योगवासिष्ठः/प्रकरणम् ५ (उपशमप्रकरणम्)/सर्गः ०७

विकिस्रोतः तः


सप्तमः सर्गः ७

श्रीवसिष्ठ उवाच ।
एष तावत्क्रमः प्रोक्तः सामान्यः सर्वदेहिनाम् ।
इममन्यं विशेषं त्वं श्रृणु राजीवलोचन ।। १
अस्मिन्संसारसंरम्भे जातानां देहधारिणाम् ।
अपवर्गक्षमौ राम द्वाविमावुत्तमौ क्रमौ ।। २
एकस्तावद्गुरुप्रोक्तादनुष्ठानाच्छनैः शनैः ।
जन्मना जन्मभिर्वापि सिद्धिदः समुदाहृतः ।। ३
द्वितीयस्त्वात्मनैवाशु किंचिद्व्युत्पन्नचेतसा ।
भवति ज्ञानसंप्राप्तिराकाशफलपातवत् ।। ४
नभःफलनिपाताभज्ञानसंप्रतिपत्तये ।
तत्रेमं श्रृणु वृत्तान्तं प्राक्तनं कथयामि ते ।। ५
श्रृणु सुभग कथां महानुभावा
व्यपगतपूर्वशुभाशुभार्गलौघाः ।
खपतितफलवत्परं विवेकं
चरमभवा विमलं समश्नुवन्ति ।। ६
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० मोक्षोपायेषूपशमप्रकरणे आकाशफलप्राप्तिवज्ज्ञानसंप्राप्तिक्रमसूचनं नाम सप्तमः सर्गः ।। ७ ।।