लिङ्गपुराणम् - उत्तरभागः/अध्यायः १८

विकिस्रोतः तः
Jump to navigation Jump to search
लिङ्गपुराणम् - उत्तरभागः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५

देवा ऊचुः।।
य एष भगवान् रुद्रो ब्रह्मविष्णुमहेश्वराः।।
स्कंदश्चापि तथा चेद्रो भुवनानि चतुर्दश।।
अश्विनौ ग्रहतारास्च नक्षत्राणि च खं दिशः।। १८.१ ।।

भूतानि च तथा सूर्यः सोमश्चाष्टौ ग्रहास्तथा।।
प्राणः कालो यमो मृत्युरमृतः परमेश्वरः।। १८.२ ।।

भूतं भव्यं भविष्यच्च वर्तमानं महेश्वरः।।
विश्वं कृत्स्नं जगत्सर्वं सत्यं तस्मै नमोनमः।। १८.३ ।।

त्वमादौ च तथा भूतो भूर्भुवः स्वस्तथैव च।।
अंते त्वं विश्वरूपोऽसि शीर्षं तु जगतः संदा।। १८.४ ।।

ब्रह्मैकस्त्वं द्वित्रिधार्थमधश्च त्वं सुरेश्वरः।।
शांतिश्च त्वं तथा पुष्टिस्तुष्टिश्चाप्यहुतं हुतम्।। १८.५ ।।

विश्वं चैव तथाविश्वं दत्तं वादत्तमीश्वरम्।।
कृतं चाप्यकृतं देवं परमप्यपरं ध्रुवम्।।
परायणं सतां चैव ह्यसतामपि शंकरम्।। १८.६ ।।

अपामसोमममृता अभूमागन्म ज्योति रविदाम देवान्।।
किं नूनमस्मान्कृणवदरातिः किमु धूर्तिरमृतं मर्त्यस्य।। १८.७ ।।

एतज्जगद्धितं दिव्यमक्षरं सूक्ष्ममव्ययम्।। १८.८ ।।

प्राजा पत्यं पवित्रं च सौम्यमग्राह्यमव्ययम्।।
अग्राह्येणापि वा ग्राह्यं वायव्येन समीरणः।। १८.९ ।।

सौम्येन सौम्यं ग्रसति तेजसा स्वेन लीलया।।
तस्मै नमोऽपसंहर्त्रे महाग्रासाय शूलिने।। १८.१० ।।

हृदिस्था देवताः सर्वा हृदि प्राणे प्रतिष्ठिताः।।
हृदि त्वमसि यो नित्यं तिस्रो मात्राः परस्तु सः।। १८.११ ।।

शिरश्चोत्तरतश्चैव पादौ दक्षिणतस्तथा।।
यो वै चोत्तरतः साक्षात्स ओंकारः सनातनः।। १८.१२ ।।

ओंकारो यः स एवेह प्रणवो व्याप्य तिष्ठति।।
अनंतस्तारसूक्ष्मं च शुक्लं वैद्युतमेव च।। १८.१३ ।।

परं ब्रह्मा स ईशान एकोरुद्रः स एव च।।
भवान्महेश्वरः साक्षान्महादेवो न संशयः।। १८.१४ ।।

ऊर्ध्वमुन्नामयत्येव स ओंकारः प्रकीर्तितः।।
प्राणानवति यस्तस्मात् प्रणवः परिकीर्तितः।। १८.१५ ।।

सर्वं व्याप्नोति यस्तस्मात्सर्वव्यापी सनातनः।।
ब्रह्मा हरिश्च भगवानाद्यंतं नोपलब्धवान्।। १८.१६ ।।

तथान्ये च ततोऽनंतो रुद्रः परमकारणम्।।
यस्तारयति संसारात्तार इत्यभिधीयते।। १८.१७ ।।

सूक्ष्मो भूत्वा शरीराणि सर्वदा ह्यधितिष्ठिति।।
तस्मात्सूक्ष्मः समाख्यातो भगवन्नीललोहितः।। १८.१८ ।।

नीलश्च लोहितश्चैव प्रधानपुरुषान्वयात्।।
स्कंदतेऽस्य यतः शुक्रं तथा शुक्रमपैतिच।। १८.१९ ।।

विद्योतयति यस्तस्माद्वैद्युतः परिगीयते।।
बृहत्त्वाद्बृंहणत्वाच्च बृहते च परापरे।। १८.२० ।।

तस्माद्बृंहति यस्माद्धि परं ब्रह्मेति कीर्तितम्।।
अद्वितीयोऽथ भगवांस्तुरीयः परमेश्वरः।। १८.२१ ।।

ईशानमस्य जगतः सर्वदृशां चक्षुरीश्वरम्।।
ईशानमिंद्रसूरयः सर्वेषामपि सर्वदा।। १८.२२ ।।

ईशानः सर्वविद्यानां यत्तदीशान उच्यते।।
यदीक्षते च भगवान्निरीक्ष्यमिति चाज्ञया।। १८.२३ ।।

आत्मज्ञानं महादेवो योगं गमयति स्वयम्।।
भगवांश्चोच्यते देवो देवदेवो महेश्वरः।। १८.२४ ।।

सर्वांल्लोकान्क्रमेणैव यो गृह्णति महेश्वरः।।
विसृजत्येप देवेशो वासयत्यपि लीलया।। १८.२५ ।।

एषो हि देवः प्रदिशोऽनुसर्वाः पूर्वो हि जातः स उ गर्भे अंतः।।
स एव जातः स जनिष्यमाणः प्रत्यङ्मुखास्तिष्ठति सर्वतोमुखः।। १८.२६ ।।

उपासितव्यं यत्नेन तदेतत्सद्भिरव्ययम्।।
यतो वाचो निवर्तंते ह्यप्राप्य मनसा सह।। १८.२७ ।।

तदग्रहणमेवेह यद्वाग्वदति यत्नतः।।
अपरं च परं वेति परायणमिति स्वयम्।। १८.२८ ।।

वदंति वाचः सर्वज्ञः शंकरं नीललोहितम्।।
एष सर्वो नमस्तस्मै पुरुषः पिंगलः शिवः।। १८.२९ ।।

स एष स महारुद्रो विश्वं भूतं भविष्यति।।
भुवनं बहुधा जातं जायमानमितस्ततः।। १८.३० ।।

हिरण्यबाहुर्भगवान् हिरण्यपतिरीश्वरः।।
अंबिकापतिरीशानो हेमरेता वृषध्वजः।। १८.३१ ।।

उमापतिर्विरूपाक्षो विश्वसृग्विश्ववाहनः।।
ब्रह्माणं विदधे योऽसौ पुत्रमग्रे सनातनम्।। १८.३२ ।।

प्रहिणोति स्म तस्यैव ज्ञानमात्मप्रकाशकम्।।
तमेकं पुरुषं रुद्रं पुरुहुतं पुरुष्टुतम्।। १८.३३ ।।

बालाग्रमात्रं हृदयस्य मध्ये विश्वंदेवं वह्निरूपं वरेण्यम्।।
तमात्मस्थं येऽनुपश्यंति धीरास्तेषां शांतिः शाश्वती नेतरेषाम्।। १८.३४ ।।

महतो यो महीयांश्च ह्यणोरप्यणुरव्ययः।।
गुहायां निहितश्चात्मा जंतोरस्य महेश्वरः।। १८.३५ ।।

वेश्मभूतोऽस्य विश्वस्य कमलस्थो हृति स्वयम्।।
गह्वरं गहनं तत्स्थं तस्यांतश्चोर्ध्वतः स्थितः।। १८.३६ ।।

तत्रापि दह्रं गगनमोंकारं परमेश्वरम्।।
बालाग्रमात्रं तन्मध्ये ऋतं परमकारणम्।। १८.३७ ।।

सत्यं ब्रह्म महादेवं पुरुषं कृष्णपिंगलम्।।
ऊर्ध्वरतेसमीशानं विरूपाक्षमजोद्भवम्।। १८.३८ ।।

अधितिष्ठति योनिं यो योनिं वाचैक ईश्वरः।।
देहं पंचविधं येन तमीशानं पुरातनम्।। १८.३९ ।।

प्राणेष्वंतर्मनसो लिंगमाहुर्यस्मिन्क्रोधो या च तृष्णा क्षमा च।।
तृष्णां छित्त्वा हेतुजालस्य मूलं बुद्ध्याचिंत्यं स्थापयित्वा च रुद्रे।। १८.४० ।।

एकं तमाहुर्वै रुद्रं शाश्वतं परमेश्वरम्।।
परात्परतरं वापि परात्परतरं ध्रुवम्।। १८.४१ ।।

ब्रह्मणो जनकं विष्णोर्वह्नेर्वायोः सदाशिवम्।।
ध्यात्वाग्निना च शोध्यांगं विशोध्य च पृथक्पृथक्।। १८.४२ ।।

पंचभूतानि संयम्य मात्राविधिगुणक्रमात्।।
मात्राः पंच चतस्रश्च त्रिमात्रादिस्ततः परम्।। १८.४३ ।।

एकमात्रममात्रं हि द्वादशांते व्यवस्थितम्।।
स्थित्वा स्थाप्यामृतो भूत्वा व्रतं पाशुपतं चरेत्।। १८.४४ ।।

एतद्व्रतं पाशुपतं चरिष्यामि समासतः।।
अग्निमाधाय विधिवदृग्यजुः सामसंभवैः।। १८.४५ ।।

उपोषितः शुचिः स्नातः शुक्लांबरधरः स्वयम्।।
शुक्लयज्ञोपवीति च शुक्लमाल्यानुलेपनः।। १८.४६ ।।

जुहुयाद्विरजोविद्वान् विरजाश्च भविष्यति।।
वायवः शुध्यंतां वाङ्मनश्चरणादयः।। १८.४७ ।।

श्रोत्रं जिह्वा ततः प्राणस्ततो बुद्धिस्तथैव च।।
शिरः पाणिस्तथा पार्श्वं पृष्ठोदरमनंतरम्।। १८.४८ ।।

जंघे शिश्रमुपस्थं च पायुर्मेढ्रं तथैव च।।
त्वचा मांसं च रुधिरं मेदोऽस्थीनि तथैव च।। १८.४९ ।।

शब्दः स्पर्शं च रूपं च रसो गंधस्तथैव च।।
भूतानि चैव शुध्यंतां देहे मेदादयस्तथा।। १८.५० ।।

अन्नं प्राणे मनो ज्ञानं शुध्यंतां वै शिवेच्छया।।
हुत्वाज्येन समिद्भिश्च चरुणा च यथाक्रमम्।। १८.५१ ।।

उपसंहृत्य रुद्राग्निं गृहीत्वा भस्म यत्नतः।।
अग्निरित्यादिना धीमान् विमृज्यांगानि संस्पृशेत्।। १८.५२ ।।

एतत्पाशुपतं दिव्यं व्रतं पाशविमोचनम्।।
ब्राह्मणानां हितं प्रोक्तं क्षत्रियाणां तथैव च।। १८.५३ ।।

वैश्यानामपि योग्यानां यतीनां तु विशेषतः।।
वानप्रस्थाश्रमस्थानां गृहस्थानां सतामपि।। १८.५४ ।।

विमुक्तिर्विधिनानेन दृष्ट्वा वै ब्रह्मचारिणाम्।।
अग्निरित्यादिना भस्म गृहीत्वा ह्यग्निहोत्रजम्।। १८.५५ ।।

सोऽपि पाशुपतो विप्रो विमृज्यांगानि संस्पृशेत्।।
भस्माच्छन्नो द्विजो विद्वान् महापातकसंभवैः।। १८.५६ ।।

पापौर्विमुच्यते सद्यो मुच्यते च न संशयः।।
वीर्यमग्रेर्यतो भस्म वीर्यवान्भस्मसंयुतः।। १८.५७ ।।

भस्मास्नानरतो विप्रो भस्मशायी जितेंद्रियः।।
सर्वपापविनिर्मुक्तः शिवसायुज्यमाप्नुयात्।। १८.५८ ।।

तस्मात्सर्वप्रयत्नेन भूत्यंगं पूजयेद्वुधः।।
रेरेकारो न कर्तव्यस्तुंतुंकारस्तथैव च।। १८.५९ ।।

न तत्क्षमति देवेशो ब्रह्मा वा यदि केशवः।।
मम पुत्रो भस्मधारी गणेशश्च वरानने।। १८.६० ।।

तेषां विरुद्धं यत्त्याज्यं स याति नरकार्णवम्।।
गृहस्थो ब्रह्महीनोपि त्रिपुंड्रं यो न कारयेत्।। १८.६१ ।।

पूजा कर्म क्रिया तस्य दानं स्नानं तथैव च।।
निष्फलं जायते सर्वं यथा भस्मनि वै हुतम्।। १८.६२ ।।

तस्माच्च सर्वकार्येषु त्रिपुंड्रं धारयेद्बुधः।।
इत्युक्त्वा भगवान्ब्रह्मा स्तुत्वा देवैः समं प्रभुः।। १८.६३ ।।

भस्माच्छन्नैः स्वयं छन्नो विरराम विशांपते।।
अथ तेषां प्रसादार्थं पशूनां पतिरीश्वरः।। १८.६४ ।।

सगमश्चांबया सार्धं सान्निध्यमकरोत्प्रभुः।।
अथ संनिहितं रुद्रं तुष्टुवुः सुरपुंगवम्।। १८.६५ ।।

रुद्राध्यायेन सर्वेशं देवदेव मुमापतिम्।।
देवोपि देवानालोक्य घृणया वृषभध्वजः।। १८.६६ ।।

तुष्टोस्मीत्याह देवेभ्यो वरं दातुं सुरारिहा।। १८.६७ ।।

इति श्रीलिंगमहापुराणे उत्तरभागेष्टादशोध्यायः।। १८ ।।