सामग्री पर जाएँ

योगवासिष्ठः/प्रकरणम् ५ (उपशमप्रकरणम्)/सर्गः ५६

विकिस्रोतः तः


षट्पञ्चाशः सर्गः ५६
श्रीवसिष्ठ उवाच ।
क्रमेणानेन विहरन्विचार्यात्मानमात्मना ।
विश्रान्तिमेहि वितते पदे पद्मदलेक्षण ।। १
शास्त्रार्थगुरुचेतोभिस्तावत्तावद्विचार्यते ।
सर्वदृश्यक्षयाभ्यासाद्यावदासाद्यते पदम् ।। २
वैराग्याभ्यासशास्त्रार्थप्रज्ञागुरुमयक्रमैः ।
पदमासाद्यते पुण्यं प्रज्ञयैवैकयाथवा ।। ३
संप्रबोधवती तीक्ष्णा कलङ्करहिता मतिः ।
सर्वसामग्र्यहीनापि पदं प्राप्नोति शाश्वतम् ।। ४
श्रीराम उवाच ।
भगवन्भूतभव्येश कश्चिज्जातसमाधिकः ।
प्रबुद्ध इव विश्रान्तो व्यवहारपरोऽपि सन् ।। ५
कश्चिदेकान्तमाश्रित्य समाधिनियतः स्थितः ।
तयोस्तु कतरः श्रेयानिति मे भगवन्वद ।। ६
श्रीवसिष्ठ उवाच ।
इमं गुणसमाहारमनात्मत्वेन पश्यतः ।
अन्तःशीतलता यासौ समाधिरिति कथ्यते ।। ७
दृश्यैर्मनसि संबन्ध इति निश्चित्य शीतलः ।
कश्चित्संव्यवहारस्थः कश्चिद्ध्याने व्यवस्थितः ।। ८
द्वावेतौ राम सुखितावन्तश्चेत्परिशीतलौ ।
अन्तःशीतलता या स्यात्तदनन्ततपःफलम् ।। ९
समाधिस्थानकस्थस्य चेतश्चेद्वृत्तिचञ्चलम् ।
तत्तस्य तत्समाधानं सममुन्मत्तताण्डवैः ।। १०
उन्मत्तताण्डवस्थस्य चेतश्चेत्क्षीणवासनम् ।
तदस्योन्मत्तवृत्तं तत्समं बुद्धसमाधिना ।। ११
व्यवहारी प्रबुद्धो यः प्रबुद्धो यो वने स्थितः ।
द्वावेतौ सुसमौ नूनमसंदेहं पदं गतौ ।। १२
अकर्तृ कुर्वदप्येतच्चेतः प्रतनुवासनम् ।
दूरं गतमना जन्तुः कथासंश्रवणे यथा ।। १३
अकुर्वदपि कर्तेव चेतः प्रघनवासनम् ।
निस्पन्दाङ्गमपि स्वप्ने श्वभ्रपातस्थिताविव ।। १४
चेतसो यदकर्तृत्वं तत्समाधानमुत्तमम् ।
तं विद्धि केवलीभावं सा शुभा निर्वृतिः परा ।। १५
चेतश्चलाचलत्वेन परम कारणं स्मृतम् ।
ध्यानाध्यानदृशोस्तेन तदेवानङ्कुरं कुरु ।। १६
अवासनं स्थिरं प्रोक्तं मनोध्यानं तदेव तु ।
स एव केवलीभावः शान्ततैव च सा सदा ।। १७
तनुवासनमत्युच्चैः पदायोद्यतमुच्यते ।
अवासनं मनो कर्तृपदं तस्मादवाप्यते ।। १८
घनवासनमेतत्तु चेतः कर्तृत्वभाजनम् ।
सर्वदुःखप्रदं तस्माद्वासनां तनुतां नयेत् ।। १९
प्रशान्तजगदास्थोऽन्तर्वीतशोकभयैषणः ।
स्वस्थो भवति येनात्मा स समाधिरिति स्मृतः ।। २०
चेतसा संपरित्यज्य सर्वभावात्मभावनाम् ।
यथा तिष्ठसि तिष्ठ त्वं तथा शैले गृहेऽथवा ।। २१
गृहमेव गृहस्थानां सुसमाहितचेतसाम् ।
शान्ताहंकृतिदोषाणां विजनावनभूमयः ।। २२
अरण्यसदने तुल्ये समाहितमनोदृशाम् ।
भवतामिह भूतानां भूतानां महतामिव ।। २३
शान्तचित्तमहाभ्रस्य जनज्वालोज्ज्वलान्यपि ।
नगराण्यपि शून्यानि वनान्यवनिपात्मज ।। २४
वृत्तिमच्चित्तमत्तस्य विजनानि वनान्यपि ।
नगराणि महालोकपूर्णानि परवीरहन् ।। २५
व्युत्थितं चित्तमभ्येति भ्रमस्यान्तः सुषुप्तताम् ।
निर्वाणमेति निर्वाणं यथेच्छसि तथा कुरु ।। २६
सर्वभावपदातीतं सर्वभावात्मकं च वा ।
यः पश्यति सदात्मानं स समाहित उच्यते ।। २७
ईहितानीहिते क्षीणे यस्यान्तर्वितताकृतेः ।
सर्वे भावाः समा यस्य स समाहित उच्यते ।। २८
सदात्मना सदेवेदं जगत्पश्यति नो मनः ।
यथा स्वप्ने तथैवास्मिञ्जाग्रत्यपि जनेश्वर ।। २९
यथा विपणिकालोका विहरन्तोऽप्यसत्समाः ।
असंबन्धात्तथा ज्ञस्य ग्रामोपि विपिनोपमः ।। ३०
अन्तर्मुखमना नित्यं सुप्तो बुद्धो व्रजन्नपि ।
पुरं जनपदं ग्राममरण्यमिव पश्यति ।। ३१
सर्वमाकाशतामेति नित्यमन्तर्मुखस्थितेः ।
सर्वथानुपयोग्यत्वाद्भूताकुलमिदं जगत् ।। ३२
अन्तःशीतलतायां तु लब्धायां शीतलं जगत् ।
विज्वराणामिव नृणां भवत्याजीवितस्थितेः ।। ३३
अन्तस्तृष्णोपतप्तानां दावदाहमयं जगत् ।
भवत्यखिलजन्तूनां यदन्तस्तद्वहिः स्थितम् ।। ३४
द्यौः क्षमा वायुराकाशं पर्वताः सरितो दिशः ।
अन्तःकरणतत्त्वस्य भागा बहिरिव स्थिताः ।। ३५
वटधाना वट इव यदन्तःस्थं सदात्मनः ।
तद्बहिर्भासते भास्वद्विकासे पुष्पगन्धवत् ।। ३६
न बहिष्ठं न चान्तःस्थं क्वचित्किंचन विद्यते ।
यद्यथा कचितं चित्त्वात्तत्तथा तत्त्वमुत्थितम् ।। ३७
आत्मतत्त्वान्तरं भाति बहिष्ट्वेन जगत्तया ।
कर्पूरमिव गन्धेन संकोचे प्रविकासि च ।। ३८
आत्मैव स्फुरति स्फारं जगत्त्वेनाप्यहंतया ।
बाह्यत्वेनान्तरत्वेन स च नासन्न सन्विभुः ।। ३९
बहिष्ठेनान्तरं बाह्यमन्तःस्थेनान्तरस्थितम् ।
यथाविदितमात्मायं स्वचित्तमनुपश्यति ।। ४०
सबाह्याभ्यन्तरं शान्तमात्मनो भेदितं जगत् ।
अहन्त्वादिस्थिते भेदे भूरिभङ्गभयं तु तत् ।। ४१
द्यौः क्षमा वायुराकाशं पर्वताः सरितो दिशः ।
कल्पादिरेव ज्वलितं सर्वमाधिहतात्मनः ।। ४२
यस्त्वात्मरतिरेवान्तः कुर्वन्कर्मेन्द्रियैः क्रियाः ।
न वशो हर्षशोकाभ्यां स समाहित उच्यते ।। ४३
यः सर्वगतमात्मानं पश्यन्समुपशान्तधीः ।
न शोचति ध्यायति वा स समाहित उच्यते ।। ४४
स पूर्वापरपर्यन्तां यः पश्यञ्जागतीं गतिम् ।
दृष्टिष्वेतासु हसति स समाहित उच्यते ।। ४५
समे परेऽपि नाहंता न जगज्जन्मनो मयि ।
वीचिवृन्देष्विवातप्ता नाकाशे फलधातवः ।। ४६
यस्यान्तरस्थिताहन्त्वं न विभागादि नो मनः ।
न चेतनाचेतनत्वे सोऽस्ति नास्तीतरो जनः ।। ४७
व्योमस्वच्छो बहिष्ठेहां सम्यगाचरतीह यः ।
हर्षामर्षविकारेषु काष्ठलोष्टसमः शमः ।। ४८
आत्मवत्सर्वभूतानि परद्रव्याणि लोष्टवत् ।
स्वभावादेव न भयाद्यः पश्यति स पश्यति ।। ४९
अर्थोऽतनुस्तनुर्वापि नासद्रूपेण चेत्यते ।
सद्रूपो नानुभूतोऽज्ञे न ज्ञेनैव न तत्तया ।। ५०
ईदृशाशयसंपन्नो महासत्त्वपदं गतः ।
तिष्ठतूदेतु वा यातु मृतिमेतु न तत्स्थितिम् ।। ५१
वसतूत्तमभोगाढ्ये स्वगृहे वा जनाकुले ।
सर्वभोगोज्झिताभोगे सुमहत्यथवा वने ।। ५२
उद्दाममन्मथं पानतत्परो वापि नृत्यतु ।
सर्वसङ्गपरित्यागी सममायातु वा गिरौ ।। ५३
चन्दनागुरुकर्पूरैर्वपुर्वा परिलिम्पतु ।
ज्वालाजटिलविस्तारे निपतत्वथवाऽनले ।। ५४
पापं करोतु सुमहद्बहुलं पुण्यमेव च ।
अद्य वा मृतिमायातु कल्पान्तनिचयेन वा ।। ५५
नासौ किंचिन्न तत्किंचित्कृतं तेन महात्मना ।
नासौ कलङ्कमाप्नोति हेम पङ्कगतं यथा ।। ५६
संवित्पुरुषशब्दार्थैः स कलङ्कैः कलंक्यते ।
अहंत्वंवासनारूपैः शुक्तिकारजतोपमैः ।। ५७
समस्तवस्तुप्रशमात्सम्यग्ज्ञानाद्यथास्थितेः ।
स्वभावस्योपशान्तोन्तःकलङ्कोऽसत्तया स्वतः ।। ५८
अहंत्ववासनानर्थप्रसूतेः संविदात्मनः ।
पुरुषस्य विचित्राणि सुखदुःखानि जन्मनि ।। ५९
रज्ज्वां सर्पभ्रमे शान्तेऽहिर्नेति निर्वृतिर्यथा ।
अहंत्वभावसंशान्तौ तथान्तः समता मता ।। ६०
यत्करोति यदश्नाति यद्ददाति जुहोति वा ।
न तज्ज्ञस्य न तत्र ज्ञो मा करोतु करोतु वा ।। ६१
कर्मणास्ति न तस्यार्थो नार्थस्तस्यास्त्यकर्मणा ।
यथास्वभावावगमात्स आत्मन्येव संस्थितः ।। ६२
इच्छास्ततः समुद्यन्ति न मञ्जर्य इवोपलात् ।
याश्चोद्यन्ति च ताः सर्वाः स एवाप्स्विव वीचयः ।।
सकलमिदमसावसौ च सर्वं
जगदखिलं न विभागितात्र काचित् ।
परमपुरुषपावनैकरूपी
स सदिति तत्सदकिंचिदेव नासौ ।। ६४

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे ध्यानविचारो नाम षट्पञ्चाशः सर्गः ।। ५६ ।।