लिङ्गपुराणम् - उत्तरभागः/अध्यायः ४

विकिस्रोतः तः
Jump to navigation Jump to search
लिङ्गपुराणम् - उत्तरभागः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५


ऋषय ऊचुः।।
वैष्णवा इति ये प्रोक्ता वासुदेवपरायणाः।।
कानि चिह्नानि तेषां वै तन्नो ब्रहि महामते।। ४.१ ।।

तेषां वा किं करोत्येष भगवान् भूतभावनः।।
एतन्मे सर्वमाचक्ष्व सूत सर्वार्थवित्तम।। ४.२ ।।

सूत उवाच।।
अंबरीषेण वै पृष्टो मार्कंडेयः पुरामुनिः।।
युष्मभिरद्य यत् प्रोक्तं तद्वदामि यथातथम्।। ४.३ ।।

मार्कंडेय उवाच।।
श्रृणु राजन्यथान्यायं यन्मां त्वं परिपृच्छसि।।
यत्रास्ते विष्णुभक्तस्तु तत्र नारायणः स्थितः।। ४.४ ।।

विष्णुरेव हि सर्वत्र येषां वै देवता स्मृता।।
कीर्त्यमाने हरौ नित्यं रोमांचो यस्य वर्तते।। ४.५ ।।

कंपः स्वेदस्तथक्षेषु दृस्यंते जलबिंदवः।।
विष्णुभक्तिसमायुक्तान् श्रौतस्मार्तप्रवर्तकान्।। ४.६ ।।

प्रीतो भवति यो दृष्ट्वा वैष्णवोऽसौ प्रकीर्तितः।।
नान्यदाच्छादयेद्वस्त्रं वैष्णवो जगतोऽरणे।। ४.७ ।।

विष्णुभक्तमथायांतं यो दृष्ट्वा सन्मुखस्थितः।।
प्रणामादि करोत्येवं वासुदेवे यथा तथा।। ४.८ ।।

स वै भक्त इति ज्ञेयः स जयी स्याज्जगत्त्रये।।
रूक्षाक्षराणि श्रृण्वन्वै तथा भागवतेरितः।। ४.९ ।।

प्रणामपूर्वं क्षांत्या वै यो वदेद्वैष्णवो हि सः।।
गंधपुष्पादि कं सर्वं शिरसा यो हि धारयेत्।। ४.१० ।।९९

हरेः सर्वमितीत्येवं मत्त्वासौ वैष्णवः स्मृतः।।
विष्णुक्षेत्रे शुभान्येव करोति स्नेहसंयुतः।। ४.११ ।।

प्रतिमां च हरेर्नित्यं पूजयेत्प्रयतात्मवान्।।
विष्णुभक्तः स विज्ञेयः कर्मणा मनसा गिरा।। ४.१२ ।।

नारायणपरो नित्यं महाभागवतो हि सः।।
भोजनाराधनं सर्वं यथाशक्त्या करोति यः।। ४.१३ ।।

विष्णुभक्तस्य च सदा यथान्यायं हि कथ्यते।।
नारायणपरो विद्वान्यस्यान्नं प्रीतमानसः।। ४.१४ ।।

अश्राति तद्धरेरास्यं गतमन्नं न संशयः।।
स्वार्चनादपि विश्वात्मा प्रीतो भवति माधवः।। ४.१५ ।।

महाभागवते तच्च दृष्ट्वासौ भक्तवत्सलः।।
वासुदेवपरं दृष्ट्वा वैष्णवं दग्धकिल्बिषम्।। ४.१६ ।।

देवापि भीतास्तं यांति प्रणिपत्य यथागतम्।।
श्रूयतां हि पुरावृत्तं विष्णुभक्तस्य वैभवम्।। ४.१७ ।।

दृष्ट्वा यमोऽपि वै भक्तं वैष्णवं दग्धकिल्बिषम्।।
उत्थाय प्रांजलिर्भूत्वा ननाम भृगुनंदनम्।। ४.१८ ।।

तस्मात्संपूजयेद्भक्त्या वैष्णवान्विष्णुवन्नरः।।
स याति विष्णुसामीप्य नात्र कार्या विचारणा।। ४.१९ ।।

अन्यभक्तसहस्रेभ्यो विष्णुभक्तो विशिष्यते।।
विष्णुभक्तसहस्रेभ्यो रुद्रभक्तो विशिष्यते।।
रुद्रभक्तात्परतरो नास्तिलोके न सशंयः।। ४.२० ।।

तस्मात्तु वैष्णवं चापि रुद्रभक्तमथापि वा।।
पूजयेत्सर्वयत्नेन धर्मकामार्थमुक्तये।। ४.२१ ।।

इति श्रीलिंगमहापुराणे उत्तरभागे विष्णुभक्तकथनं नाम चतुर्थोऽध्यायः।। ४ ।।