योगवासिष्ठः/प्रकरणम् ५ (उपशमप्रकरणम्)/सर्गः ३७
सप्तत्रिंशः सर्गः ३७
श्रीवसिष्ठ उवाच ।
इति संचिन्तयन्नेव प्रह्लादः परवीरहा ।
निर्विकल्पपरानन्दसमाधिं समुपाययौ ।। १
निर्विकल्पसमाधिस्थश्चित्रार्पित इवाचलः ।
शैलादिव समुत्कीर्णो बभौ स्वपदमास्थितः ।। २
तथानुतिष्ठतस्तस्य कालो बहुतरो ययौ ।
स्वगृहे भुवनस्थस्य मेरोरिव सुरद्विषः ।। ३
बोधितोऽप्यसुराधीशैर्नाबुध्यत महामतिः ।
अकाले बहुसेकोऽपि बीजकोशादिवाङ्कुरः ।। ४ ।
एवं वर्षसहस्राणि पीनात्माऽतिष्ठदेकदृक् ।
शान्त एवासुरपुरे मार्तण्ड इव चोपले ।। ५
परानन्ददशैकान्तपरिणामितया तया ।
निरानन्दं पराभासमिवाभासपदं गतः ।। ६
एतावताथ कालेन तद्रसातलमण्डलम् ।
बभूवाराजकं तीक्ष्णं मात्स्यन्यायकदर्थितम् ।। ७
हिरण्यकशिपौ क्षीणे समाधौ तत्सुते स्थिते ।
न बभूवापरः कश्चिद्राजा दनुसुतालये ।। ८
असुरेशार्थिनां तेषां दानवानां समाधितः ।
परेणापि प्रयत्नेन प्रह्लादो न व्यबुध्यत ।। ९
न प्रापुर्विकसद्रूपं पतिं तममरारयः ।
लसत्पत्रलताजालं निशि पद्ममिवालयः ।। १०
संविद्वादो न तस्यान्तरबोध्यत विचेतसः ।
भुवश्चेष्टाक्रम इव पौरुषो गतभास्वतः ।। ११
अथोद्विग्नेषु दैत्येषु गतेष्वभिमतां दिशम् ।
विचरत्सु यथाकाममराजनि पुरे पुरा ।। १२
चिराय पातालमभूदभूपालतया तया ।
मात्स्यन्यायविपर्यस्तमस्तंगतगुणक्रमम् ।। १३
बलिमुक्ताबलपुरं मर्यादाक्रमवर्जितम् ।
सर्वार्ताशेषवनितं परस्परहृताम्बरम् ।। १४
प्रलापाक्रन्दपुरुषं विसंस्थानपुरान्तरम् ।
लुठदुद्याननगरं व्यर्थानर्थकदर्थितम्।। १५
चिन्तापरासुरगणं निरन्नफलबान्धवम् ।
अकाण्डोत्पातविवशं ध्वस्ताशामुखमण्डलम् ।। १९
सुरार्भकपराभूतं भूतैराक्रान्तमन्त्यजैः ।
भूतरिक्तमलक्ष्मीकमुच्छिन्नप्रायकोटरम् ।। १७
अनियतवनितार्थमन्त्रयुद्धं
हृतधनदारविरावितं समन्तात् ।
कलियुगसमयोद्भटोत्कटाभं
तदसुरमण्डलमाकुलं बभूव ।। १८
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे असुरमण्डलव्याकुलीभवनं नाम सप्तत्रिंशः सर्गः ।। ३७ ।।