योगवासिष्ठः/प्रकरणम् ५ (उपशमप्रकरणम्)/सर्गः ४३
त्रिचत्वारिंशः सर्गः ४३
श्रीराम उवाच ।
भगवन्सर्वधर्मज्ञ शुद्धैस्त्वद्वचनांशुभिः ।
निर्वृताः स्म शशाङ्कस्य करैरोषधयो यथा ।। १
कर्णाभिवाञ्छ्यमानानि पवित्राणि मृदूनि च ।
सुखयन्ति गृहीतानि पुष्पाणीव वचांसि ते ।। २
पौरुषेण प्रयत्नेन सर्वमासाद्यते यदि ।
प्रह्लादस्तत्कथं बुद्धो न माधववरं विना ।। ३
श्रीवसिष्ठ उवाच ।
यद्यद्राघव संप्राप्तं प्रह्लादेन महात्मना ।
तत्तदासादितं तेन पौरुषादेव नान्यतः ।। ४
आत्मा नारायणश्चैव न भिन्नस्तिलतैलवत् ।
तथैव शौक्ल्यपटवत्कुसुमामोदवत्तथा ।। ५
यो हि विष्णुः स एवात्मा यो ह्यात्मासौ जनार्दनः ।
विष्ण्वात्मशब्दौ पर्यायौ यथा विटपिपादपौ ।। ६
प्रह्लादनामा प्रथममात्मैव स्वयमात्मना ।
स्वयैव परया शक्त्या विष्णुभक्तौ नियोजितः ।। ७
प्रह्लादो ह्यात्मनैवैनं वरमर्जितवान्स्वयम् ।
स्वत्रं विचारगं कृत्वा स्वयं विदितवान्मनः ।। ८
कदाचिदात्मनैवात्मा स्वयं शक्त्या प्रबुध्यते ।
कदाचिद्विष्णुदेहेन भक्तिलभ्येन बोध्यते ।। ९
चिरमाराधितोऽप्येष परमप्रीतिमानपि ।
नाविचारवतो ज्ञानं दातुं शक्नोति माधवः ।। १०
मुख्यः पुरुषयत्नोत्थो विचारः स्वात्मदर्शने ।
गौणो वरादिको हेतुर्मुख्यहेतुपरो भव ।। ११
पूर्वमेव बलात्तस्मादाक्रम्येन्द्रियपञ्चकम् ।
अभ्यसन्सर्वयत्नेन चित्तं कुरु विचारवत् ।। १२
यद्यदासाद्यते किंचित्केनचित्क्वचिदेव हि ।
स्वशक्तिसंप्रवृत्त्या तल्लभ्यते नान्यतः क्वचित् ।। १३
पौरुषं यत्नमाश्रित्य प्रोल्लङ्घ्येन्द्रियपर्वतम् ।
संसारजलधिं तीर्त्वा पारं गच्छ परं पदम् ।। १४
विना पुरुषयत्नेन दृश्यते चेज्जनार्दनः ।
मृगपक्षिगणं कस्मात्तदासौ नोद्धरत्यजः ।। १५
गुरुश्चेदुद्धरत्यज्ञमात्मीयात्पौरुषादृते ।
उष्ट्रं दान्तं बलीवर्दं तत्कस्मान्नोद्धरत्यसौ ।। १५
न हरेर्न गुरोर्नार्थात्किंचिदासाद्यते महत् ।
आक्रान्तमनसः स्वस्माद्यदासादितमात्मनः ।। १७
अभ्यासवैराग्ययुतादाक्रान्तेन्द्रियपन्नगात् ।
नात्मनः प्राप्यते यत्तत्प्राप्यते न जगत्त्रयात् ।। १८
आराधयात्मनात्मानमात्मनात्मानमर्चय ।
आत्मनात्मानमालोक्य संतिष्ठस्वात्मनात्मनि ।। १९
शास्त्रयत्नविचारेभ्यो मूर्खाणां प्रपलायिनाम् ।
कल्पिता वैष्णवी भक्तिः प्रवृत्त्यर्थं शुभस्थितौ ।। २०
अभ्यासयत्नौ प्रथमं मुख्यो विधिरुदाहृतः ।
तदभावे तु गौणः स्यात्पूज्यपूजामयक्रमः ।। २१
अस्ति चेदिन्द्रियाक्रान्तिः किं प्राप्यं पूजनैः फलम् ।
नास्तिचेदिन्द्रियाक्रान्तिः किं प्राप्यं पूजनैः फलम्।। २२
विचारोपशमाभ्यां हि न विनासाद्यते हरिः ।
विचारोपशमाभ्यां च मुक्तस्याब्जकरेण किम् ।। २३
विचारोपशमोपेतं चित्तमाराधयात्मनः ।
तस्मिन्सिद्धे भवान्सिद्धो नो चेत्त्वं वनगर्दभः ।। २४
क्रियते माधवादीनां प्रणयप्रार्थना स्वयम् ।
तथैव क्रियते कस्मान्न स्वकस्यैव चेतसः ।। २५
सर्वस्यैव जनस्यास्य विष्णुरभ्यन्तरे स्थितः ।
तं परित्यज्य ये यान्ति बहिर्विष्णुं नराधमाः ।। २६
हृद्गुहावासिचित्तत्त्वं मुख्यं सानातनं वपुः ।
शङ्खचक्रगदाहस्तो गौण आकार आत्मनः ।। २७
यो हि मुख्यं परित्यज्य गौणं समनुधावति ।
त्यक्त्वा रसायनं सिद्धं साध्यं संसाधयत्यसौ ।। २८
यस्तु भोः स्थितिमेवास्यामात्मज्ञानचमत्कृतौ ।
नासादयति संमत्तमनाः स' रघुनन्दन ।। २९
अप्राप्तात्मविवेकोऽन्तरज्ञचित्तवशीकृतः ।
शंखचक्रगदापाणिमर्चयेत्परमेश्वरम् ।। ३०
तत्पूजनेन कष्टेन तपसा तस्य राघव ।
काले निर्मलतामेति चित्तं वैराग्यकारिणा ।। ३१
नित्याभ्यासविवेकाभ्यां चित्तमाशु प्रसीदति ।
आम्र एव दशामेति साहकारीं शनैः शनैः ।। ३२
एतदप्यात्मनैवात्मा फलमाप्नोति भाषितम् ।
हरिपूजाक्रमाख्येन निमित्तेनारिसूदन ।। ३३
वरमाप्नोति यो वापि विष्णोरमिततेजसः ।
तेन स्वस्यैव तत्प्राप्तं फलमभ्यासशाखिनः ।। ३४
सर्वेषामुत्तमस्थानां सर्वासां चिरसंपदाम् ।
स्वमनोनिग्रहो भूमिर्भूमिः सस्यश्रियामिव ।। ३५
अप्युर्वीखननोत्कस्य कर्षतोऽपि शिलोच्चयम् ।
स्वमनोनिग्रहादन्यो नोपायोऽस्तीह कश्चन ।। ३६
तावज्जन्मसहस्राणि भ्रमन्ति भुवि मानवाः ।
यावन्नोपशमं याति मनोमत्तमहार्णवः ।। ३७
ब्रह्मविष्ण्विन्द्ररुद्राद्याश्चिरसंपूजिता अपि ।
उपप्लवान्मनोव्याधेर्न त्रायन्तेऽपि वत्सलाः ।। ३८
आकारभासुरं त्यक्त्वा बाह्यमान्तरमप्यजम् ।
कुरु जन्मक्षयायाशु संविन्मात्रैकचिन्तनम् ।। ३९
संवेद्यनिर्मुक्तनिरामयैक-
संविन्मयास्वादमनन्तरूपम् ।
सन्मात्रमास्वादय सर्वसारं
पारं परं प्राप्स्यसि जन्मनद्याः ।। ४०
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मोक्षोपायेषूपशमप्रकरणे प्रह्लादविश्रान्तिर्नाम त्रिचत्वारिंशः सर्गः ।। ४३ ।।