योगवासिष्ठः/प्रकरणम् ५ (उपशमप्रकरणम्)/सर्गः ६३
त्रिषष्टितमः सर्गः ६३
परिघ उवाच ।
राजन्नूनं प्रबुद्धोऽसि प्राप्तवानसि तत्पदम् ।
संशीतलान्तःकरणः पूर्णेन्दुरिव राजसे ।। १
आनन्दमधुसंपूर्णो लक्ष्म्या च परया श्रितः ।
शीतलः स्निग्धमधुरो राजीवमिव राजसे ।। २
निर्मलो विततः पूर्णो गम्भीरः प्रकटाशयः ।
वेलानिलविलासेन मुक्तोऽब्धिरिव राजसे ।। ३
स्वच्छ आनन्दसंपूर्णो नष्टाहंकारवारिदः ।
स्फुटो विस्तीर्णगम्भीरः शरत्खमिव राजसे ।। ४
सर्वत्र लक्ष्यसे स्वस्थः सर्वत्र परितुष्यसि ।
सर्वत्र वीतरागोऽसि राजन्सर्वत्र राजसे ।। ५
सारासारपरिच्छेदपारगस्त्वं महाधिया ।
जानासि सर्वमेवेदं यथास्थितमखण्डितम् ।। ६
भावाभावपरिच्छेदतत्त्वज्ञमुदिताशयम् ।
गमागमदशालौल्यमुक्तं तव वपुः स्थितम् ।। ७
वस्तुनाऽवस्तुनेवान्तरमृतेनेव सागरः ।
अपुनःप्रक्षयायेव परे तृप्तोऽसि सुन्दर ।। ८
सुरघुरुवाच ।
न तदस्ति मुने वस्तु यत्रोपादेयतास्ति नः ।
यावत्किंचिदिदं दृश्यं तावदेतन्न किंचन ।। ९
उपादेयस्य चाभावाद्धेयमप्यस्ति किं किल ।
प्रतियोगि व्यवच्छेद्यं विना हेयं किमुच्यते ।। १०
तुच्छत्वात्सर्वभावानामतुच्छत्वाच्च कालतः ।
चिरं मम परिक्षीणे तुच्छातुच्छे मनःस्थिती ।। ११
देशकालवशादेव तुच्छस्यातुच्छतामिह ।
अतुच्छस्य तु तुच्छत्वं वर्ज्ये निन्दास्तुती बुधैः ।। १२
रागान्निन्दास्तुती लोके रागश्च परिवाञ्छितम् ।
वाञ्छिते च महोदारं वस्तु शोभनबुद्धिना ।। १३
त्रैलोक्ये च स्त्रियः शैलाः समुद्रवनराजयः ।
भूतानि वस्तुशून्यानि सारो नास्त्यत्र वस्तुतः ।। १४
मांसास्थिदारुमृद्रत्नमये जगति जर्जरे ।
वाञ्छनीयविहीनेऽस्मिञ्शून्ये किमिव वाञ्छ्यते ।। १५
वाञ्छायां विनिवृत्तायां संक्षयो द्वेषरागयोः ।
दिनलक्ष्म्यां व्यपेतायामालोकातपयोरिव ।। १६
अलमतिविततैर्वचःप्रपञ्चै-
रियमुचितेह सुखाय दृष्टिरेका ।
उपशमितरसं समं मनोऽन्त-
र्यदि मुदितं तदनुत्तमा प्रतिष्ठा ।। १७
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते मो. उपशमप्रकरणे सुरघुपरिघनिश्चयो नाम त्रिषष्टितमः सर्गः ।। ६३ ।।