वेतालपञ्चविंशति 06
← वेतालपञ्चविंशति 05 | वेतालपञ्चविंशति 06 सोमदेव |
वेतालपञ्चविंशति 07 → |
ततः गत्वा पुनः तस्मात् प्राप्य तम् शिंशपातरोः।
वेतालम् प्राग्वत् आदाय स्कन्धे मौनेन भूपतिः॥६.१३.१॥
सः त्रिविक्रमसेनः अत्र यावत् आगच्छति द्रुतम्।
तावत् पथि सः वेतालः भूयः अपि एवम् उवाच तम्॥६.१३.२॥
राजन् सुधीः सुसत्त्वः च भवान् तेन प्रियः असि मे।
अतः विनोदिनीम् वच्मि कथाम् प्रश्नम् च मे शृणु॥६.१३.३॥
आसीत् राजा यशःकेतुः इति ख्यातः महीतले।
तस्य शोभावती नाम राजधानी अभवत् पुरी॥६.१३.४॥
तस्याम् अभूत् नगर्याम् च गौरी- आयतनम् उत्तमम्।
तस्य दक्षिणतः च आसीत् गौरीतीर्थाभिधम् सरः॥६.१३.५॥
तस्य आषाढचतुर्दश्याम् शुक्लायाम् प्रतिवत्सरम्।
यात्रायाम् स्नातुम् एति स्म नानादिग्भ्यः महाजनः॥६.१३.६॥
एकदा च तिथौ तस्याम् स्नातुम् अत्र आययौ युवा।
रजकः धवलः नाम ग्रामात् ब्रह्मस्थलाभिधात्॥६.१३.७॥
सः अपश्यत् रजकस्य अत्र तीर्थे स्नान- आगताम् सुताम्।
कन्याम् शुद्धपट- आख्यस्य नाम्ना मदनसुन्दरीम्॥६.१३.८॥
इन्दोः लावण्यहारिण्या तया सः हृतमानसः।
अन्विष्य तत्नामकुले काम- आर्तः अथ गृहम् ययौ॥६.१३.९॥
तत्र अनवस्थितः तिष्ठन् निराहारः तया विना।
पृष्ठः मात्रा आर्तया तस्यै तत् शशंस मनःगतम्॥६.१३.१०॥
सा गत्वा विमल- आख्याय तत् स्वभर्त्रे न्यवेदयत्।
सः अपि आगत्य तथा अवस्थम् दृष्ट्वा तम् सुतम् अभ्यधात्॥६.१३.११॥
किम् विषीदसि पुत्र एवम् अदुष्प्राप्ये अपि वाञ्छिते।
सः हि मत्याचितः शुद्धपटः दास्यति ते सुताम्॥६.१३.१२॥
अन्यूनाः हि वयम् तस्मात् कुलेन अर्थेन कर्मणा।
तम् वेद्मि अहम् सः माम् वेत्ति तेन एतत् मे न दुःकरम्॥६.१३.१३॥
इति आश्वास्य सः तम् पुत्रम् आहार- आदौ प्रवर्त्य च।
तत् युक्तः विमलः अन्येद्युः ययौ सः शुद्धपट- आस्पदम्॥६.१३.१४॥
ययाचे च अत्र पुत्रस्य तस्य अर्थे धवलस्य सः।
कन्याम् तस्मात् सः च अस्मै ताम् प्रतिशुश्राव स- आदरम्॥६.१३.१५॥
लग्नम् निश्चित्य च अन्येद्युः ताम् शुद्धपटः सुताम्।
धवलाय ददौ तस्मै तुल्याम् मदनसुन्दरीम्॥६.१३.१६॥
कृतौद्वाहः च सः तया साकम् दर्शनसक्तया।
भार्यया स्वपितुः गेहम् जगाम धवलः कृती॥६.१३.१७॥
सुखस्थितस्य तस्य अथ कदाचित् श्वशुर- आत्मजः।
तस्याः मदनसुन्दर्याः भ्राता तत्र आगतः अभवत्॥६.१३.१८॥
सः कृतप्रश्रयः सर्वैः स्वस्रा आश्लिष्य अभिनन्दितः।
संबन्धिपृष्टकुशलः विश्रान्तः च जगाद तान्॥६.१३.१९॥
अहम् मदनसुन्दर्याः जामातुः च निमन्त्रणे।
तातेन प्रेषितः यस्मात् देवीपूजा- उत्सवः अस्ति नः॥६.१३.२०॥
श्रद्धाय च एतत् तत्वाक्यम् यथा- अर्हैः पानभोजनैः।
ते संबन्धि- आदयः सर्वे तत् अहः तम् उपाचरन्॥६.१३.२१॥
प्रातः मदनसुन्दर्या स्वशुर्येण च तेन सः।
सहितः धवलः प्रायात् गृहम् तत् श्वाशुरम् प्रति॥६.१३.२२॥
प्राप्य शोभावतीम् ताम् च पुरीम् आत्मतृतीयकः।
ददर्श निकटम् प्राप्य सः गौरी- आयतनम् महत्॥६.१३.२३॥
निजगाद च तौ भार्याश्वशुर्यौ श्रद्धया ततः।
एतम् एताम् भगवतीम् पश्यामः देवताम् इह॥६.१३.२४॥
तत् श्रुत्वा सः श्वशुर्यः तम् निषेधम् प्रत्यभाषा ।
इयन्तः रिक्तहस्ताः किम् पश्यामः देवताम् इति॥६.१३.२५॥
अहम् तावत् व्रजामि एकः युवाम् अत्र एव तिष्ठतम्।
इति उक्त्वा धवलः द्रष्टुम् देवीम् ताम् सः ततः ययौ॥६.१३.२६॥
प्रविश्य आयतनम् तस्याः प्रणम्य च विभाव्य च।
ताम् अष्टादशदोःदण्डखण्डितौच्चण्डदानवाम्॥६.१३.२७॥
पादपद्मतल- आक्षिप्तमहिषासुरमर्दिनीम्।
सः विधिप्रेरणौत्पन्नबुद्धिः एवम् अचिन्तयत्॥६.१३.२८॥
जीवौपहारैः विविधैः इमाम् देवीम् जनः अर्चति।
अहम् तु सिद्ध्यै किम् न एताम् प्रीणामि आत्मौपहारतः॥६.१३.२९॥
इति ध्यात्वा एव तत्गर्भगृहात् आदाय निःजनात्।
खड्गम् सांयात्रिकैः कैःचित् देव्याः प्राक् प्राभृतीकृतम्॥६.१३.३०॥
बद्ध्वा शिरःरुहैः घण्टाशृङ्खलायाम् निजम् शिरम्।
चिच्छेद एतेन खड्गेन तत् छिन्नम् च अपतत् भुवि॥६.१३.३१॥
चिरम् यावत् सः न आयाति तावत् गत्वा तम् ईक्षितुम्।
तत्र एव देवीभवने तत्श्वशुर्यः विवेश सः॥६.१३.३२॥
सः अपि दृष्ट्वा तम् उत्कृत्तमूर्धानम् भगिनीपतिम्।
व्यामोहितः तथा एव स्वम् शिरः तेन असिना अच्छिनत्॥६.१३.३३॥
सः अपि यावत् च न आयाति तावत् उद्भ्रान्तमानसा।
तत्देवीभवनम् सा अपि ययौ मदनसुन्दरी॥६.१३.३४॥
प्रविश्य दृष्ट्वा एव पतिम् भ्रातरम् च तथागतौ।
हा किम् एतत् हत- आस्मि इति विलपन्ती अपतत् भुवि॥६.१३.३५॥
क्षणात् च उत्थाय शोचन्ती तौ अकाण्डहतौ उभौ।
किम् मम अपि अधुना अनेन जीवितेन इति अचिन्तयत्॥६.१३.३६॥
व्यजिज्ञपत् च देवीम् ताम् देहत्यागौन्मुखी सती।
देवि सौभाग्यचारित्रविधानएकाधिदेवते॥६.१३.३७॥
अध्यासितशरीरार्धे भर्तुः माररिपोः अपि।
अशेषललनालोकशरण्ये दुःखहारिणि॥६.१३.३८॥
हृतौ एकपदे कस्मात् भर्ता भ्राता च मे त्वया।
न युक्तम् एतत् मयि ते नित्यभक्ता हि अहम् त्वयि॥६.१३.३९॥
तत् मे श्रितायाः शरणम् शृणु एकम् कृपणम् वचः।
एताम् तावत् त्यजामि अत्र दौर्भाग्यौपहताम् तनुम्॥६.१३.४०॥
जनिष्ये देवि भूयः तु यत्र कुत्र अपि जन्मनि।
तत्र एतौ एव भूयास्ताम् द्वौ भर्तृभ्रातरौ मम॥६.१३.४१॥
इति संस्तुत्य विज्ञप्य देवीम् नत्वा च ताम् पुनः।
पाशम् विरचयामास लतया अशोकपादपे॥६.१३.४२॥
तत्र अर्पयति यावत् च पाशे कण्ठम् वितत्य सा।
तावत् तत्र उच्चचार एवम् भारती गगनाङ्गणात्॥६.१३.४३॥
मा कृथाः साहसम् पुत्रि बालायाः अपि ते अमुना।
सत्त्वौत्कर्षेण तुष्टा अस्मि पाशम् एतम् परित्यज॥६.१३.४४॥
संश्लेषय शिरः स्वम् स्वम् भर्तृभ्रातृकबन्धयोः।
उत्तिष्ठताम् ते जीवन्तौ एतौ द्वौ अपि मत्वरात्॥६.१३.४५॥
एतत् श्रुत्वा एव संत्यज्य पाशम् हर्षात् उपेत्य सा।
अविभाव्य अतिरभसात् भ्रान्ता मदनसुन्दरी॥६.१३.४६॥
बाला भर्तृशिरः भ्रातृदेहेन समयोजयत्।
भर्तृदेहेन च भ्रातृशिरः विधिनियोगतः॥६.१३.४७॥
ततः अक्षताङ्गौ जीवन्तौ उभौ उत्तस्थतुः च तौ।
शिरःविनिमयात् जातसंकरौ काययोः मिथः॥६.१३.४८॥
अथ अन्योन्यौदितस्वस्वयथावृत्तान्ततोषिणः।
प्रणम्य देवीम् शर्वनीम् यथा- इष्टम् ते ययुः त्रयः॥६.१३.४९॥
यान्ती च दृष्ट्वा स्वकृतम् शिरःविनिमयम् तयोः।
विग्ना किम्कार्यतामूढा सा अभूत् मदनसुन्दरी॥६.१३.५०॥
तत् ब्रूहि राजन् कः भर्ता तस्याः संकीर्णयोः तयोः।
पुर्वौक्तः स्यात् सः शापः ते जानानः न ब्रवीषि चेत्॥६.१३.५१॥
इति आकर्ण्य कथाप्रश्नम् राजा वेतालतः ततः।
सः त्रिविक्रमसेनः अत्र तम् एवम् प्रत्यभाषत॥६.१३.५२॥
यत् संस्थम् तत्पतिशिरः सः एषः तस्याः पतिः तयोः।
प्रधानम् च शिरः अङ्गेषु प्रत्यभिज्ञा च तत्गता॥६.१३.५३॥
इति उक्तवतः नृपतेः तस्य आंसात् पुनः अतर्कितः सः ययौ।
वेतालः सः च राजा जगाम भुयः तम् आनेतुम्॥६.१३.५४॥
तुलनीय - भविष्यपुराणम् ३.२.६
संबंधित कड़ियाँ
[सम्पाद्यताम्]- वेतालपञ्चविंशति
- वेतालपञ्चविंशति 00
- वेतालपञ्चविंशति 01
- वेतालपञ्चविंशति 02
- वेतालपञ्चविंशति 03
- वेतालपञ्चविंशति 04
- वेतालपञ्चविंशति 05
- वेतालपञ्चविंशति 06
- वेतालपञ्चविंशति 07
- वेतालपञ्चविंशति 08
- वेतालपञ्चविंशति 09
- वेतालपञ्चविंशति 10
- वेतालपञ्चविंशति 11
- वेतालपञ्चविंशति 12
- वेतालपञ्चविंशति 13
- वेतालपञ्चविंशति 14
- वेतालपञ्चविंशति 15
- वेतालपञ्चविंशति 16
- वेतालपञ्चविंशति 17
- वेतालपञ्चविंशति 18
- वेतालपञ्चविंशति 19
- वेतालपञ्चविंशति 20
- वेतालपञ्चविंशति 21
- वेतालपञ्चविंशति 22
- वेतालपञ्चविंशति 23
- वेतालपञ्चविंशति 24
- वेतालपञ्चविंशति 25