योगवासिष्ठः/प्रकरणम् ५ (उपशमप्रकरणम्)/सर्गः ७४
चतुःसप्ततितमः सर्गः ७४
श्रीवसिष्ठ उवाच ।
लीलयाऽपश्यति वपुः कालेनात्मनि जायते ।
रम्यस्यापश्यतो वक्रं हृदि दौरूप्यधीरिव ।। १
तद्वशादियमायाता महती मेदुरोदरा ।
माया मदमहाशक्तिः सुरास्वादलवादिव ।। २
तयानया विकारिण्या तदतद्भावभूतया ।
इदं संपन्नमखिलं तापादिव मरौ पयः ।। ३
मनो बुद्धिरहंकारो वासनाश्चेन्द्रियाण्यपि ।
एवंकलितनामाङ्कैः स्फुरत्यात्माब्धिरम्बुभिः ।। ४
चित्ताहंकारयोर्द्वित्वं वचस्यस्ति न वस्तुतः ।
यच्चित्तं स ह्यहंकारो योऽहंकारो मनो हि तत् ।। ५
व्यतिरिक्तं हिमाच्छौक्ल्यमिति संकल्प्यते यथा ।
मुधैव कल्प्यते भेदश्चित्ताहंकारयोस्तथा ।। ५
मनोहंकारयोरन्तर्द्वयोरेकतरक्षये ।
क्षीणे द्वे एव हि यथा पटशौक्ल्ये पटक्षये ।। ७
तुच्छां मोक्षधियं त्यक्त्वा बन्धबुद्धिं तथैषणाम् ।
स्ववैराग्यविवेकाभ्यां केवलं क्षपयेन्मनः ।। ८
मोक्षो मेऽस्त्विति चिन्तान्तर्जाता चेदुत्थितं मनः ।
मननोत्के मनस्युच्चैर्वपुर्दोषाय केवलम् ।। ९
आत्मन्यतीते सर्वस्मात्सर्वभूतेऽथवा तते ।
को बन्धः कश्च वा मोक्षो निर्मूलं मननं कुरु ।। १०
वायुः स्पन्दनधर्मत्वाद्यदा चलति देहके ।
तदा स्फुरति हस्ताङ्गरसनापल्लवावली ।। ११
पादपे पल्लवश्रेणीं चालयत्यनिलो यथा ।
तथैवाङ्गावलीं वायुर्देहे संचालयत्यलम् ।। १२
चित्सर्वव्यापिनी सूक्ष्मा न चला नैव चाल्यते ।
न स्वतः स्पन्दमायाति देवाचल इवानिलैः ।। १३
प्रतिबिम्बितसर्वार्था केवलं स्वात्मनि स्थिता ।
प्रकाशयति बोधेन जगन्तीमानि दीपवत् ।। १४
तत्र कोऽयं मुधा मोहो भवतामतिदुःखदः ।
अयं सोऽहं ममाङ्गानि ममेदं चेति दुर्धियाम् ।। १५
इति कल्लोलहतया दृशा नित्यमनित्यया ।
ज्ञत्वकर्तृत्वभोक्तृत्वक्रिया समुपलभ्यते ।। १६
तत्रायमहमागन्ता भोक्ता कर्तेति जायते ।
मुधैवाज्ञाततापोत्था मृगतृष्णेव वासना ।। १७
अज्ञतैषा मनोमत्तमृगं विषयतर्षुलम् ।
असत्यैव हि सत्येव मृगतृष्णेव कर्षति ।। १८
विज्ञाता सत्यरूपांग नाशं याति पलायते ।
विप्रमध्यात्परिज्ञाता यथा चाण्डालकन्यका ।। १९
अविद्या संपरिज्ञाता न चैनं परिकर्षति ।
मृगतृष्णा परिज्ञाता तर्षुले नावकर्षति ।। २०
परमार्थावबोधेन समूलं राम वासना ।
दीपेनेवान्धकारश्रीर्गलत्यालोक एति च ।। २१
नास्त्यविद्येति संजाते निश्चये शास्त्रयुक्तितः ।
गलत्यविद्या तापेन तुषारकणिका यथा ।। २२
देहस्यास्य जडस्यार्थे किं भोगैरितिनिश्चयः ।
भिनत्त्याशामलं ज्ञाता पञ्जरं केसरी यथा ।। २३
आशापरिकरे राम नूनं परिहृते हृदा ।
पुमानागतसौन्दर्यो ह्लादमायाति चन्द्रवत् ।। २४
परां शीतलतामेति वृष्टिधौत इवाचलः ।
निर्वृतिं परमां धत्ते प्राप्तराज्य इवाधमः ।। २५
शोभते परया लक्ष्म्या शरदीव नभस्तलम् ।
आत्मन्येव न मात्युच्चैः कल्पस्यान्त इवार्णवः ।। २६
भवत्यपेतसंरम्भो वृष्टिमूक इवाम्बुदः ।
तिष्ठत्यात्मनि संवेत्ता प्रशान्त इव वारिधिः ।। २७
परं धैर्यमुपादत्ते स्थैर्यं मेरुरिवाचलः ।
राजते स्वच्छया लक्ष्म्या शान्तेन्धन इवानलः ।। २८
भवत्यात्मनि निर्वाणः प्रशान्त इव दीपकः ।
तृप्तिमायाति परमां नरः पीतामृतो यथा ।। २९
अन्तर्दीपो घट इव मध्यज्वाल इवानलः ।
स्फुरद्दीप्तिर्मणिरिव प्रयात्यन्तः प्रकाशताम् ।। ३०
सर्वात्मकं सर्वगतं सर्वेशं सर्वनायकम् ।
सर्वाकारं निराकारं स्वमात्मानं प्रपश्यति ।। ३१
हसत्यलमतीतास्ताः पेलवा दिवसावलीः ।
यासु स्मरशरश्रेणीचपलं चित्तमास्थितम् ।। ३२
सङ्गरङ्गविनिष्क्रान्तः शान्तमानमनोज्वरः ।
अध्यात्मरतिरासीनः पूर्णः पावनमानसः ।। ३३
निर्मृष्टकामपङ्काङ्कश्छिन्नबन्धनिजभ्रमः ।
द्वन्द्वदोषभयोन्मुक्तस्तीर्णसंसारसागरः ।। ३४
प्राप्तानुत्तमविश्रान्तिर्लब्धालभ्यपरास्पदः ।
अनिवृत्तिपदं प्राप्तो मनसा कर्मणा गिरा ।। ३५
सर्वाभिवाञ्छितारम्भो न किंचिदपि वाञ्छति ।
सर्वानुमोदितानन्दो न किंचिदनुमोदते ।। ३६
न ददाति न चादत्ते न स्तौति न च निन्दति ।
नास्तमेति न चोदेति न तुष्यति न शोचति ।। ३७
सर्वारम्भपरित्यागी सर्वोपाधिविवर्जितः ।
सर्वाशासंपरित्यागी जीवन्मुक्त इति स्मृतः ।। ३८
सर्वैषणाः परित्यज्य चेतसा भव मौनवान् ।
धारा निरवशेषेण यथा त्यक्त्वा पयोधरः ।। ३९
न तथा सुखयत्यङ्ग संलग्ना वरवर्णिनी ।
यथा सुखयति स्वान्तमिन्दुशीता निराशता ।। ४०
न तथेन्दुः सुखयति कण्ठलग्नोऽपि राघव ।
नैराश्यं सुखयत्यन्तर्यथा सकलशीतलम् ।। ४१
पुष्पपूर्णनवलतो न तथा राजते मधुः ।
यथोदारमतिर्मौनी नैराश्यसममानसः ।। ४२
न हिमाद्रेर्न मुक्ताभ्यो न रम्भाभ्यो न चन्दनात् ।
न च चन्द्रमसः शैत्यं नैराश्याद्यदवाप्यते ।। ४३
अपि राज्यादपि स्वर्गादपीन्दोरपि माधवात् ।
अपि कान्तासमासङ्गान्नैराश्यं परमं सुखम् ।। ४४
तृणवन्नोपकुर्वन्ति यत्र त्रिभुवनश्रियः ।
सा परा निर्वृतिः साधो नैराश्यादुपलभ्यते ।। ४५
आपत्करञ्जपरशुं पराया निर्वृतेः पदम् ।
पुष्पगुच्छं शमतरोरालम्बस्व निराशताम् ।। ४६
गोष्पदं पृथिवी मेरुः स्थाणुराशाः समुद्गिकाः ।
तृणं त्रिभुवनं राम नैराश्यालंकृताकृतेः ।। ४७
दानादानसमाहारविहारविभवादिकाः ।
क्रिया जगति हस्यन्ते निराशैः पुरुषोत्तमैः ।। ४८
पदं यस्य न बध्नाति कदाचित्कलना हृदि ।
तृणीकृतत्रिभुवनः केनासावुपमीयते ।। ४९
इदमेवास्त्विदं मास्तु ममेति हृदि रञ्जना ।
न यस्यास्ति तमात्मेशं तोलयन्ति कथं जनाः ।। ५०
सर्वसंकटपर्यन्तमसंकटमलं सुखम् ।
सौभाग्यं परमं बुद्धेर्नैराश्यमवलम्ब्यताम् ।। ५१
नाशास्तेनत्वमाशानां विद्धि मिथ्याभ्रमं जगत् ।
वहद्रथस्थदिक्चक्रपरावर्तवदुत्थितम् ।। ५२
किं मुह्यसि महाबाहो मूर्खवद्बोधितोऽपि सन् ।
ममेदं तदयं सोऽहमित्युद्भ्रान्तेन चेतसा ।। ५३
आत्मैवेदं जगत्सर्वं नानातेह न विद्यते ।
एकरूपं जगज्ज्ञात्वा धीरैर्नाम न खिद्यते ।। ५४
यथाभूतपदार्थौघदर्शनादेव राघव ।
परमाश्वासनं बुद्धेर्नैराश्यमधिगच्छति ।। ५५
भावाभावविसंवादमुक्तमाद्यन्तयोः स्थितम् ।
यद्रूपं तत्समालम्ब्य पदार्थानां स्थितिं कुरु ।। ५६
वैराग्यवीरमनसो मायेयमतिमोहिनी ।
पलाय्य याति संसारी मृगी केसरिणो यथा ।। ५७
कान्तामुद्दाममदनां लोलां वनलतामिव ।
जर्जरोपलपाञ्चालीसमां पश्यति धीरधीः ।। ५८
भोगा नानन्दयन्त्यन्तः खेदयन्ति न चापदः ।
दृश्यश्रियो हरन्त्यङ्ग नतमद्रिमिवानिलाः ।। ५९
रक्तबालाङ्गनस्यापि ज्ञस्योदारधिया मुनेः ।
कणशः पांसुतां यान्ति मनसः स्मरसायकाः ।। ६०
रागद्वेषैः स्वरूपज्ञो नावशः परिकृष्यते ।
स्पन्द एवास्य नैताभ्यां किमुताक्रमणं भवेत् ।। ६१
समदृष्टलतालोलवनितोऽद्रिशिलाकृतिः ।
रमते नैष भोगेषु पान्थो मरुमहीष्विव ।। ६२
अयत्नोपनतं सर्वं लीलयाऽसक्तमानसः ।
भुङ्क्ते भोगभरं प्राज्ञस्त्वालोकमिव लोचनम् ।। ६३
काकतालीयवत्प्राप्ता भोगाली ललनादिका ।
स्वादिताप्यङ्ग धीरस्य न दुःखाय न तुष्टये ।। ६४
सम्यग्दृष्टपथं तज्ज्ञं सुखदुःखमती मनाक् ।
द्वे वीच्याविव शैलेन्द्रं क्षोभं नेतुं न शक्नुतः ।। ६५
हेलयालोकयन्भोगान्मृदुर्दान्तो गतज्वरः ।
स्वमेव पदमालम्ब्य सर्वभूतान्तरस्थितम् ।। ६६
ज्ञस्तिष्ठति गतव्यग्रो व्यग्रेणापि समन्वितः ।
जगन्ति जनयन्नेव ब्रह्मैवात्मपरायणः ।। ६७
आपतत्सु यथाकालं यथादेशं यथाक्रमम् ।
सुखदुःखेषु न क्षोभमेति भूभृदृतुष्विव ।। ६८
मज्जतोऽपि बहुज्ञस्य राम कर्मेन्द्रियभ्रमैः ।
असक्तमनसो नित्यं न किंचिदपि मज्जति ।। ६९
कलंकयन्तःकलङ्केन प्रोच्यते हेम नान्यथा ।
भावासक्त्या समासक्त उक्तो जन्तुर्हि नान्यथा ।। ७०
शरीराद्व्यतिरिक्तं ज्ञं पश्यतः प्रविवेकिनः ।
विकर्तिताङ्गकस्यापि न किंचित्प्रविकर्तितम् ।। ७१
सकृत्प्रभातं विमलं यज्ज्ञातं ज्ञातमेव तत् ।
नहि बन्धुः परिज्ञातः पुनरज्ञाततां व्रजेत् ।। ७२
सर्पभ्रान्तौ निवृत्तायां न रज्ज्वां सर्पभावना ।
पुनरेति यथा प्रावृण्नदी गिरितटाच्च्युता ।। ७३
न हेम तापशुद्धाङ्गं स्वभावमलमागतम् ।
कर्दमे मग्नमपि सत्समादत्ते मलं पुनः ।। ७४
क्षीणे स्वहृदयग्रन्थौ न बन्धोऽस्ति पुनर्गुणैः ।
यत्नेनापि पुनर्बद्धं केन वृन्ते च्युतं फलम् ।। ७५
अवच्छेदविचाराभ्यामभितः खण्डशो गतम् ।
पाषाणं च मणिं चैव संधातुं कस्य शक्तता ।। ७६
विज्ञातायामविद्यायां कः पुनः परिमज्जति ।
परिज्ञाय श्वपाकानां यात्रां कः प्रेक्षते द्विजः ।। ७७
शुद्धाम्भसि यथा क्षीरधीर्विचारान्निवर्तते ।
संसारवासना तद्वद्धीविचारान्निवर्तते ।। ७८
मध्वम्बुशङ्कया तावद्विप्रवर्यैः प्रपीयते ।
यावन्नात्र परिज्ञातं परिज्ञातं प्रहीयते ।। ७९
रूपलावण्ययुक्तापि चित्रकान्तेव कामिनी ।
द्रव्यमात्रसमारम्भात्तत्त्वविद्भिर्विलोक्यते ।। ८०
यथा मषीकुसुम्भादि स्त्रियाश्चित्रे तथैव हि ।
जीवत्या अपि केशोष्ठं कस्तां परि किल ग्रहः ।। ८१
अनुभूतो गुडः स्वादुरपि दाहविकर्तनैः ।
न शक्यतेऽन्यथाकर्तुं तत्त्वालोकस्तथात्मनः ।। ८२
परव्यसनिनी नारी व्यग्रापि गृहकर्मणि ।
तदेवास्वादयत्यन्तः परसङ्गरसायनम् ।। ८३
एवं तत्त्वे परे शुद्धे धीरो विश्रान्तिमागतः ।
न शक्यते चालयितुं देवैरपि सवासवैः ।। ८४
परव्यसनिनी नारी केन भर्त्रा बलीयसा ।
विस्मारिता स्वसंकल्पकान्तसङ्गमहोत्सवम् ।। ८५
जगत्समरसानन्दचिदालोकावलम्बनम् ।
केन विस्मार्यते बुद्धिस्तत्त्वज्ञस्य महात्मनः ।। ८६
समग्रसुखदुःखाढ्यं व्यवहारमखण्डितम् ।
कुर्वन्कुलजनायत्तो भर्तृश्वशुरखेदितः ।। ८७
यथा संकल्पकान्तेन भवत्यानन्दमन्थरः ।
वधूलोको व्यसनवान्दुःखवृन्दैर्न बाध्यते ।। ८८
तथा विगलिताविद्यो व्यवहारपरोऽप्यलम् ।
सम्यग्दृष्टिः सदाचारो मुदमेत्यन्तरात्मना ।। ८९
छिद्यते न निकृत्ताङ्गो गलदश्रुर्न रोदिति ।
दह्यते न प्रदग्धोऽपि नष्टोऽपि न विनश्यति ।। ९०
व्यपगतसुखदुःखसंनिपातो
विधिविधुरेष्वपि संकटेष्वचित्तः ।
विलसतु सदने पुरोत्तमे वा
विततगिरौ विपिने तपोवने वा ।। ९१
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे वैराग्योपदेशो नाम चतुःसप्ततितमः सर्गः ।। ७४ ।।