सामग्री पर जाएँ

योगवासिष्ठः/प्रकरणम् ५ (उपशमप्रकरणम्)/सर्गः १६

विकिस्रोतः तः


षोडशः सर्गः १६

श्रीराम उवाच ।
स्वभावगम्भीरमेतद्भगवन्वचनं तव ।
यदहंकारतृष्णां त्वं मा गृहाणेति वक्षि माम् ।। १
यद्यहंकारसंत्यागं करोमि तदिदं प्रभो ।
त्यजामि देहनामानं संनिवेशमशेषतः ।।
जानुस्तम्भेन महता धार्यते सुतरुर्यथा ।
अहंकारेण देहोऽयं तथैव किल धार्यते ।। ३

अहंकारक्षये देहः किलावश्यं विनश्यति ।
मूले क्रकचसंलूने सुमहानिव पादपः ।। ४
तत्कथं संत्यजाम्येनं जीवामि च कथं मुने ।
एनमर्थं विनिश्चित्य वद मे वदतां वर ।। ५
श्रीवसिष्ठ उवाच ।
सर्वत्र वासनात्यागो राम राजीवलोचन ।
द्विविधः कथ्यते तज्ज्ञैर्ज्ञेयो ध्येयश्च मानद ।।
अहमेषां पदार्थानामेते च मम जीवितम् ।
नाहमेभिर्विना कश्चिन्न मयैते विना किल ।। ७
इत्यन्तर्निश्चयं कृत्वा विचार्य मनसा सह ।
नाहं पदार्थस्य न मे पदार्थ इति भाविते ।। ८
अन्तःशीतलया बुद्ध्या कुर्वत्या लीलया क्रियाम् ।
यो नूनं वासनात्यागो ध्येयो राम स कीर्तितः ।। ९
सर्वं समतया बुद्ध्वा यं कृत्वा वासनाक्षयम् ।
जहाति निर्ममो देहं ज्ञेयोऽसौ वासनाक्षयः ।। १०
अहंकारमयीं त्यक्त्वा वासनां लीलयैव यः ।
तिष्ठति ध्येयसंत्यागी जीवन्मुक्तः स उच्यते ।। ११
निर्मूलकलनां त्यक्त्वा वासनां यः शमं गतः ।
ज्ञेयत्यागमयं विद्धि मुक्तं तं रघुनन्दन ।। १२
ध्येयं तं वासनात्यागं कृत्वा तिष्ठन्ति लीलया ।
जीवन्मुक्ता महात्मानः सुजना जनकादयः ।। १३
ज्ञेयं तु वासनात्यागं कृत्वोपशममागताः ।
विदेहमुक्तास्तिष्ठन्ति ब्रह्मण्येव परावरे ।। १४
द्वावेव राघव त्यागौ समौ मुक्तपदे स्थितौ ।
द्वावेतौ ब्रह्मतां यातौ द्वावेव विगतज्वरौ ।। १1
युक्तायुक्तमती स्वासे केवलं विमलेऽनघ ।
एकः स्थितः स्फुरद्देहः शान्तदेहः स्थितोऽपरः ।।१६

एकः सदेहो निर्मुक्तस्तिष्ठत्यपगतज्वरः ।
त्यक्तदेहो विमुक्तोऽन्यो वर्ततेऽज्ञेयवासनः ।। १७
आपतत्सु यथाकालं सुखदुःखेष्वनारतम् ।
न हृष्यति ग्लायति यः स मुक्त इति होच्यते ।। १८
ईप्सितानीप्सिते न स्तो यस्येष्टानिष्टवस्तुषु ।
सुषुप्तवच्चरति यः स मुक्त इति कथ्यते ।। १९
हेयोपादेयकलने ममेत्यहमिहेति च ।
यस्यान्तः संपरिक्षीणे स जीवन्मुक्त उच्यते ।। २०
हर्षामर्षभयक्रोधकामकार्पण्यदृष्टिभिः ।
न परामृश्यते योऽन्तः स जीवन्मुक्त उच्यते ।। २१
सुषुप्तवत्प्रशमितभाववृत्तिना
स्थितं सदा जाग्रति येन चेतसा ।
कलान्वितो विधुरिव यः सदा मुदा
निषेव्यते मुक्त इतीह स स्मृतः ।। २२
श्रीवाल्मीकिरुवाच ।
इत्युक्तवत्यथ मुनौ दिवसो जगाम
सायंतनाय विधयेऽस्तमिनो जगाम ।
स्नातुं सभा कृतनमस्करणा जगाम
श्यामाक्षये रविकरैश्च सहाजगाम ।। २३
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे तृष्णाचिकित्सा नाम षोडशः सर्गः ।। १६ ।।