योगवासिष्ठः/प्रकरणम् ५ (उपशमप्रकरणम्)/सर्गः ८०

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ७९ योगवासिष्ठः/प्रकरणम् ५ (उपशमप्रकरणम्)
सर्गः ८०
अज्ञातलेखकः
सर्गः ८१ →

अशीतितमः सर्गः ८०
श्रीवसिष्ठ उवाच ।
इदमन्तः कलयतो भोगान्प्रति विवेकिनः ।
पुरःस्थितानपि सदा स्पृहैवाङ्ग न जायते ।। १
चक्षुरालोकनायैव जीवस्तु सुखदुःखयोः ।
भारायैव बलीवर्दो भोक्ता द्रव्यस्य नायकः ।। २
नयने रूपनिर्मग्ने क्षोभः क इव देहिनः ।
गर्दभे पल्वले मग्ने कैव सेनापतेः क्षतिः ।। ३
रूपकर्दममेतन्मानयनास्वादयाधम ।
नश्यत्येतन्निमेषेण भवन्तमपि हिंसति ।। ४
येनैव संख्या क्रियते येनैवाऽस्वाऽनुगम्यते ।
तदीयैः कर्मभिः क्षिप्रं प्राज्ञः क्रूरो निबध्यते ।। ५
उत्पन्नध्वंसि चापातमात्रहृद्यमसन्मयम् ।
रूपमाश्रय मा नेत्र विनाशायाविनाशिने ।। ६
साक्षिवत्त्वं स्थितं नेत्र रूपमात्मनि तिष्ठति ।
आलोकं कालवशतस्त्वमेकं किं प्रतप्यसे ।। ७
सलिलस्पन्दवद्दृष्टिः पिच्छिकेवाम्बरोत्थिता ।
सुजातिबन्धा स्फुरति तव चित्त किमागतम् ।। ८
कल्पाम्भसीव शफरी चित्ते स्फुरणधर्मिणि ।
स्वयं स्फुरत्यहंकारस्त्वमयं प्रोत्थितः कुतः ।। ९
आलोकरूपयोर्नित्यं जडयोः स्फुरतोर्मिथः ।
आधाराधेययोश्चित्तं व्यर्थमाकुलता तव ।। 5.80.१०
रूपालोकमनस्काराः परस्परमसङ्गिनः ।
संपन्ना इव लक्ष्यन्ते वदनादर्शबिम्ववत् ।। ११
अज्ञानजन्तुना ह्येते श्लिष्टा जाता निरन्तराः ।
अज्ञाने ज्ञानगिलिते पृथक्तिष्ठन्त्यसन्मयाः ।। १२
मनःकल्पनया ह्येते सुसंबद्धाः परस्परम् ।
रूपालोकमनस्कारा दारुणी जतुना यथा ।। १३
स्वमनोमननं तन्तुर्मनोभ्यासेन यत्नतः ।
विचाराच्छेदमायाति च्छिन्नैवाज्ञानभावना ।। १४
अज्ञानसंक्षयात्क्षीणे मनसीमे पुनर्मिथः ।
रूपालोकमनस्काराः संघट्टन्ते न केचन ।। १५
सर्वेषां चित्तमेवान्तरिन्द्रियाणां प्रबोधकम् ।
तदेव तस्मादुच्छेद्यं पिशाच इव मन्दिरात् ।। १६
चित्त वल्गसि मिथ्यैव दृष्टोऽन्तो भवतो मया ।
आद्यन्तयोः सुतुच्छं त्वं वर्तमाने विनश्यसि ।। १७
मुधा पञ्चभिराकारैः किमन्तः परिवल्गसि ।
यस्त्वां स्वमिति जानाति तस्यैव परिवल्गसि ।। १८
त्वद्वल्गनं मे कुमनो न मनागपि तुष्टये ।
मायामनःस्पन्द इव व्यर्थं वृत्तिषु दह्यसे ।। १९
तिष्ठ वा गच्छ वा चित्त नासि मे न च जीवसि ।
प्रकृत्यासि मृतं नित्यं विचारात्सुमृतं स्मृतम् ।। 5.80.२०
निस्तत्त्वं त्वं जडं भ्रान्तं शठं नित्यमृताकृते ।
मूढ एव त्वयाज्ञेन बाध्यो न प्रविचारवान् ।। २१
वयमज्ञातवन्तस्त्वां मौर्ख्येणाशु मृतं भवत् ।
मृतमस्माकमद्यासि दीपानां तिमिरं यथा ।। २२
शठेन भवता दीर्घकालं देहगृहं मम ।
उपरुद्धमभूत्सर्व साधुसंसर्गवर्जितम् ।। २३
जडे प्रेतसमाकारे गते त्वयि मनःशठे ।
सर्वसज्जनसंसेव्यमिदं देहगृहं मम ।। २४
पूर्वमेवासि नासीस्त्वं संप्रत्येव शठं जगत् ।
न भविष्यसि चेदानीं वेताल किं न लज्जसे ।। २५
सह तृष्णापिशाचीभिः सह कोपादिगुह्यकैः ।
निर्गच्छ चित्तवेताल शरीरसदनान्मम ।। २६
दिष्ट्या विवेकमात्रेण निर्गतो देहमन्दिरात् ।
प्रमत्तश्चित्तवेतालः कुवृकः कन्दरादिव ।। २७
अहो नु चित्रं सुमहज्जडेन क्षणभङ्गिना ।
मनःशठेन सर्वोऽयं नीतो विवशतां जनः ।। २८
कस्ते पराक्रमः किं ते बलं कस्ते समाश्रयः ।
यदि वल्गसि मामेकं जनानां बाधसे मृतम् ।। २९
सर्वथैवासि न मया दीनचित्तक मार्यसे ।
मृतमित्यवबुद्धं त्वमद्य केवलमज्ञ हे ।। 5.80.३०
एतावन्तमहं कालं त्वां ज्ञात्वा जीवदास्थिति ।
श्लिष्टः प्रभूतसङ्गासु चिरं संसृतिरात्रिषु ।। ३१
चित्तं मृतं हि नास्तीदमित्यद्याधिगतं मया ।
तेन त्वदाशां संत्यज्य तिष्ठाम्यात्मनि केवलम् ।। ३२
दिष्ट्या चित्तं मृतमिति ज्ञातमद्य मया स्वयम् ।
न शठेन समं नेयं समग्रं जीवितं निजम् ।। ३३
उत्सार्य देहसदनान्मनःशठमहं क्षणात् ।
अहं स्वस्थः स्थितोऽस्म्यन्तर्वेतालपरिवर्जितः ।। ३४
चित्तवेताललब्धेन चिरं कालं मयात्मना ।
कृताविकाराविविधाः स्वयं स्मृत्वा हसाम्यहम्।।३५
चिरान्निपातितो दिष्ट्या विचारासिपरार्दितः ।
हृद्गेहाच्चित्तवेतालस्तालोत्तालसमुन्नतिः ।। ३६
प्रशान्ते चित्तवेताले पवित्रां पदवीं गते ।
दिष्ट्या शरीरनगरे सुखं तिष्ठामि केवलम् ।। ३७
मृतं मनो मृता चिन्ता मृतोऽहंकारराक्षसः ।
विचारमन्त्रेण समः स्वस्थस्तिष्ठामि केवलम् ।। ३८
किं मनो मे ममाशा का को मेऽहंकारको भवेत् ।
दिष्ट्या व्यर्थं कलत्रं मे नष्टमेतदशेषतः ।। ३९
एकस्मै कृतकृत्याय नित्याय विमलात्मने ।
निर्विकल्पचिदाख्याय मह्यमेव नमो नमः ।। 5.80.४०
न शोकोऽस्ति न मोहोऽस्ति न चैवाहमहं स्वयम् ।
नच नाहं नचान्योऽहं मह्यमेव नमो नमः ।। ४१
न ममाशा न कर्माणि न संसारो न कर्तृता ।
न भोक्तृता न देहो मे मह्यमेव नमो नमः ।। ४२
नाहमात्मा न वा कोऽन्यो नाहमस्मि न चेतरः ।
सर्वमेवाहमेतस्मै मह्यमेव नमो नमः ।। ४३
अहमादिरहं धाता चिदहं भुवनान्यहम् ।
मम नास्ति व्यवच्छेदो मह्यमेव नमो नमः ।। ४४
निर्विकाराय नित्याय निरंशाय महात्मने ।
सर्वस्मै सर्वकालाय मह्यमेव नमो नमः ।। ४५
नीरूपाय निराख्याय प्रकाशाय महात्मने ।
स्वयमात्मैकसंस्थाय मह्यमेव नमो नमः ।। ४६
समां सर्वगतां सूक्ष्मां जगदेकप्रकाशिनीम् ।
सत्तामुपगतोऽस्म्यन्तर्मह्यमेव नमो नमः ।। ४७
साद्र्यब्ध्युर्वी नदी सेयं नाहमेवाहमेव वा ।
जगत्सर्वं पदार्थाढ्यं मह्यमेव नमो नमः ।। ४८
व्यपगतमननं समाभिरामं
प्रकटितविश्वमविश्वमप्यनन्तम् ।
स्वयमजमजरं गुणादतीतं
वपुरहमच्युतमीश्वरं नमामि ।। ४९

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देव० मोक्षोपायेषूपशमप्रकरणे दृश्यदर्शनसंबन्धो नामाशीतितमः सर्गः ।। ८० ।।