योगवासिष्ठः/प्रकरणम् ५ (उपशमप्रकरणम्)/सर्गः ६२

विकिस्रोतः तः
← सर्गः ६१ योगवासिष्ठः/प्रकरणम् ५ (उपशमप्रकरणम्)
सर्गः ६२
अज्ञातलेखकः
सर्गः ६३ →

श्रीवसिष्ठ उवाच ।
अथैवंप्रायया तत्र विश्रम्भकथया चिरम् ।
प्राक्तनस्नेहगर्भिण्या स्थित्वोवाचायुधाभिधः ।। २
परिघ उवाच ।
यद्यत्संसारजालेऽस्मिन्क्रियते कर्म भूमिप ।
तत्समाहितचित्तस्य सुखायान्यस्य नानघ ।। २
कच्चित्संकल्परहितं परं विश्रमणास्पदम् ।
परमोपशमं श्रेयः समाधिमनुतिष्ठसि ।। ३
सुरघुरुवाच ।
एतन्मे ब्रूहि भगवन्सर्वसंकल्पवर्जितम् ।
परमोपशमं श्रेयः समाधिर्हि किमुच्यते ।। ४
यो ज्ञो महात्मन्सततं तिष्ठन्त्यवहरंश्च वा ।
असमाहितचित्तोऽसौ कदा भवति कः किल ।। ५
नित्यं प्रबुद्धचित्तास्तु कुर्वन्तोऽपि जगत्क्रियाः ।
आत्मैकतत्त्वसंनिष्ठाः सदैव सुसमाधयः ।। ६
बद्धपद्मासनस्यापि कृतब्रह्माञ्जलेरपि ।
अविश्रान्तस्वभावस्य कः समाधिः कथं च वा ।। ७
तत्त्वावबोधो भगवन्सर्वाशातृणपावकः ।
प्रोक्तः समाधिशब्देन नतु तूष्णीमवस्थितिः ।। ८
समाहिता नित्यतृप्ता यथाभूतार्थदर्शिनी ।
साधो समाधिशब्देन परा प्रज्ञोच्यते बुधैः ।। ९
अक्षुब्धा निरहंकारा द्वन्द्वेष्वननुपातिनी । '
प्रोक्ता समाधिशब्देन मेरोः स्थिरतराकृतिः ।। १०
निश्चिन्ताधिगताभीष्टा हेयोपादेयवर्जिता ।
प्रोक्ता समाधिशब्देन परिपूर्णा मनोगतिः ।। ११
यतःप्रभृति बोधेन युक्तमात्यन्तिकं मनः ।
तदारभ्य समाधानमव्युच्छिन्नं महात्मनः ।। १२
नहि प्रबुद्धमनसो भूत्वा विच्छिद्यते पुनः ।
समाधिर्दूरमाकृष्टो बिसतन्तुः शिशोरिव ।। १३
समग्रं दिनमालोकाद्विरमत्यक्षयो यथा ।
आजीवितान्तं नो प्रज्ञा तथा तत्त्वावलोकनात् ।। १४
अजस्रमम्बुवहनाद्यथा नद्या न रुद्ध्यते ।
तथा विज्ञानदृग्बोधात्क्षणमात्रं न रुद्ध्यते ।। १५
न विस्मरत्यविरतं यथा कालः कलागतिम् ।
न विस्मरत्यविरतं स्वात्मानं प्राज्ञधीस्तथा ।। १६
न विस्मरति सर्वत्र यथा सततगो गतिम् ।
न विस्मरति निश्चेयं चिन्मात्रं प्राज्ञ धीस्तथा ।। १७
गतिं कालकला यद्वच्चिन्वाना समवस्थिता ।
चिच्चितिश्चेत्यरहिता चिन्वाना गतयस्तथा ।। १८
यथा सत्ताविहीनात्मा पदार्थो नोपलभ्यते ।
तथात्मज्ञानहीनात्मा कालो ज्ञस्य न लभ्यते ।। १९
न संभवति संसारे गुणहीनो गुणी यथा ।
न संभवत्यात्मसंविद्वर्जितो ह्यात्मवांस्तथा ।। २०
सर्वदैवास्मि संबुद्धः सर्वदैवास्मि निर्मलः ।
सर्वदैवास्मि शान्तात्मा सर्वदास्मि समाहितः ।। २१
भेदः केन समाधेर्मे जन्यते कथमेव वा ।
आत्मनोऽव्यतिरेकेण नित्यमेव सदात्मता ।। २२
तस्मात्कदाचिदपि मे नासमाधिमयं मनः ।
न वा समाहितं नित्यमात्मतत्त्वैकसंभवात् ।। २३
सर्वगः सर्वदैवात्मा सर्वमेव च सर्वथा ।
असमाधिर्हि कोऽसौ स्यात्समाधिरपि कः स्मृतः २४
नित्यं समाहितधियः सुसमा महान्तस्तिष्ठन्ति कार्यपरिणामविभागमुक्ताः ।
तेनासमाहितसमाहितभेदभङ्ग्या नित्योदितः क्व नु स उत्तमवाक्प्रपञ्चः २५
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे समाधिनिश्चयो नाम द्विषष्टितमः सर्गः ।। ६२ ।।