योगवासिष्ठः/प्रकरणम् ५ (उपशमप्रकरणम्)/सर्गः ७३
श्रीवसिष्ठ उवाच ।
एवंविचारया दृष्ट्या द्वैतत्यागेन राघव ।
स्वभावः प्राप्यते तज्ज्ञैस्तज्ज्ञैश्चिन्तामणिर्यथा ।। १
अथेमामपरां दृष्टिं श्रृणु रामानया यथा ।
दृश्यस्यात्मानमचलं भविष्यसि च दिव्यदृक् ।। २
अहं खमहमादित्यो दिशोऽहमहमप्यधः ।
अहं दैत्या अहं देवा लोकाश्चाहमहं महः ।। ३
अहं तमोऽहमभ्राणि भूः समुद्रादिकं त्वहम् ।
रजो वायुरथाग्निश्च जगत्सर्वमिदं त्वहम् ।। ४
जगत्त्रयेऽहं सर्वत्र य आत्मैव किलास्थितः ।
कोऽहं किमन्यद्देहादि द्वित्वमेकस्य कीदृशम् ।। ५
इति निश्चयवानन्तर्भूतमात्मतया जगत् ।
पश्य हर्षविषादाभ्यां नावशः परिभूयसे ।। ६
तन्मयेऽस्मिन्किल जगत्यखिले संस्थितेऽनघ ।
किमात्मीयं परं किं स्यात्कमलेक्षण कथ्यताम् ।। ७
किं तज्ज्ञव्यतिरेकेण विद्यते यदुपागतम् ।
हर्षमेतु विषादं वा विषादे ज्ञो जगन्मयः ।। ८
अहंकारदृशावेते सात्त्विके द्वेऽतिनिर्मले ।
तत्त्वज्ञानात्प्रवर्तेते मोक्षदे पारमार्थिके ।। ९
परोऽणुः सकलातीतरूपोऽहं चेत्यहंकृतिः ।
प्रथमा सर्वमेवाहमित्यन्योक्ता रघूद्वह ।। १०
अहंकारदृगन्या तु तृतीया विद्यतेऽनघ ।
देहोऽहमिति तां विद्धि दुःखायैव न शान्तये ।। ११
अथ चैतत्त्रयमपि त्यक्त्वा सकलसिद्धये ।
यच्छेषं तदुपालम्ब्य तिष्ठावष्टब्धतत्परः ।। १२
सर्वातीतस्वरूपोऽपि सर्वसत्तातिगोऽपि च ।
असत्तापूरितजगदस्त्येवात्मा प्रकाशकः ।। १३
स्वानुभूत्यैव पश्याशु स एवासि सदोदितः ।
आशयं हृदयग्रन्थिं त्यज तत्त्वविदांवर ।। १४
नात्मास्त्यनुमया राम न चाप्तवचनादिना ।
सर्वदा सर्वथा सर्वं स प्रत्यक्षोऽनुभूतितः ।। १५
यदिदं स्पर्शनं स्पन्दं किंचिद्यत्संविदाद्यपि ।
तत्सर्वमात्मा भगवान्दृश्यदर्शनवर्जितः ।। १६
न सन्नासन्नसौ देवो नाणुर्नापि महानसौ ।
नाप्येतयोर्दृशोर्मध्यं स एवेदं च सर्वतः ।। १७
स एव चैवं वदति स च वक्तुं न युज्यते ।
न तदन्यदिदं तात पश्यात्मानमनामयम् ।। १८
नात्मायमयमप्यात्मा संज्ञाभेद इति स्वयम् ।
तेनैव सर्वगतया शक्त्या स्वात्मनि कल्पितः ।। १९
संस्थितः स हि सर्वत्र त्रिषु कालेषु भास्करः ।
सूक्ष्मत्वात्सुमहत्त्वाच्च केवलं न विभाव्यते ।। २०
सत्स्वनन्तपदार्थेषु जीवत्वेनाभिबिम्बति ।
आत्मा पुर्यष्टकादर्शे स्वभाववशतः स्वतः ।। २१
पुर्यष्टकोदयादेव स्वयमात्मानुभूयते ।
सर्वदा सर्वसंस्थः खे घनास्पन्दादिवानिलः ।। २२
चिदात्मा सर्वगो व्यापी न क्वचिन्नाम संस्थितः ।
यद्वत्सर्वपदार्थानां सत्ता तद्वन्महेश्वरः ।। २३
सति पुर्यष्टके तस्मिञ्जीवः स्फुरति नोपले ।
सति वायाविव रजः सति दीप इवेक्षणम् ।। २४
इयं पुर्यष्टके स्वेच्छा स्वात्मन्येवात्मनि स्थिते ।
सति स्फुरत्यभ्युदिते भानाविव जनैषणा ।। २५
यदि सूर्ये स्थिते व्योम्नि तादृशोचितसंस्थितिः ।
नश्यति व्यवहारोऽयं भास्करे तत्किमागतम् ।। २६
यद्यात्मनि स्थिते देवे तत्सत्ता लब्धसंस्थितिः ।
देहो नाशमुपायाति तत्किं नष्टमिहात्मनि ।। २७
न जायते न म्रियते नादत्ते नाभिवाञ्छति ।
न मुक्तो न च बद्धोऽयमात्मा सर्वस्य सर्वदा ।। २८
आत्माप्रबोधाभ्युदिता निरात्मन्यात्मतां गता ।
सर्परज्जुभ्रमाकारा भ्रान्तिर्दुःखाय केवलम् ।। २९
अनादित्वान्न जातोऽयमजातत्वान्न नश्यति ।
आत्मात्मव्यतिरिक्तं तु नाभिवाञ्छत्यसंभवात्।। ३०
दिक्कालाद्यनवच्छेदान्न बद्धोऽयं कदाचन ।
बन्धाभावे क्व मुक्तिः स्यादमोक्षस्तेन संस्थितः ।। ३१
एवंगुणविशिष्टोऽयमात्मा सर्वस्य राघव ।
अविचारवशान्मूढो लोकोऽयं परिरोदिति ।। ३२
सम्यगालोकिताशेषपूर्वापरजगत्क्रमः ।
मा शोकं गच्छ सुमते मौर्ख्योपगतलोकवत् ।। ३३
द्वे एव कलने त्यक्त्वा मोक्षबन्धात्मिके यथा ।
विदुषा व्यवहर्तव्यं यन्त्रणेवात्ममौनिना ।। ३४
न मोक्षो नभसः पृष्ठे न पाताले न भूतले ।
मोक्षो हि चेतो विमलं सम्यग्ज्ञानविबोधितम् ।। ३५
सकलाशास्वसंसक्त्या यत्स्वयं चेतसः क्षयः ।
स मोक्षनाम्ना कथितस्तत्त्वज्ञैरात्मदर्शिभिः ।। ३६
यावत्प्रबोधो विमलो नोदितस्तावदेव सः ।
मौर्ख्याद्दीनतया राम भक्त्या मोक्षोभिवाञ्छ्यते ।।३७
परं प्रबोधमासाद्य चित्ते चित्तत्त्वतां गते ।
दश मोक्षा न वाञ्छ्यन्ते किमुतैको हि मोक्षकः ।। ३८
अयं मोक्षस्त्वयं बन्धः पेलवां कलनामिति ।
परित्यज्य महात्यागी स त्वमेव भवाभव ।। ३९
परिगलितविकल्पनां प्रयातः
सगरसुतौघनिखातमेखलाङ्कम् ।
अवनिवलयमन्तरस्तसङ्ग-
श्चिरमनुपालय सर्वदोदितश्रीः ।। ४०
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे स्वात्मविचारो नाम त्रिसप्ततितमः सर्गः ।। ७३ ।।