योगवासिष्ठः/प्रकरणम् ५ (उपशमप्रकरणम्)/सर्गः १५
पञ्चदशः सर्गः १५
श्रीवसिष्ठ उवाच ।
एतामनुसरन्राम चित्तसत्तामपावनीम् ।
संसारबीजकणिकां जीवबन्धनवागुराम् ।। १
आत्मा त्यक्तात्मरूपाभो मलिनामाप तद्दृशम् ।
चित्तं समनुसंधत्ते धत्ते च कलनामलम् ।। २
वर्धमानमहामोहदायिनी भयकारिणी ।
तृष्णा विषलतारूपा मूर्च्छामेव प्रयच्छति ।। ३
यदा यदोदेति तदा महामोहप्रदायिनी ।
तृष्णा कृष्णानिशेवेयमनन्तात्मविकारिणी ।। ४
कल्पानलशिखादाहं सोढुं शक्ता हरादयः ।
तृष्णानलशिखादाहं सोढुं शक्ता न केचन ।। ५
तीक्ष्णा कृष्णा सुदीर्घा च वहत्यङ्गं सदा निजम् ।
शीतलैवासुखोदर्का घोरा तृष्णाकृपाणिका ।। ६
यान्येतानि दुरन्तानि दुर्जराण्युन्नतानि च ।
तृष्णावल्ल्याः फलानीह तानि दुःखानि राघव ।। ७
अदृश्यैवात्ति मांसास्थिरुधिरादि शरीरकात् ।
मनोबिलविलीनैषा तृष्णावनशुनी नृणाम् ।। ८
क्षणमुल्लासमायाति क्षणमायाति शून्यताम् ।
जडा विदलयत्याशु तृष्णाप्रावृट्तरङ्गिणी ।। ९
दृष्टदैन्यो हतस्वान्तो हतौजा याति नीचताम् ।
मुह्यते रौति पतति तृष्णयाभिहतो जनः ।। १०
न स्थिता कोटरे यस्य तृष्णाकृष्णभुजङ्गमो ।
तस्य प्राणानिलाः स्वस्थाः पुंसो हृदयरन्ध्रगाः ।। ११
नूनमस्तंगतो यत्र तृष्णाकृष्णनिशाक्रमः ।
पुण्यानि तत्र वर्धन्ते शुक्लपक्ष इवेन्दवः ।। १२
यो न तृष्णाघुणावल्ल्या क्षतः पुरुषपादपः ।
पुण्यप्रसूनैः स सदा दशां याति विकासिनीम् ।।१३
अनन्ताकुलकल्लोला विवर्तावर्तसंकुला ।
प्रवहत्याशयारण्ये तृष्णान्धानां नदी नृणाम् ।। १४
तृष्णयेमे जनाः सर्वे सूत्रयन्त्रपतत्रिवत् ।
भ्राम्यन्ते प्रविशीर्यन्ते संह्रियन्ते च भूरिशः ।। १५
मूलान्यपि सुसूक्ष्माणि कठिनाशयकर्कशा ।
तृष्णा परशुधारेव वल्गन्ति विनिकृन्तति ।। १६
निपतत्यवटे मूढस्तृष्णामनुसरज्जनः ।
नीलामनुपतञ्छ्वभ्रतृणशाखां यथैणकः ।। १७
नोन्मत्तापि जरा चक्षुस्तथा जरयति क्षणात् ।
यथा जरयति क्षामा तृष्णा हृदयरूपिका ।। १८
तृष्णयाशयकौशिक्या हृद्यमङ्गलभूतया । ।
रूढया भगवानेष विष्णुर्वामनतां गतः ।। १९
कयाचिदेव दैविक्या हृदि ग्रथितयानया ।
तृष्णया भ्राम्यते व्योम्नि रज्ज्वेवार्कोऽन्वहं किल ।। २०
सर्वदुःखमयाकारां जगतीजीवनच्छिदम् ।
तृष्णां परिहरेत्क्रूरामुरगीमिव दूरगः ।। २१
तृष्णया वायवो वान्ति शैलास्तिष्ठन्ति तृष्णया ।
तृष्णयैव धरा धात्री त्रैलोक्यं तृष्णया धृतम् ।। २२
सर्वैव लोकयात्रेयं प्रोता तृष्णावरत्रया ।
रज्जुबन्धाद्विमुच्यन्ते तृष्णाबन्धान्न केचन ।। २३
तस्माद्राघव तृष्णां त्वं त्यज संकल्पवर्जनात् ।
मनस्त्वकल्पनं नास्ति निर्णीतमिति युक्तितः ।। २४
अयं त्वमहमित्येव प्रथमं तावदाशये ।
मां दुराशां महाबाहो संकल्पय तमोमयीम् ।। २५
एतां दुःखप्रसविनीमनात्मन्यात्मभावनाम् ।
न भावयसि चेद्राम तदा तज्ज्ञेषु गण्यसे ।। २६
एतामहंभावमयीमपुण्यां
छित्त्वानहंभावशलाकयैव ।
स्वभावनां भव्य भवान्तभूमौ
भवाभिभूताखिलभूतभीतिः ।। २७
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषूपशमप्रकरणे तृष्णावर्णनं नाम पञ्चदशः सर्गः ।। १५ ।।