लिङ्गपुराणम् - उत्तरभागः/अध्यायः १६

विकिस्रोतः तः
Jump to navigation Jump to search
लिङ्गपुराणम् - उत्तरभागः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५

सनत्कुमार उवाच
पुनरेव महाबुद्धे श्रोतुमिच्छामि तत्त्वतः।।
बहुभिर्बहुधा शब्दैः शब्दितानि मुनीश्वरैः।। १६.१ ।।

शैलादिरुवाच।।
पुनः पुनः प्रवक्ष्यामि शिवरूपाणि ते मुने।।
बहुभिर्बहुधा शब्दैः शब्दितानि मुनीश्वरैः।। १६.२ ।।

क्षेत्रज्ञः प्रकृतिर्व्यक्तं कालात्मेति मुनीश्वरैः।।
उच्यते कैश्चिदाचार्यैरागमार्णवपारगैः।। १६.३ ।।

क्षेत्रज्ञं पुरुषं प्राहुः प्रधानं प्रकृतिं बुधाः।।
विकारजातं निःशेषं प्रकृतेर्व्यक्तमित्यपि।। १६.४ ।।

प्रधानव्यक्तयोः कालः परिणामैककारणम्।।
तच्चतुष्टयमीशस्य रूपाणां हि चतुष्टयम्।। १६.५ ।।

हिरण्यगर्भं पुरुषं प्रधानं व्यक्तरूपिणम्।।
कथयंति शिवं केचिदाचार्याः परमेश्वरम्।। १६.६ ।।

हिरण्यगर्भः कर्तास्य भोक्ता विश्वस्य पूरुषः।।
विकारजातं व्यक्ताख्यं प्रधानं कारणं परम्।। १६.७ ।।

तेषां चतुष्टयं बुद्धेः शिवरूपचतुष्टयम्।।
प्रोच्यते शंकरादन्यदस्ति वस्तु न किंचन।। १६.८ ।।

पिंडजातिस्वरूपी तु कथ्यते कौश्चिदीश्वरः।।
चराचरशंरीरामि पिंडाख्याखिलान्यपि।। १६.९ ।।

सामान्यानि समस्तानि महासामान्यमेव च।।
कथ्यंते जातिशब्देन तानि रूपाणि धीमतः।। १६.१० ।।

विराट्र हिरण्यगर्भात्मा कैश्चिदीशो निगद्यते।।
हिरण्यगर्भो लोकानां हेतुर्लोकात्मको विराट्।। १६.११ ।।

सूत्राव्याकृतरूपं तं शिवं शंसंति केचन।।
अव्याकृतं प्रधानं हि तद्रूपं परमेष्ठनः।। १६.१२ ।।

लोका येनैव तिष्ठंति सूत्रे मणिगणा इव।।
तत्सूत्रमिति विज्ञेयं रूपमद्भुतविक्रमम्।। १६.१३ ।।

अंतर्यामी परः कैश्चित्कैश्चिदीशः प्रकीर्त्यते।।
स्वयंज्योतिः स्वयंवेद्यः शिवः शंभुर्महेश्वरः।। १६.१४ ।।

सर्वेषामेव भूतानामंतर्यामी शिवः स्मृतः।।
सर्वेषामेव भूतानां परत्वात्पर उच्यते।। १६.१५ ।।

परमात्मा शिवः शंभुः शंकरः परमेश्वरः।।
प्राज्ञतैजसविश्वाख्यं तस्य रूपत्रयं विदुः।। १६.१६ ।।

सुषुप्तिस्वप्नजाग्रंतमवस्थात्रयमेव तत्।।
विराट् हिरण्यगर्भाख्यमव्याकृतपदाह्वयम्।। १६.१७ ।।

तुरीयस्य शिवस्यास्य अवस्थात्रयगामिनः।।
हिरण्यगर्भः पुरुषः कालइत्येव कीर्तिताः।। १६.१८ ।।

तिस्रोऽवस्था जगत्सृष्टिस्थितिसंहारहेतवः।।
भवविष्णुविरिंचाख्यमवस्थात्रयमीशितुः।। १६.१९ ।।

आराध्य भक्त्या मुक्तिं च प्राप्नुवंति शरीरिणः।।
कर्ता क्रिया च कार्यं च करणं चेति सूरिभिः।। १६.२० ।।

शंभोश्चत्वारि रूपाणि कीर्त्यंते परमेष्ठिनः।।
प्रमाता च प्रमाणं च प्रमेयं प्रमितिस्तथा।। १६.२१ ।।

चत्वार्येतानि रूपाणि शिवस्यैव न संशयः।।
ईश्वराव्याकृतप्राणविराट्भूतेंद्रियात्मकम्।। १६.२२ ।।

शिवस्यैव विकारोऽयं समुद्रस्येव वीचयः।।
ईश्वरं जगतामाहुर्निमित्तं कारणं तथा।। १६.२३ ।।

अव्याकृतं प्रधानं हि तदुक्तं वेदवादिभिः।।
हिरण्यगर्भः प्राणाख्यो विराट् लोकात्मकः स्मृतः।। १६.२४ ।।

महा भूतानि भूतानि कार्याणि इन्द्रियाणि च।।
शिवस्यैतानि रूपाणि शंसंति मुनिसत्तमाः।। १६.२५ ।।

परमात्मा शिवादन्यो नास्तीति कवयोविदुः।।
शिवजातानि तत्त्वानि पंचविंशन्मनीषिभिः।। १६.२६ ।।

उक्तानि न तदन्यानि सलिलादूर्मिवृंदवत्।।
पंचविंशत्पदार्थेभ्यः शिवतत्त्वं परं विदुः।। १६.२७ ।।

तानि तस्मादनन्यानि सुवर्णकटकादिवत्।।
सदाशिवेश्वराद्यानि तत्त्वानि शिवतत्त्वतः।। १६.२८ ।।

जातानि न तदन्यानि मृद्द्रव्यं कुंभभेदवत्।।
माया विद्या क्रिया शक्तिर्ज्ञानशक्तिः क्रियामयी।। १६.२९ ।।

जाताः शिवान्न संदेहः किरणा इव सूर्यतः।।
सर्वात्मकं शिवं देवं सर्वाश्रयविधायिनम्।। १६.३० ।।

भजस्व सर्वभावेन श्रेयश्चेत्प्राप्तुमिच्छसि।। १६.३१ ।।

इति श्रीलिंगमहापुराणे उत्तरभागे षोडशोऽध्यायः।। १६ ।।