योगवासिष्ठः/प्रकरणम् ५ (उपशमप्रकरणम्)/सर्गः २०

विकिस्रोतः तः

पुण्य उवाच ।
कः पिता किं च वा मित्रं का माता के च बान्धवाः ।
स्वबुद्ध्यैवावधूयन्ते वात्यया जनपांसवः ।। १
बन्धुमित्रसुतस्नेहद्वेषमोहदशामयः ।
स्वसंज्ञामात्रकेणैव प्रपञ्चोऽयं वितन्यते ।। २
बन्धुत्वे भावितो बन्धुः परत्वे भावितः परः ।
विषामृतदशेवेह स्थितिर्भावनिबन्धनी ।। ३
एकत्वे विद्यमानस्य सर्वगस्य किलात्मनः ।
अयं बन्धुः परश्चायमित्यसौ कलना कुतः ।। ४
रक्तमांसास्थिसंघाताद्देहादेवास्थिपञ्जरात् ।
कोऽहं स्यामिति चित्तेन स्वयं पुत्र विचारय ।। ५
दृष्ट्या तु पारमार्थिक्या न कश्चित्त्वं न वास्म्यहम् ।
मिथ्याज्ञानमिदं पुण्यः पावनश्चेति वल्गति ।। ६
कस्ते पिता कश्च सुहृत्का माता कश्च वा परः ।
खस्यानन्तविलासस्य किमस्वं किं स्वमुच्यताम् ।। ७
असि चेत्त्वं तदन्येषु यातेषु बहुजन्मसु ।
ये बन्धवो ये विभवाः किं तानपि न शोचसि ।। ८
बभूवुस्ते सुपुष्पासु स्थलीषु मृगयोनिषु ।
बहवो बन्धवो मार्गास्तान्कथं नानुशोचसि ।। ९
बभूवुस्ते सपद्मासु तटीष्वम्भोजिनीषु ते ।
हंसस्य बन्धवो हंसास्तान्कथं नानुशोचसि ।। १०
बभूवुस्तेऽलमन्यत्र चित्रासु वनराजिषु ।
बहवो बन्धवो वृक्षास्तान्कथं नानुशोचसि ।। ११
बभूवुस्ते महोग्रेषु शिखरेषु महीभृताम् ।
बहवो बान्धवाः सिंहास्तान्कथं नानुशोचसि ।। १२
बभूवुस्ते स्रवन्तीषु सरःस्वम्भोजिनीषु च ।
बहवो बन्धवो मत्स्यास्तान्कथं नानुशोचसि ।। १३
बभूविथ दशार्णेषु कपिलो वनवानरः ।
राजपुत्रस्तुषारेषु पुण्ड्रेषु वनवायसः ।। १४
हैहयेषु च मातङ्गस्त्रिगर्तेषु च गर्दभः ।
शाल्वेषु सरमापुत्रः पतत्री सरलद्रुमे ।। १५
विन्ध्याद्रौ पिप्पलो भूत्वा घुणो भूत्वा महावटे ।
मन्दरे कुक्कुटो भूत्वा विप्रो जातोऽसि कन्दरे ।। १६
कोसलेषु द्विजो भूत्वा भूत्वा वङ्गेषु तित्तिरिः ।
अश्वो भूत्वा तुषारेषु जातस्त्वं ब्रह्मणोऽध्वरे ।। १७
यः कीटस्तालकन्दान्तर्मशको य उदुम्बरे ।
यः प्राग्बको विन्ध्यवने स त्वं पुत्र ममानुजः ।। १८
हिमवत्कन्दरे भूर्जतनुत्वग्ग्रन्थिकोटरे ।
पिपीलिको यः षण्मासान्सोऽयं त्वमनुजो मम ।। १९
स्थितः सीमान्तकुग्रामगोमये यश्च वृश्चिकः । ।
सार्धसंवत्सरं साधो सोऽयं त्वमनुजो मम ।। २०
पुलिन्दीस्तनपीठेषु निलीनं येन कानने ।
षट्पदेनेव पद्मेषु सोऽयं त्वमनुजो मम ।। २१
एतास्वन्यासु बह्वीषु जनयोनिषु पुत्रक ।
जातोऽसि जम्बूद्वीपेऽस्मिन्पुरा शतसहस्रशः ।। २२
इत्थं तवात्मनश्चैव प्राक्तनं वासनाक्रमम् ।
पश्यामि सूक्ष्मया बुद्ध्या सम्यग्दर्शनशुद्धया ।। २३
ममापि बह्व्यो बहुधा योनयो मोहमन्थराः ।
समतीताः स्मराम्यद्य ता ज्ञानोदितया दृशा ।। २४
त्रिगर्तेषु शुको भूत्वा भेको भूत्वा सरित्तटे ।
वनेषु लावको भूत्वा जातोऽहमिह कानने ।। २५ ।
भुक्त्वा पुलिन्दतां विन्ध्ये कृत्वा वङ्गेषु वृक्षताम् ।
उष्ट्रत्वमपि विन्ध्याद्रौ जातोऽहमिह कानने ।। ५६
यश्चातको हिमगिरौ यो राजा पौण्ड्रमण्डले ।
व्याघ्रो यः सह्यकुञ्जेषु स एवाहं तवाग्रजः ।। २७
यो गृध्रो दशवर्षाणि यो ग्राहो मासपञ्चकम् ।
यः समानां शतं सिंहः स एवेह तवाग्रजः ।। २८
आन्ध्रग्रामचकोरेण तुषारनृपराजिना ।
श्रीशैलाचार्यपुत्रेण दम्भवत्कथ्यते मया ।। २९
सर्वे विविधसंसारा विविधाचारचेष्टिताः ।
विलासा जन्मनो भ्रान्तेः स्मर्यन्ते प्राक्तना मया ।। ३०
एवं स्थिते जगज्जाता बान्धवाः शतशो गताः ।
पितरो मातरश्चैव भ्रातरः सुहृदस्तथा ।। ३१
कांस्तान्समनुशोचावो न शोचावश्च कानपि ।
बन्धूनिहातिशोचाव ईदृश्येव जगद्गतिः ।। ३२
अनन्ताः पितरो यान्ति यान्त्यनन्ताश्च मातरः ।
इह संसारिणां पुंसां वनपादपपर्णवत् ।। ३३
किं प्रमाणमतः पुत्र दुःखस्यात्र सुखस्य च ।
तस्मात्सर्वं परित्यज्य तिष्ठावः स्वच्छतां गतौ ।। ३४
प्रपञ्चभावनां त्यक्त्वा मनस्यहमिति स्थिताम् ।
तां गतिं गच्छ भद्रं ते यां यान्ति गतिकोविदाः ।। ३५
इहाजवं जवीभावं पतनोत्पतनात्मकम् ।
न च शोचन्ति सुधियश्चिरं वल्गन्ति केवलम् ।। ३६
भावाभावविनिर्मुक्तं जरामरणवर्जितम् ।
संस्मरात्मानमव्यग्रो मा विमूढमना भव ।। ३७
न ते दुःखं न ते जन्म न ते माता न ते पिता ।
आत्मैवासि न सद्बुद्धे त्वमन्यः कश्चिदेव हि ।। ३८
अस्यां संसारयात्रायां नानाभिनयदायिनः ।
अज्ञा एव नराः साधुरसभावसमन्विताः ।। ३९
मध्यस्थदृष्टयः स्वस्था यथाप्राप्तार्थदर्शिनः ।
तज्ज्ञास्तु प्रेक्षका एव साक्षिधर्मे व्यवस्थिताः ।। ४०
कर्तारोऽपि न कर्तारो यथा दीपा निशागमे ।
आलोककर्मणामेवं तज्ज्ञा लोकस्थिताविह ।। ४१
प्रतिबिम्बे न दृश्यन्ते स्वात्मबिम्बगतैरपि ।
यथा दर्पणरत्नाद्यास्तथा कार्ये महाधियः ।। ४२
सर्वैषणामयकलङ्कविवर्जितेन स्वस्थात्मभावकलितेन हृदब्जमध्ये ।
पुत्रात्मनात्मनि महामुनिनामुनैव संत्यज्य संभ्रममलं परितोषमेहि ।। ४३
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु उपशमप्रकरणे पावनबोधो नाम विंशः सर्गः ।। २० ।।