योगवासिष्ठः/प्रकरणम् ५ (उपशमप्रकरणम्)/सर्गः ७१

विकिस्रोतः तः


एकसप्ततितमः सर्गः ७१
श्रीवसिष्ठ उवाच ।
यावत्तुर्यपरामर्शस्तावत्केवलतापदम् ।
जीवन्मुक्तस्य विषयो वचसां च रघूद्वह ।। १
अत ऊर्ध्वमदेहानां मुक्तानां वचसा तथा ।
विषयो न महाबाहो पुरुषाणामिवाम्बरम्।। २
सा हि विश्रान्तिपदवी दूरेभ्योऽपि दवीयसी ।
गम्या विदेहमुक्तानां खलेखेव नभस्वताम् ।। ३
सुषुप्तावस्थया कंचित्कालं भुक्त्वा जगत्स्थितिम् ।
तुर्यतामेति तदनु परमानन्दघूर्णितः ।। ४
तुर्यातीतदशां तज्ज्ञा यथा यान्त्यात्मकोविदाः ।
तथाधिगच्छ निर्द्वन्द्वं पदं रघुकुलोद्वह ।। ५
सुषुप्तावस्थया राम भव संव्यवहारवान् ।
चित्रेन्दोरिव ते न स्तः क्षयोद्वेगावरिन्दम ।। ६
शरीरसंनिवेशस्य क्षये स्थैर्ये च संविदः ।
मा गृहाण भ्रमो ह्येष शरीरमिति जृम्भते ।। ७
देहनाशेन कोऽर्थस्ते कोऽर्थस्ते देहसंस्थया ।
भव त्वं प्रकृतारम्भस्तिष्ठत्वेष यथास्थितम् ।। ८
ज्ञातवानसि तत्सत्यं बुद्धवानसि तत्पदम् ।
प्राप्तवानसि रूपं स्वं विशोको भव भूतये ।। ९
ईप्सितानीप्सितं त्यक्त्वा शीतलालोकशोभया ।
अन्धकारात्तथाम्भोदान्मुक्तं खमिव शोभते ।। १०
मनस्तवात्मसंपन्नं नाधः समनुधावति ।
योगमन्त्रतपःसिद्धः पुरुषः खादिवावनिम् ।। ११
इह शुद्धा चिदेवास्ति पारावारविवर्जिता ।
अयं सोऽहमिदं तन्म इति ते मास्तु विभ्रमः ।। १२
आत्मेति व्यवहारार्थमभिधा कल्पिता विभोः ।
नामरूपादिभेदस्तु दूरमस्मादलं गतः ।। १३
जलमेव यथाम्भोधिर्न तरङ्गादिकं पृथक् ।
आत्मैवेदं तथा सर्वं न भूतोयादिकं पृथक् ।। १४
यथा समस्ताज्जलधौ जलादन्यन्न लभ्यते ।
तथैव जगतः स्फारादात्मनोऽन्यन्न लभ्यते ।। १५
अयं सोऽहमिति प्राज्ञ क्व करोषि व्यवस्थितिम् ।
किं तत्त्वं किं च वा ते स्यात्किं तत्त्वं किं च वा न ते ।। १६
न द्वित्वमस्ति नो देहाः संबन्धो न च तैः स्थितः ।
संभाव्यते कलङ्को वा भानोरिव तमःपटैः ।। १७
द्वित्वमभ्युपगम्यापि कथयामि तवारिहन् ।
देहादिभिः सद्भिरपि न संबन्धो विभोर्भवेत् ।। १८
छायातपप्रसरयोः प्रकाशतमसोर्यथा ।
न संभवति संबन्धस्तथा वै देहदेहिनोः ।। १९
यथा शीतोष्णयोर्नित्यं परस्परविरुद्धयोः ।
न संभवति संबन्धो राम देहात्मनोस्तथा ।। २०
अविनाभाविनोर्यस्तु संबन्धः कथमेतयोः ।
जडचेतनयोर्देहदेहिनोरनुभूयते ।। २१
चिन्मात्रस्यात्मनो देहसंबन्ध इति या कथा ।
सैषा दुरवबोधार्था दावाग्नौ जलधिर्यथा ।। २२
सत्यावलोकनेनैषा मिथ्यादृष्टिर्विनश्यति ।
अवलोकनया साम्यमातपे जलधिर्यथा ।। २३
चिदात्मा निर्मलो नित्यः स्वावभासो निरामयः ।
देहस्त्वनित्यो मलवांस्तेन संबध्यते कथम् ।। २४
स्पन्दमायाति वातेन भूतैर्वा पीवरीकृतः ।
देहस्तेन न संबन्धो मनागेव सहात्मना ।। २५
सिद्धे द्वित्वेऽपि देहस्य न संबन्धस्य संभवः ।
द्वित्वासिद्धौ तु सुमते कलनैवेदृशी कुतः ।। २५
इत्येतदेव तत्सत्त्वे तत्रैवान्तःस्थितिं कुरु ।
न बन्धोऽस्ति न मोक्षोऽस्ति कदाचित्कस्यचित्क्वचित्
सर्वमात्ममयं शान्तमित्येवं प्रत्ययं स्फुटम् ।
सबाह्याभ्यन्तरं राम सर्वत्र दृढतां नय ।। २८
सुखी दुःखी विमूढोऽस्मीत्येता दुर्दृष्टयः स्मृताः ।
आसु चेद्वस्तुबुद्धिस्ते तच्चिरं दुःखमिच्छसि ।। २९
यः क्रमः शैलतृणयोः कौशेयोपलयोस्तथा ।
साम्यं प्रति स एवोक्तः परमात्मशरीरयोः ।। ३०
यथा तेजस्तिमिरयोर्न संबन्धो न तुल्यता ।
अत्यन्तभिन्नयो राम तथैवात्मशरीरयोः ।। ३१
यथा शीतोष्णयोरैक्यं कथास्वपि न दृश्यते ।
जडप्रकाशयोः श्लेषो न तथात्मशरीरयोः ।। ३२
देहश्चलति वातेन तेनैवायाति गच्छति ।
शब्दं करोति वातेन देहनाडीविलासिना ।। ३३
शब्दः कचटतप्रायः स्फुरत्यन्तः समीरणैः ।
यथा प्रजायते वंशाद्देहरन्ध्रात्तथैव हि ।। ३४
कनीनिकापरिस्पन्दश्चक्षुःस्पन्दस्य मारुतात् ।
इन्द्रियस्फुरणात्सैव संवित्केवलमात्मनः ।। ३५
आकाशोपलकुड्यादौ सर्वत्रात्मदशा स्थिता ।
प्रतिबिम्बमिवादर्शे चित्त एवात्र दृश्यते ।। ३६
शरीरालयमुत्सृज्य यत्र चित्तविहंगमः ।
स्ववासनावशाद्याति तत्रैवात्मानुभूयते ।। ३७
यत्र पुष्पं तत्र गन्धसंविदः संस्थिता यथा ।
यत्र चित्तं हि तत्रात्मसंविदः संस्थितास्तथा ।। ३८
सर्वत्र स्थितमाकाशमादर्शे प्रतिबिम्बति ।
यथा तथात्मा सर्वत्र स्थितश्चेतसि दृश्यते ।। ३९
अपामवनतं स्थानमास्पदं भूतले यथा ।
अन्तःकरणमेवात्मसंविदामास्पदं तथा ।। ४०
सत्यासत्यं जगद्रूपमन्तःकरणबिम्बिता ।
आत्मसंवित्तनोतीदमालोकमिव सूर्यभा ।। ४१
अन्तःकरणमेवातः कारणं भूतसंसृतौ ।
आत्मा सर्वातिगत्वात्तु कारणं सदकारणम् ।। ४२
अविचारणमज्ञानं मौर्ख्यमाहुर्महाधियः ।
संसारसंसृतौ सारमन्तःकरणकारणम् ।। ४३
असम्यक्प्रेक्षणान्मोहाच्चेतःसत्तां गृहीतवत् ।
संमोहबीजकणिकां तमोऽर्कादिव दृश्यते ।। ४४
यथा भूतात्मतत्त्वैकपरिज्ञानेन राघव ।
असत्तामेत्यलं चेतो दीपेनेव तमः क्षणात् ।। ४५
संसारकारणमितः स्वयं चेतो विचारयेत् ।
जीवोऽन्तःकरणं चित्तं मनश्चेत्यादिनामकम् ।। ४६
श्रीराम उवाच ।
एताः संज्ञाः प्रभो ब्रह्मंश्चेतसो रूढिमागताः ।
कथमित्येव कथय मयि मानद सिद्धये ।। ४७
श्रीवसिष्ठ उवाच ।
सर्वे भावा इमे नित्यमात्मतत्वैकरूपिणः ।
चित्तात्तरङ्गकगणा जलैककलिता यथा ।। ४८
आत्मा स्पन्दैकरूपात्मा स्थितस्तेषु क्वचित्क्वचित् ।
तरङ्गेषु विलोलेषु पयोधेः सलिलं यथा ।। ४९
क्वचिदस्पन्दरूपात्मा स्थितस्तेषु महेश्वरः ।
तरङ्गत्वमयातेषु जलभावो जलेष्विव ।। ५०
तत्रोपलादयो भावा अलोलाः स्वात्मनि स्थिताः ।
सुराफेनवदुत्स्पन्दा लोलास्तु पुरुषादयः ।। ५१
तत्र तेषु शरीरेषु सर्वशक्तिस्तदात्मनः ।
कलिताऽज्ञानकलना तेनाज्ञानमसौ स्थितः ।। ५२
तदज्ञानमनन्तात्मभूषितं जीव उच्यते। ।
स संसारे महामोहमायापञ्जरकुञ्जरः ।। ५३
जीवनाज्जीव इत्युक्तोऽहंभावः स्यात्त्वहंतया ।
बुद्धिर्निश्चायकत्वेन संकल्पकलनान्मनः ।। ५४
प्रकृतिः प्रकृतित्वेन देहो दिग्धतया स्थितः ।
जडः प्रकृतिभावेन चेतनः स्वात्मसत्तया ।। ५५
जडाजडदृशोर्मध्यं यत्तत्त्वं पारमात्मिकम् ।
तदेतदेव नानात्वं नानासंज्ञाभिराततम् ।। ५६
एवं स्वरूपं जीवस्य बृहदारण्यकादिषु ।
बहुधा बहुषु प्रोक्तं वेदान्तेषु किलानघ ।। ५७
अज्ञैस्त्वेतासु संज्ञासु कुविकल्पकुतार्किकैः ।
मोहाय केवलं मूढैर्व्यर्थमास्थाः प्रकल्पिताः ।। ५८
एवमेष महाबाहो जीवः संसारकारणम् ।
मूकेनातिवराकेण देहकेनेह किं कृतम् ।। ५९
आधाराधेययोरेकनाशे नान्यस्य नष्टता ।
यथा तथा शरीरादिनाशे नात्मनि नष्टता ।। ६०
एकपर्णरसे क्षीणे रसो नैति यथा क्षयम् ।
याति पर्णरसश्चार्करश्मिजालान्तरे यथा ।। ६१
शरीरसंक्षये देही न क्षयं याति कस्यचित् ।
निर्वासनश्चेत्तद्व्योम्नि तिष्ठत्यात्मपदे तथा ।। ६२
देहनाशे विनष्टोऽस्मीत्येवं यस्याऽमतेर्भ्रमः ।
मातुः स्तनतटात्तस्य मन्ये वेताल उत्थितः ।। ६३
यस्य ह्यात्यन्तिको नाशः स्यादसावुदितः स्मृतः ।
चित्तनाशो हि नाशः स्यात्स मोक्ष इति कथ्यते।। ६४
मृतो नष्ट इति प्रोक्तो मन्ये तच्च मृषा ह्यसत् ।
स देशकालान्तरितो भूत्वा भूत्वानुभूयते ।। ६५
इहोह्यन्ते जनैरेवं तरङ्गान्तस्तृणैरिव ।
मरणव्यपदेशासु देशकालतिरोहितैः ।। ६६
वासनावस्थितो जीवो यात्युत्सृज्य शरीरकम् ।
कपिर्वनतरुं त्यक्त्वा तर्वन्तरमिवास्थितः ।। ६७
पुनस्तदपि संत्यज्य गच्छत्यन्यदपि क्षणात् ।
अन्यस्मिन्वितते देशे कालेऽन्यस्मिंश्च राघव ।। ६८
इतश्चेतश्च नीयन्ते जीवा वासनया स्वया ।
चिरं तदपिजीविन्या धूर्त्या धात्र्यैव बालकाः ।। ६९
वासनारज्जुवलिता जीर्णाः पर्वतकुक्षिषु ।
जरयन्त्यतिदुःखेन जीवितं जीवजीविकाः ।। ७०
जरठजरदुपोढदुःखभाराः
परिणतिजर्जरजीविताश्च सत्यः ।
हृदयजनितवासनानुवृत्त्या
नरकभरे जनताश्चिरं पतन्ति ।। ७१
श्रीवाल्मीकिरुवाच ।
इत्युक्तवत्यथ मुनौ दिवसो जगाम
सायंतनाय विधयेऽस्तमिनो जगाम ।
स्नातुं सभा कृतनमस्करणा जगाम
श्यामाक्षये रविकरैश्च सहाजगाम ।। ७२
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषूपशमप्रकरणे संसारोपदेशो नामैकसप्ततितमः सर्गः ।। ७१ ।।