सामग्री पर जाएँ

लिङ्गपुराणम् - उत्तरभागः/अध्यायः १५

विकिस्रोतः तः
लिङ्गपुराणम् - उत्तरभागः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५

सनत्कुमार उवाच।।
भूयोऽपि शिवमाहात्म्यं समाचक्ष्व महामते।।
सर्वज्ञो ह्यसि भूताना मधिनाथ महागुण।। १५.१ ।।

शैलादिरुवाच।।
शिवमाहात्म्यमेकाग्रः श्रृणु वक्ष्यामि ते मुने।।
बहुभिर्बहुधा शब्दैः कीर्तितं मुनिसत्तमैः।। १५.२ ।।

सदसद्रूपमित्याहुः सदसत्पतिरित्यपि।।
तं शिवं मुनयः केचित्प्रवदंति च सूरयः।। १५.३ ।।

भूतभावविकारेण द्वितीयेन स उच्यते।।
व्यक्तं तेन विहीनत्वादव्यक्तमसदित्यपि।। १५.४ ।।

उभे ते शिवरूपे हि शिवादन्यं न विद्यते।।
तयोः पतित्वाच्च शिवः सदसत्पतिरुच्यते।। १५.५ ।।

क्षराक्षरात्मकं प्राहुः क्षराक्षरपरं तथा।।
शिवं महेश्वरं केचिन्मुनयस्तत्त्वचिंतकाः।। १५.६ ।।

उक्तमक्षरमव्यक्तं व्यक्तं क्षरमुदाहृतम्।।
रूपे ते शंकरस्यैव तस्मान्न पर उच्यते।। १५.७ ।।

तयोः परः शिवः शांतः क्षराक्षरपरो बुधैः।।
उच्यते परमार्थेन महादेवो महेश्वरः।। १५.८ ।।

समस्तव्यक्तरूपं तु ततः स्मृत्वा स मुच्यते।।
समष्टिव्यष्टिरूपं तु समष्टिव्यष्टिकारणम्।। १५.९ ।।

वदंति केचिदाचार्याः शिवं परमकारणम्।।
समष्टिं विदुरव्यक्तं व्यक्तं मुनीश्वराः।। १५.१० ।।

रूपे ते गदिते शंभोर्नास्त्यन्यद्वस्तुसंभवम्।।
तयोः कारमभावेन शिवो हि परमेश्वरः।। १५.११ ।।

उच्यते योगशास्त्रज्ञैः समष्टिव्यष्टिकारणम्।।
क्षेत्रक्षेत्रज्ञरूपी च शिवः कैश्चिदुदाहृतः।। १५.१२ ।।

परमात्मा परं ज्योतिर्भगवान्परमेश्वरः।।
चतुर्विशतितत्त्वानि समष्टिव्यष्टिकारणम्।। १५.१३ ।।

प्राहुः क्षेत्रज्ञशब्देन भोक्तारं पुरुषं तथा।।
क्षेत्रक्षेत्रविदावेते रूपे तस्य स्वयंभुवः।। १५.१४ ।।

न किंचिच्च शिवादन्यदिति प्राहुर्मनीषिणः।।
अपरब्रह्मरूपं तं परब्रह्मात्मकं शिवम्।। १५.१५ ।।

केचिदाहुर्महादेवमनादि निधनं प्रभुम्।।
भूतेंद्रियांतः करणप्रधानविषयात्मकम्।। १५.१६ ।।

अपरं ब्रह्म निर्दिष्टं परं ब्रह्म चिदात्मकम्।।
ब्रह्मणी ते महेशस्य शिवस्यास्य स्वयंभुवः।। १५.१७ ।।

शंकरस्य परस्यैव शिवादन्यन्न विद्यते।।
विद्याविद्यास्वरूपी च शंकरः कैश्चिदुच्यते।। १५.१८ ।।

धाता विधाता लोकानामादिदेवो महेश्वरः।।
विद्येति च तमेवाहुरविद्येति मुनीश्वराः।। १५.१९ ।।

प्रपंचजातमखिलं ते स्वरूपे स्वयंभुवः।।
भ्रांतिर्विद्या परं चेति शिवरूपमनुत्तमम्।। १५.२० ।।

अवापुर्मुनयो योगात्केचिदागमवेदिनः।।
अर्थेषु बहुरूपेषु विज्ञानं भ्रांतिरुच्यते।। १५.२१ ।।

आत्माकारेण संवित्तिर्बुधैर्विद्येति कीर्त्यते।।
विकल्परहितं तत्त्वं परमित्यभिधीयते।। १५.२२ ।।

तृतीयरूपमीशस्य नान्यत्किंचन सर्वतः।।
व्यक्ताव्यक्तज्ञरूपीति शिवः कैश्चिन्निगद्यते।। १५.२३ ।।

विधाता सर्व लोकानां धाता च परमेश्वरः।।
त्रयोविंशतितत्त्वानि व्यक्तशब्देन सूरयः।। १५.२४ ।।

वदंत्यव्यक्तशब्देन प्रकृतिः च परां तथा।।
कथयंति ज्ञशब्देन पुरुषं गुमभोगिनम्।। १५.२५ ।।

तत्त्रयं शांकरं रूपं नान्यत्किंचिदशांकरम्।। १५.२६ ।।

इति श्रीलिंगमहापुराणे उत्तरभागे पंचदशोऽध्यायः।। १५ ।।