योगवासिष्ठः/प्रकरणम् ५ (उपशमप्रकरणम्)/सर्गः ५८
अष्टपञ्चाशः सर्गः ५८
श्रीवसिष्ठ उवाच ।
अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।
किरातेशस्य सुरघोर्वृत्तान्तं विस्मयास्पदम् ।। १
उत्तरस्या दिशो मेदः कर्पूरपटल भुवः ।
संभूतं हसनं शार्वं शुक्लो वा चान्द्र आतपः ।। २
हिमाद्रेः श्रृङ्गमस्तीह कैलासो नाम पर्वतः ।
शैलकुञ्जरनिर्मुक्तकलापस्येव नायकः ।। ३
विष्णोः क्षीरोद इव स्वर्गः सुरपतेरिव ।
अब्जजस्येव नाभ्यब्जं गृहं यः शशिमौलिनः ।। ४
रुद्राक्षवृक्षदोलाभिः साप्सरोभिर्विभाति यः ।
लोलरत्नशलाकाभिर्लहरीभिरिवार्णवः ।। ५
गणाङ्गनानामनिशं मत्तानां चरणैर्हताः ।
अशोका इव राजन्ते यत्राशोका विलासिनः ।। ६
संचरन्शंकरो दिक्षु भृगुष्विन्दुमणिद्रवैः ।
निवर्तन्ते प्रवर्तन्ते यत्राजस्रं च निर्झराः ।। ७
यो लतावृक्षगुल्मौघवापीहृदनदीनदैः ।
मृगैर्मृगगणैर्भूतैर्ब्रह्माण्डवदिवावृतः ।। ८
तस्य हेमजटा नाम किराताः संस्थिताः स्थले ।
पिपीलिका वटतरोर्मूलकोशगता इव ।। ९
कैलासपादारण्यानां रुद्राक्षैस्तरुगुल्मकैः ।
वसन्ति घूकवत्क्षुद्रास्ते वै निकटजीविनः ।। १०
आसीत्तेषामुदारात्मा राजा परपुरंजयः ।
जयलक्ष्म्या भुज इव यः प्रजायाश्च दक्षिणः ।। ११
सुरघुर्नाम बलवान्सुरघोरारिदर्पहा ।
अर्कः पराक्रम इव मूर्तिमानिव मारुतः ।। १२
जितो वै राज्यविभवैर्धनैर्गुह्यकनायकः ।
शतक्रतुगुरुर्बोधैः काव्यैरसुरदेशिकः ।। १३
स चक्रे राजकार्याणि निग्रहानुग्रहक्रमैः ।
यथाप्राप्तान्यखिन्नाङ्गो दिनानीव दिवाकरः ।। १४
तज्जाभ्यां सुखदुःखाभ्यामथ तस्याभ्यभूयत ।
स्वगतिर्वागुराबन्धैः श्लिष्टाङ्गस्येव पक्षिणः ।। १५
किमार्तं पीडयाम्येनं तिलान्यन्त्रमिवौजसा ।
सर्वेषामेव भूतानां ममेवार्तिः प्रजायते ।। १६
धनमस्मै प्रयच्छामि धनेनानन्दवाञ्जनः ।
भवत्यहमिवाशेषस्तदलं मेऽतिनिग्रहैः ।। १७
अथवा निग्रहं प्राप्तं करोम्येतेन वै विना ।
वर्तते न प्रजैवेयं विना वारि सरिद्यथा ।। १८
हा कष्टमेव निग्राह्यो नित्यानुग्राह्य एष मे ।
दिष्ट्याद्य सुखवानस्मि कष्टमद्यास्मि दुःखवान् ।। १९
इति दोलायितं चेतो न विशश्राम भूपतेः ।
एकत्राम्बुमहावर्ते चिरतृष्णमिव भ्रमत् ।। २०
अथैकदा गृहं तस्य माण्डव्यो मुनिराययौ ।
भ्रान्ताशेषककुप्कुञ्जो वासवस्यव नारदः ।। २१
तमसौ पूजयामास पप्रच्छ च महामुनिम् ।
संदेहदुर्द्रुमस्तम्भपरशुं सर्वकोविदम् ।। २२
सुरघुरुवाच ।
भवदागमनेनास्मि मुने निर्वृतिमागतः ।
परमां वसुधापीठं संप्राप्त इव माधवे ।। २३
अद्य तिष्ठाम्यहं नाथ धन्यानां धुरि धर्मतः ।
विकासि रविणेवाब्जं यत्त्वयास्म्यवलोकितः ।। २४
भगवन्सर्वधर्मज्ञ चिरं विश्रान्तवानसि ।
तदमुं संशयं छिन्धि ममार्कस्तिमिरं यथा ।। २५
महतां संगमेनार्तिः कस्य नाम न नश्यति ।
संदेहं तु परामार्तिमाहुरार्तिविदो जनाः ।। २६
मन्निग्रहानुग्रहजा मद्भृत्यवपुषि स्थिताः ।
कषन्ति मामलं चिन्ता गजं हरिनखा इव ।। २७
तद्यथा समतोदेति सूर्यांशुरिव सर्वदा ।
मतौ मम मुने नान्या तथा करुणया कुरु ।। २८
माण्डव्य उवाच ।
स्वयत्नेन स्वसंस्थेन स्वेनोपायेन भूपते ।
एषा मनःपेलवता हिमवत्प्रविलीयते ।। २६
स्वविचारणयैवाशु शाम्यत्यन्तर्मनोज्वरः ।
शरदागममात्रेण मिहिका महती यथा ।। ३०
स्वेनैव मनसा स्वानि स्वशरीरगतानि च ।
विचारयेन्द्रियाण्यन्तः कीदृशान्यथ कानि च ।। ३१
कोऽहं कथमिदं किंवा कथं मरणजन्मनी ।
विचारयान्तरेवं त्वं महत्तामलमेष्यसि ।। ३२
विचारणा परिज्ञातस्वभावस्य सतस्तव ।
हर्षामर्षदशाश्चेतस्तोलयिष्यन्ति नाचलम् ।। ३३
मनः कृष्णमृत्सृज्य शममेष्यति विज्वरम् ।
भूतपूर्ववपुर्भूत्वा तरङ्गः पयसीव ते ।। ३४
तिष्ठदेव मनोरूपं परित्यक्ष्यति तेऽनघ ।
कलङ्कविकलं कालं मन्वन्तरगताविव ।। ३५
अनुकम्प्या भविष्यन्ति श्रीमन्तः सर्व एव ते ।
दृष्टतत्त्वस्य तुष्टस्य जनाः पितुरिवावनौ ।। ३६
विवेकदीपदृष्टात्मा मेर्वब्धिनभसामपि ।
अधो करिष्यसि नृप महत्तामुत्तमार्थदाम् ।। ३७
महत्तामागते चेतस्तव संसारवृत्तिषु ।
न निमज्जति हे साधो गोष्पदेष्विव वारणः ।। ३८
कृपणं तु मनो राजन्पेलवेऽपि निमज्जति ।
कार्ये गोष्पदतोयेऽपि जीर्णाङ्गो मशको यथा ।। ३९
चेतोवासनया पङ्के कीटवत्परिमज्जसि ।
दृश्यमात्रावलम्बिन्या स्वया दीनतया तया ।। ४०
तावत्तावन्महाबाहो स्वयं संत्यज्यतेऽखिलम् ।
यावद्यावत्परालोकः परमात्मैव शिष्यते ।। ४१ ।
तावत्प्रक्षाल्यते धातुर्यावद्धेमैव शिष्यते ।
तावदालोक्यते सर्वं यावदात्मैव लभ्यते ।। ४२
सर्वः सार्विकया बुद्ध्या सर्वं सर्वत्र सर्वदा ।
सर्वथा संपरित्यज्य स्वात्मनात्मोपलभ्यते ।। ४३
यावत्सर्वं न संत्यक्तं तावदात्मा न लभ्यते ।
सर्वावस्थापरित्यागे शेष आत्मेति कथ्यते ।। ४४
यावदन्यन्न संत्यक्तं तावत्सामान्यमेव हि ।
वस्तु नासाद्यते साधो स्वात्मलाभे तु का कथा ।। ४५
यत्र सर्वात्मनैवात्मा लाभाय यतति स्वयम् ।
त्यक्तान्यकार्यं प्राप्नोति तन्नाम नृप नेतरत् ।। ४६
स्वात्मावलोकनार्थं तु तस्मात्सर्वं परित्यजेत् ।
सर्वं किंचित्परित्यज्य यद्दृष्टं तत्परं पदम् ।। ४७
सकलकारणकार्यपरम्परा-
मयजगद्गतवस्तुविजृम्भितम् ।
अलमपास्य मनः स्ववपुस्ततः
परिविलाप्य यदेति तदेव तत् ।। ४८
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे सुरघुवृत्तान्ते माण्डव्योपदेशो नामाष्टपञ्चाशः सर्गः ।।५८ ।।