योगवासिष्ठः/प्रकरणम् ५ (उपशमप्रकरणम्)/सर्गः ०१
योगवासिष्ठः/प्रकरणम् ५ (उपशमप्रकरणम्) सर्गः ०१ अज्ञातलेखकः |
सर्गः २ → |
उपशमप्रकरणम् | |
---|---|
प्रथमः सर्गः १
श्रीवसिष्ठ उवाच ।
अथ स्थितिप्रकरणादनन्तरमिदं श्रृणु ।
उपशमप्रकरणं ज्ञातं निर्वाणकारि यत् ।। १
श्रीवाल्मीकिरुवाच ।
शरत्तारकिताकाशस्तिमितायां सुसंसदि ।
कथयत्येवमाह्लादि वसिष्ठे पावनं वचः ।। २
श्रवणार्थित्वमौनस्थपार्थिवे संसदन्तरे ।
निर्वात इव निस्पन्दकमले कमलाकरे ।। ३
विलासिनीषु संशान्तमदमोहबलासु च ।
शममन्तः प्रयान्तीषु चिरप्रव्रजितास्विव ।। ४
कराम्भोरुहहंसेषु लीनेषु श्रवणादिव ।
मुक्तघुर्घुरवादेषु वायसेषु तराविव ।। ५
नासाग्रपरिविश्रान्ततर्जन्यङ्गुलिकोटिषु ।
विचारयत्सु विज्ञानकलां तज्ज्ञेषु राजसु ।। ६
रामे विकासमायाते प्रभात इव पङ्कजे ।
परित्यक्ततमः पीठे सूर्योदय इवाम्बरे ।। ७
आकर्णयति वासिष्ठीर्गिरो दशरथे रसात् ।
कलापिनीव जीमूतनिर्ह्रादान्मुक्तवर्षणात् ।। ८
आहृत्य सर्वभोगेभ्यो मनो मर्कटचञ्चलम् ।
श्रवणं प्रति यत्नेन सारेण मन्त्रिणि स्थिते।। ९
वसिष्ठोक्त्या परिज्ञातस्वात्मनीन्दुकलामले ।
लक्ष्मणे विलसल्लक्ष्ये शिक्षावलविचक्षणे ।। १०
शत्रुघ्ने शत्रुदलने चेतसा पूर्णतां गते ।
अलमानन्दमायाते राकाचन्द्रोपमे स्थिते ।। ११
सुमित्रे मित्रतां याते मानसे दुःखशीलिते ।
विकासिहृदये जाते तत्काल इव पंकजे ।। १२
तत्रस्थेषु तथान्येषु तदा मुनिषु राजसु ।
सुधौतचित्तरत्नेषु प्रोल्लसत्स्विव चेतसा ।। १३
उदभूत्पूरयन्नाशाः कल्पाभ्ररवमांसलः ।
अथ मध्याह्नशंखानामब्धिघोषसमः स्वनः ।। १४
महता तेन शब्देन तिरोधानं मुनेर्गिरः ।
ययर्जलदनादेन कोकिलध्वनयो यथा ।। १५
मुनिरन्तरयांचक्रे स्वां वाचमथ संसदि ।
जितसारो गुणः केन महता समुदीर्यते ।। १६
मुहूर्तमात्रं विश्रम्य श्रुत्वा मध्याह्ननिःस्वनम् ।
घने कोलाहले शान्ते रामं मुनिरुवाच ह ।। १७
रामाद्यतनमेतावदाह्णिकं कथितं मया ।
प्रातरन्यत्तु वक्ष्यामो वक्तव्यमरिमर्दन ।। १८
इदं नियतितः प्राप्तं कर्तव्यं तद्विजन्मनाम् ।
मध्याह्नमुपपन्नं यत्कर्तव्यं नावसीदति ।। १९
त्वमप्युत्तिष्ठ सुभग समस्ताचारसत्क्रियाम् ।
आचराचारचतुरस्नानदानार्चनादिकाम् ।। २०
इत्युक्त्वा मुनिरुत्तस्थौ समं दशरथः प्रभुः ।
ससदाः सेन्दुरादित्य उदयाद्रितटादिव ।। २१
तयोरुत्तिष्ठतो सर्वा सभोत्थातुमकम्पत ।
मन्दवातपरामृष्टा नलिनीवालिलोचना ।। २२
उत्तस्थौ सावतंसोत्थभृंगमण्डलमण्डिता ।
करिसेनेव सन्ध्याद्रावालोलकरपुष्करा ।। २३
परस्परांगसंघट्टचूर्णितांगदमण्डली ।
रत्नपूर्णारुणाम्भोदसन्ध्यासमयसूचनी ।। २४
पतदुत्तंसविभ्रान्तभृंगोपहितघुंघुमा ।
मुकुटोद्दामविद्योतशक्रचापीकृताम्वरा ।। २५
कान्तालताहस्तदलचारुचामरमंजरी ।
वनलेखेव विक्षुब्धवरवारणमण्डला ।। २६
कचत्कटकभारक्तीकृतान्योन्यतताम्बरा ।
वातव्याधूतपुष्पेव मन्दारवनमालिका ।। २७
कर्पूरकणनीहाररचितामलवारिदा ।
शरहिक्तटमालेव प्रसृताशेषभूमिका ।।२८
लोलमौलिमणिप्रान्तपाटलाम्बरकोटरा ।
संध्येवाफुल्लनीलाला कार्यसंहारकारिणी ।। २९
रत्नांशुसलिलापूरमुखपद्मनिरन्तरा ।
पद्मिनीवालिवलिता नूपुरारवसारसा ।। ३०
संतता सा सभोत्तस्थौ भूभृच्छतसमाकुला ।
भूतसंततिसंभ्रान्ता सृष्टिर्नवमिवोदिता ।। ३१
प्रणम्याथ नृपं भूपा निर्ययुर्नृपमन्दिरात् ।
शक्रचापीकृता रत्नैरम्बुधेरिववीचयः ।। ३२
सुमन्त्रो मन्त्रिणश्चैव वसिष्ठमथ भूमिपम् ।
प्रणम्य जग्मुः स्नानाय रसविज्ञानकोविदाः ।। ३३
वामदेवादयश्चान्ये विश्वामित्रादयस्तथा ।
वसिष्ठं पुरतः कृत्वा तस्थुरावर्जनोन्मुखाः ।। ३४
राजा दशरथस्तत्र पूजयित्वा मुनिव्रजम् ।
तद्विसृष्टो जगामाथ स्वकार्यार्थमरिन्दमः ।। ३५
वनं वनास्पदा जग्मुर्व्योम व्योमनिवासिनः ।
नगरं नागराश्चैव प्रातरागमनाय ते ।। ३६
महीपतिवसिष्ठाभ्यां प्रणयात्प्रार्थितः प्रभुः ।
वसिष्ठसद्मनि निशां विश्वामित्रोऽत्यवाहयत् ।। ३७
वसिष्ठः सह विप्रेन्द्रैः पार्थिवैर्मुनिभिस्तथा ।
उपास्यमानो रामाद्यैः सर्वैर्दशरथात्मजैः ।। ३८
जगाम स्वाश्रमं श्रीमान्सर्वलोकनमस्कृतः ।
अनुयातः सुरौघेन ब्रह्मलोकमिवाब्जजः ।। ३९
तस्मात्प्रदेशाद्रामादीन्पुनर्दशरथात्मजान् ।
सर्वान्विसर्जयामास पादोपान्ते नतानसौ ।। ४०
नभश्चरान्धरणिचरानधश्चरान्विसृज्य संस्तुतगुणगोचरांश्च तान् ।
यथाक्रमं स्वगृहमुदारसत्त्ववांश्चकार तां द्विजजनवासरक्रियाम् ।। ४१
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते मो० उपशमप्रकरणे आह्निकवर्णनं नाम प्रथमः सर्गः ।। १ ।।