं पूजयित्वा तु विष्णोः स्थानं जगाम ह।।
एतद्वै कथितं सर्वं द्वादशाक्षरवैभवम्।। ७.२९ ।।

पठतां श्रृण्वतां नित्यं महापातकनाशनम्।।
जपेद्यः पुरुषो नित्यं द्वादशाक्षरमव्ययम्।। ७.३० ।।

स याति दिव्यमतुलं विष्णोस्तत्परमं पदम्।।
अपि पापसमाचारो द्वादशाक्षरतत्परः।। ७.३१ ।।

प्राप्नोति परमं स्थानं नात्र कार्या विचारणा।।
किं पुनर्ये स्वधर्मस्था वासुदेवपरायणाः।। ७.३२ ।।

दिव्यं स्थानं महात्मानः प्राप्नुवंतीति सुव्रताः।। ७.३३ ।।

इति श्रीलिंगमहापुराणे उत्तरभागे द्वादशाक्षरप्रशंसानाम सप्तमोऽध्यायः।। ७ ।।