सामग्री पर जाएँ

योगवासिष्ठः/प्रकरणम् ५ (उपशमप्रकरणम्)/सर्गः ४१

विकिस्रोतः तः


एकचत्वारिंशः सर्गः ४१

श्रीवसिष्ठ उवाच ।
जगद्रत्नसमुद्गेन त्रैलोक्याद्भुतदर्शिना ।
इत्युक्ते पद्मनाभेन ज्योत्स्नाशीतलया गिरा ।। १
प्रह्लादनामा देहोऽसौ विकाशिनयनाम्बुजः ।
मुदोवाच वचो धीरो गृहीतमननक्रमः ।। २
प्रह्लाद उवाच ।
हिताहितविचारेण राजकार्यशतेन च ।
अत्यहं श्रमितो देव क्षणं विश्रामतां गतः ।। ३
भगवंस्त्वत्प्रसादेन स्थितिः सम्यगथागता ।
समाधावसमाधौ च रूपेणाहं समः सदा ।। ४
चिरमन्तर्महादेव दृष्टोऽस्यमलया धिया ।
पुनर्बहिरयं दृष्ट्या दिष्ट्या देव प्रदृश्यसे ।। ५
अहमासमनन्तायामस्यां दृष्टौ महेश्वर ।
सर्वसंकल्पमुक्तायां व्योम व्योम्नीव निर्मले ।। ६
न शोकेन न मोहेन न च वैराग्यचिन्तया ।
न देहत्यागकार्येण न संसारभयेन च ।। ७
एकस्मिन्विद्यमाने हि कुतः शोकः कुतः क्षतिः ।
कुतो देहः क्व संसारः क्व स्थितिः क्व भयाभये ।। ८
यथेच्छयैवामलया केवलं स्वयमुत्थया ।
एवमेवाहमवसं वितते पावने पदे ।। ९
हा विरक्तोऽस्मि संसारं त्यजामीतीयमीश्वर ।
अप्रबुद्धदृशां चिन्ता हर्षशोकविकारदा ।। १०
देहाभावे न दुःखानि देहे दुःखानि मे मतिः ।
इति चिन्ताविषव्याली मूर्खमेवावलुम्पति ।। ११
इदं सुखमिदं दुःखमिदं नास्तीदमस्ति मे ।
इति दोलायितं चेतो मूढमेव न पण्डितम् ।। १२
अहमन्योऽन्य एवायमित्यज्ञानां तु वासना ।
दूरोदस्तात्मबुद्धीनां जयत्यसुमतामिह ।। १३
इदं त्याज्यमिदं ग्राह्यमिति मिथ्या मनोभ्रमः ।
नोन्मत्ततां नयत्यन्तर्ज्ञमज्ञमिव दुर्धियः ।। १४
सर्वस्मिन्नात्मनि तते त्वयि तामरसेक्षण ।
हेयोपादेयपक्षस्था द्वितीया कलना कुतः ।। १५
विज्ञानाभासमखिलं जगत्सदसदुत्थितम् ।
किं हेयं किमुपादेयमिह यत्त्यज्यते न वा ।। १६
केवलं स्वस्वभावेन द्रष्ट्रदृश्ये विचारयन् ।
क्षणं विश्रान्तवानन्तः परमात्मात्मनात्मनि ।। १७
भावाभावविनिर्मुक्तो हेयोपादेयवर्जितः ।
एवमासमहं पूर्वमधुनेत्थं व्यवस्थितः ।। १८
स मयात्मीयमापन्नं सर्वमात्मात्मतां गतः ।
करोम्यहं महादेव तुभ्यं यत्परिरोचते ।। १९
त्वमयं पुण्डरीकाक्षः पूज्यस्तावज्जगत्त्रये ।
तन्मत्तः प्रकृतिप्राप्तां पूजामादातुमर्हसि ।। २०
इत्युक्त्वा दानवाधीशः पुरः क्षीरोदशायिनः ।
शैलेन्द्र इव पूर्णेन्दुमर्घपात्रमुपाददे ।। २१
सायुधं साप्सरोवृन्दं ससुरं सखगाधिपम् ।
पूजयामास गोविन्दं सत्रैलोक्यमथाग्रगम् ।। २२ ।
सबाह्याभ्यन्तरभ्रान्तभुवनं भुवनेश्वरम् । ।
पूजयित्वाथ तिष्ठन्तमुवाच कमलापतिः ।। २३

 श्रीभगवानुवाच ।
उत्तिष्ठ दानवाधीश सिंहासनमुपाश्रय ।
यावदाश्वभिषेकं ते स्वयमेव ददाम्यहम् ।। २४
पाञ्चजन्यरवं श्रुत्वा य इमे समुपागताः ।
सिद्धाः साध्याः सुरौघास्ते कुर्वन्तु तव मङ्गलम् ।। २५
इत्युक्त्वा पुण्डरीकाक्षो दानवं सिंहविष्टरे ।
योजयामास योग्यं तं मेरुश्रृङ्ग इवाम्बुदम् ।। २६
अथैनं हरिराहूतैः क्षीरोदाद्यैर्महाब्धिभिः ।
गङ्गादिभिः सरित्पूरैः सर्वतीर्थजलैस्तथा ।। २७
सर्वविप्रर्षिसङ्घैश्च सर्वसिद्धगणैः सह ।
पुनर्विद्याधरयुतो लोकपालसमन्वितः ।। २८
अभ्यषिञ्चदमेयात्मा दैत्यराज्ये महासुरम् ।
मरुद्गणैः स्तूयमानं पूर्वं स्वर्गे हरिं यथा ।। २९
सुरासुरैः स्तूयमानं स्तूयमानः सुरासुरैः ।
अभिषिक्तमुवाचेदं प्रह्लादं मधुसूदनः ।। ३०
श्रीभगवानुवाच ।
यावन्मेरुर्धरा यावद्यावच्चन्द्रार्कमण्डले ।
अखण्डितगुणश्लाघी तावद्राजा भवानघ ।। ३१
इष्टानिष्टफलं त्यक्त्वा समदर्शनया धिया ।
वीतरागभयक्रोधो राज्यं समनुपालय ।। ३२
राज्येऽस्मिन्भोगसंपूर्णे दृष्टानुत्तमभूमिना ।
न गन्तव्यस्त्वयोद्वेगः स्वर्गे मानवकेऽथवा ।। ३३
देशकालक्रियाकारैर्यथाप्राप्तासु दृष्टिषु ।
प्रकृतं कार्यमातिष्ठ त्यक्त्वा मानसमास्स्व भो ।। ३४
अतिदेहतयेदंताममतापरिवर्जितम् ।
भावाभावे समं कार्यं कुर्वन्निह न बाध्यसे ।। ३५
दृष्टसंसारपर्यायस्तुलिनातुलतत्पदः ।
सर्वं सर्वत्र जानासि किमन्यदुपदिश्यते ।। ३६
वीतरागभयक्रोधे त्वयि राजनि राजति ।
नेदानीं दुःखदुर्ग्रन्थिर्नासुरान्दलयिष्यति ।। ३७
वाष्पश्रीर्नासुरीकर्णमञ्जरीः प्लावयिष्यति ।
वनराजिमिवोन्मत्ता सरित्तारतरङ्गिणी ।। ३८
अद्यप्रभृत्यसंप्राप्तदानवामरसंगरम् ।
निर्मन्दराम्भोनिधिवज्जगत्स्वस्थमिव स्थितम् ।। ३९
देवासुरकुटुम्बिन्यो भर्तृष्वन्तःपुरेषु च ।
स्वेष्वेव यान्तु विश्वासमपरस्परमाहृताः ।। ४०
भवबहुलनिशानितान्तनिद्रा-
तिमिरमपास्य सदोदिताशयश्रीः ।
दनुसुत वनिताविलासरम्यां
चिरमजितामुपभुङ्क्ष्व राज्यलक्ष्मीम् ।। ४१
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे प्रहादाभिषेको नामैकचत्वारिंशः सर्गः ।। ४१ ।।