योगवासिष्ठः/प्रकरणम् ५ (उपशमप्रकरणम्)/सर्गः ५५

विकिस्रोतः तः
← सर्गः ५४ योगवासिष्ठः/प्रकरणम् ५ (उपशमप्रकरणम्)
सर्गः ५५
अज्ञातलेखकः
सर्गः ५६ →

श्रीराम उवाच ।
आत्मज्ञानदिनैकार्क मत्संशयतृणानल ।
अज्ञानदाहशीतांशो सत्तासामान्यमीश किम् ।। १
श्रीवसिष्ठ उवाच ।
यदा संक्षीयते चित्तमभावात्यन्तभावनात् ।
चित्सामान्यस्वरूपस्य सत्तासामान्यता तदा ।। २
नूनं चेत्यांशरहिता चिद्यदात्मनि लीयते ।
असद्रूपवदत्यच्छा सत्तासामान्यता तदा ।। ३
यदा सर्वमिदं किंचित्सबाह्याभ्यन्तरात्मकम् ।
अपलप्य वसेच्चेतः सत्तासामान्यता तदा ।। ४
यदा सर्वाणि दृश्यानि सत्तासामान्यवेदनम् ।
स्वरूपेण स्वरूपाभं सत्तासामान्यता तदा ।। ५५
कूर्मोऽङ्गानीव दृश्यानि लीयन्ते स्वात्मनात्मनि ।
अभावितान्येव यदा सत्तासामान्यता तदा ।। ५
दृष्टिरेषा हि परमा सदेहादेहयोः सदा ।
मुक्तयोः संभवत्येव तुर्यातीतपदोपमा ।। ७
व्युत्थितस्य भवत्येषा समाधिस्थस्य चानघ ।
ज्ञस्य केवलमज्ञस्य न भवत्येव बोधजा ।। ८
अस्यां दृशि स्थिताः सर्वे जीवन्मुक्ता महाशयाः ।
सिद्धा रसा इव भुवि व्योमवीथ्यामिवानिलाः ।। ९
अस्मत्प्रभृतयः सर्वे नारदाद्याश्च राघव ।
ब्रह्मविष्ण्वीश्वराद्याश्च दृष्टावस्यां व्यवस्थिताः ।। १०
एतामालम्ब्य पदवीं समस्तभयनाशिनीम् ।
उद्दालकोऽसाववसद्यावदिच्छं जगद्गृहे ।। ११
अथ कालेन बहुना बुद्धिस्तस्य बभूव ह ।
विदेहमुक्तस्तिष्ठामि देहं त्यक्त्वेति निश्चला ।। १२
एवं चिन्तितवानद्रेर्गुहायां पल्लवासने ।
बद्धपद्मासनस्तस्थावर्धोन्मीलितलोचनः ।। १३
संयम्य गुदसंरोधाद्द्वाराणि नव चेतसः ।
मात्रास्पर्शान्विचिन्वानो भावितस्वाङ्गचिद्धनः ।। १४
संरुद्धप्राणपवनः समसंस्थानकन्धरः ।
तालुमूलतलालग्नजिह्वामूलो लसन्मुखः ।। १५
न बहिर्नान्तरे नाधो नोर्ध्वे नार्थे न शून्यके ।
संयोजितमनोदृष्टिर्दन्तैर्दन्तानसंस्पृशन् ।। १६
प्राणप्रवाहसंरोधसमः स्वच्छाननच्छविः ।
अङ्ग चित्संविदुत्तानरोमकण्टकिताङ्गभूः ।। १७
अङ्गचित्संविदाभ्यासाच्चित्सामान्यमुपाददे ।
तदभ्यासादवापान्तरानन्दस्पन्दमुत्तमम् ।। १८
तदास्वादनतो लीनचित्सामान्यदशाक्रमम् ।
विश्वंभरमनन्तात्म सत्तासामान्यमाययौ ।। १९
तस्थौ समसमाभोगः परां विश्रान्तिमागतः ।
अनानन्दसमानन्दमुग्धमुग्धमुखद्युतिः ।। २०
संशान्तानन्दपुलकः पदं प्राप्यामलं गतः ।
चिरकालपरिक्षीणमननादिभवभ्रमः ।। २१
बभूव स महासत्त्वो लिपिकर्मार्पितोपमः ।
समः कलावपूर्णेन शरदच्छाम्बरेन्दुना ।। २२
उपशशाम शनैर्दिवसैरसौ
कतिपयैः स्वपदे विमलात्मनि ।
तरुरसः शरदन्त इवामले
रविकरौजसि जन्मदशातिगः ।। २३
गतसकलविकल्पो निर्विकारोऽभिरामः
सकलमलविलासोपाधिनिर्मुक्तमूर्तिः ।
विगलितसुखमाद्यं तत्सुखं प्राप यस्मिं-
स्तृणमिव जलराशावूह्यते शक्रलक्ष्मीः ।।२४
अपरिमितनभोन्तर्व्यापिदिग्व्यापि पूर्णं
भुवनभरणशीलं भूरिभव्योपसेव्यम् ।
कथनगुणमतीतं सत्यमानन्दमाद्यं
परमसुखमनन्तं ब्राह्मणोऽसौ बभूव ।। २५
गतवति पदमाद्यं चेतसि स्वच्छभावं
द्विजतनुरथ मासैः सोपविष्टैव षड्भिः ।
रविकरपरितप्ता वातभांकाररम्या
तनुतरुभुजतन्त्री शैलवीणा बभूव ।। २६
अथ बहुतरकालेनैतदद्रेर्भुवं ता-
मुपययुरगकन्याऽसंयुता मातरः खात् ।
अभिमतफलसिद्ध्यौ संयुता एव सर्वा
अनलमिव शिखानां पङ्क्तयः पिङ्गकेश्यः २७
दिनकरकरशुष्कं विप्रकंकालकं त
ज्झटिति मुकुटकोटौ खड्गखट्वाङ्गमध्ये ।
सकलविबुधवन्द्या खिंखिनी देवदेवी
निशि नवतरवृत्ताकान्तकान्तिं चकार।।२८
इत्युद्दालकदेहकं सुविलसन्मायूरबर्हव्रज-
व्यालोलाब्दलवे नवैर्विवलिते मन्दारमालागणैः ।
शेते खिंखिनिका महाभगवती लीलाललामे लता-
जाले भृङ्ग इवान्तपुष्पपटले पश्चादुपागच्छति ।। २९
एषोद्दालकचित्तवृत्तिकलनावल्ली विवेकस्फुर-
त्स्वानन्दप्रविकासभासिकुसुमा हृत्कानने विस्तृता ।।
रूढा यस्य कदाचिदेव विहरन्नप्येव सच्छायया
नासावेति वियोगमेति सफलेनोच्चैस्तरां संगमम् ३०

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते भो० उपशमप्रकरणे उद्दालकनिर्वाणं नाम पञ्चपञ्चाशः सर्गः ।। ५५ ।।