योगवासिष्ठः/प्रकरणम् ५ (उपशमप्रकरणम्)/सर्गः ९३

विकिस्रोतः तः


त्रिनवतितमः सर्गः ९३
श्रीवसिष्ठ उवाच ।
मनागपि विचारेण चेतसः स्वस्य निग्रहः ।
मनागपि कृतो येन तेनाप्तं जन्मनः फलम् ।। १
विचारकणिका यैषा हृदि स्फुरति पेलवा ।
एषैवाभ्यासयोगेन प्रयाति शतशाखताम् ।। २
किंचित्प्रौढविचारं तु नरं वैराग्यपूर्वकम् ।
संश्रयन्ति गुणाः शुद्धाः सरः पूर्णमिवाण्डजः ।। ३
सम्यग्विचारिणं प्राज्ञं यथाभूतावलोकिनम् ।
आसादयन्त्यपि स्फारा नाविद्याविभवा भृशम् ।। ४
किं कुर्वन्तीह विषया मानस्यो वृत्तयस्तथा ।
आधयो व्याधयो वापि सम्यग्दर्शनसन्मतेः ।। ५
क्व भ्रमत्पवनापूरास्तडित्पटलपाटलाः ।
पुष्करावर्तजलदा गृहीता बालमुष्टिभिः ।। ६
क्व नभोमध्यसंस्थेन्दुर्मुग्धैर्मणिसमुद्गकैः ।
मुग्धयाऽङ्गनया बद्धो मुग्धेन्दीवरशङ्कया ।। ७
क्व कटप्रोच्चलद्भृङ्गमण्डलोत्पलशेखराः ।
मुग्धस्त्रीश्वासमधुरैर्मशकैर्मथिता गजाः ।। ८
क्वेभमुक्ताफलोल्लासलसत्सन्नखपञ्जराः ।
सिंहाः समरसंरब्धा हरिणैः प्रविमर्दिताः ।। ९
क्व विषोल्लासनिर्यासदग्धोन्नतवनद्रुमाः ।
क्षुधिताजगराः क्षुब्धैर्निगीर्णा बालदर्दुरैः ।। १०
क्व प्राप्तभूतिको धीरो ज्ञातज्ञेयो विवेकवान् ।
आक्रान्तः किल विक्रान्तोविषयेन्द्रियदस्युभिः ।। ११
विचारधियमप्रौढां हरन्ति विषयारयः ।
प्रचण्डपवनामृद्वीं कृत्तवृन्तां लतामिव ।। १२
न विवेकलवं प्रौढं भंक्तुं शक्ता दुराशयाः ।
कल्पक्षोभमहाधीरं शैलं मन्दानिला इव ।। १३
अगृहीतमहापीठं विचारकुसुमद्रुमम् ।
चिन्तावात्याविधुन्वन्ति नास्थिरस्थितिसुस्थितम् ।। १४
गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतोऽपि वा ।
न विचारमयं चेतो यस्यासौ मृत उच्यते ।। १५
किमिदं स्याज्जगत्किं स्याद्देहमित्यनिशं शनैः ।
विचारयाध्यात्मदृशा स्वयं वा सज्जनैः सह ।। १६
अन्धकारहरेणाशु विचारेण परं पदम् ।
दृश्यते विमलं वस्तु प्रदीपेनेव भास्वता ।। १७
ज्ञानेन सर्वदुःखानां विनाश उपजायते ।
कृतालोकविलासेन तमसामिव भानुना ।। १८
ज्ञाने प्रकटतां याते ज्ञेयं व्ययमुदेत्यलम् ।
रवावभ्युदिते भूमावालोक इव निर्मलः ।। १९
येन शास्त्रविचारेण ब्रह्मतत्त्वं प्रबुद्ध्यते ।
तद्भानमुच्यते ज्ञेयादभिन्नमिव संस्थितम् ।। २०
विचारोत्थात्मविज्ञानं ज्ञानमंग विदुर्बुधाः ।
ज्ञेयं तस्यान्तरेवास्ति माधुर्यं पयसो यथा ।। २१
सम्यग्ज्ञानसमालोकः पुमान्ज्ञेयमयः स्वयम्
भवत्यापीतमैरेयः सदा मदमयो यथा ।। २२
समं स्वरूपममलं ज्ञेयं ब्रह्म परं विदुः ।
ज्ञानाभिगममात्रेण तत्स्वयं संप्रसीदति ।। २३
ज्ञानवानुदितानन्दो न क्वचित्परिमज्जति ।
जीवन्मुक्तो गतासङ्गः सम्राडात्मेव तिष्ठति ।। २४
ज्ञानवान्हृद्यशब्देषु वीणावंशरवादिषु ।
कामिन्याः कान्तगीतेषु संभोगमलिनेषु च ।। २५
वसन्तमदमत्तानां षट्पदानां स्वनेषु च ।
प्रावृट्प्रसरपुष्पेषु जलदस्तनितेषु च ।। २६
उत्ताण्डवशिखण्डेषु केकाकलरवेषु च ।।
रणिताम्भोदखण्डेषु सारसक्वणितेषु च ।। २७
कर्तर्यादिकरान्तेषु गम्भीरमुरजेषु च ।
ततावनद्धसुषिरचित्रवाद्यस्वनेषु च ।। २८
केषुचिन्न निबध्नाति रूक्षेषु मधुरेषु च ।
रणितेषु रतिं राम पद्मेष्विव निशाकरः ।। २९
ज्ञानवान्बालकदलीस्तम्भपल्लवपालिषु ।
सुरगन्धर्वकन्याङ्गलतानन्दनकेलिषु ।। ३०
केषु क्वचिन्न बध्नाति स्वायत्तेष्वप्यसक्तधीः ।
राम स्पर्शरतिं धीरो हंसो मरुमहीष्विव ।। ३१
ज्ञानवान्पिण्डखर्जूरकदम्बपनसादिषु ।
मृद्वीकौर्वारुकाक्षोटबिम्बजम्बीरजातिषु ।। ३२
मदिरामधुमैरेयमाध्वीकासवभूमिषु ।
दधिक्षीरघृतामिक्षानवनीतौदनादिषु ।। ३३
षड्रसेषु विचित्रेषु लेह्यपेयविलासिषु ।
फलेष्वन्येषु मूलेषु शाकेष्वप्यामिषेषु च ।। ३४
केषुचिन्नानुबध्नाति तृप्तमूर्तिरसक्तधीः ।
आस्वादनरतिर्विप्रः स्वशरीरलवेष्विव ।। ३५
ज्ञानवान्यमचन्द्रेन्द्ररुद्रार्कानिलसद्मसु ।
मेरुमन्दरकैलाससह्यदर्दुरसानुषु ।। ३६
कौशेयदलजालेषु चन्द्रबिम्बकलादिषु ।
कल्पपादपकुञ्जेषु देहशोभाविलासिषु ।। ३७
रत्नकाञ्चनकुड्येषु मुक्तामणिमयेषु च ।
तिलोत्तमोर्वशीरम्भामेनकाङ्गलतासु च ।। ३८
केषुचिद्दर्शनं श्रीमान्नाभिवाञ्छत्यसक्तधीः ।
परिपूर्णमना मानी मौनी शत्रुषु चाचलः ।। ३९
ज्ञानवान्कुन्दमन्दारकह्लारकमलादिषु ।
कुमुदोत्पलपुन्नागकेतक्यगुरुजातिषु ।। ४०
कदम्बचूतजम्ब्वाम्रकिंशुकाशोकशाखिषु ।
जपातिमुक्तसौवीरबिम्बपाटलजातिषु ।। ४१
चन्दनागुरुकर्पूरलाक्षामृगमदेषु च ।
काश्मीरजलवङ्गैलाकङ्कोलतगरादिषु ।। ४२
केषुचिन्न निबध्नाति सौगन्ध्यरतिमेकधीः ।
समबुद्धिरविक्षोभो मद्यामोदेष्विव द्विजः ।। ४३
अब्धौ गुडगुडारावे प्रतिश्रुत्खस्वने गिरौ ।
निनादे च मृगेन्द्राणां न क्षुभ्यति मनागपि ।। ४४
द्विषद्भेरीनिनादेन पटहारणितेन च ।
कटुकोदण्डघोषेण न विभेति मनागपि ।। ४५
मत्तवारणबृंहासु वेतालकलनासु च ।
पिशाचरक्षःक्ष्वेडासु मनागपि न कम्पते ।। ४६
अशनिस्वनघोषेण नगस्फोटरवेण च ।
ऐरावणनिनादेन सम्यग्ध्यानी न कम्पते ।। ४७
वहत्क्रकचकाषेण सितासिदलनेन च ।
शराशनिनिपातेन कम्पते न स्वरूपतः ।। ४८
नानन्दमेत्युपवने न खेदमुपगच्छति ।
न खेदमेति मरुषु नानन्दमुपगच्छति ।। ४९
पूताङ्गारसमाकल्पसैकतेष्वपि धन्वसु ।
पुष्पप्रकरसंछन्नमृदुशाद्वलभूमिषु ।। ५०
क्षुरधारासु तीक्ष्णासु शय्यासु च नवोत्पलैः ।
उन्नताचलदेशेषु कूपकोशतलेषु च ।। ५१
शिलास्वर्कांशुरूक्षासु मृद्वीषु ललनासु च ।
संपत्स्वापत्सु चोग्रासु रमणेषूत्सवेषु च ।। ५२
विहरन्नपि नोद्वेगी नानन्दमुपगच्छति ।
अन्तर्मुक्तमना नित्यं कर्मकर्तेव तिष्ठति ।। ५३
अयःसंकुचिताङ्गासु नरकारण्यभूमिषु ।
परस्परेरितानन्तकुन्ततोमरवृष्टिषु ।। ५४
न बिभेति न वादत्ते वैवश्यं न च दीनताम् ।
समः स्वस्थमना मौनी धीरस्तिष्ठति शैलवत् ।। ५५
अपवित्रमपथ्यं च विषसिक्तं मलाद्यपि ।
भुक्त्वा जरयति क्षिप्रं क्लिन्नं नष्टं च मृष्टवत् ।। ५६
बिम्बप्रतिविषाकल्कक्षीरेक्षुसलिलान्धसाम् ।
असक्तबुद्धिस्तत्त्वज्ञो भवत्यास्वादने समः ।। ५७
मैरेयमदिराक्षीररक्तमेदोरसासवैः ।
रूक्षास्थितृणकेशान्तैर्न हृष्यति न कुप्यति ।। ५८
जीवितस्यापि हर्तारं दातारं चैकरूपया ।
दृशा प्रसादमाधुर्यशालिन्या परिपश्यति ।। ५९
स्थिरास्थिरशरीरेषु रम्यारम्येषु वस्तुषु ।
न हृष्यति ग्लायति वा सदा समतयेद्धया ।। ६०
मुक्तास्थत्वादनास्थेयरूपत्वाज्जगतः स्थितौ ।
नूनं विदितवेद्यत्वान्नीरागत्वात्स्वचेतसः ।। ६१
न कस्यचिन्नो कदाचिदक्षस्य विषयस्थितौ ।
ददाति प्रसरं साधुराधिप्रोज्झितया धिया ।। ६२
अतत्त्वज्ञमविश्रान्तमलब्धात्मानमस्थितम् ।
निगिरन्तीन्द्रियाण्याशु हरिणा इव पल्लवम् ।। ६३
उह्यमानं भवाम्भोधौ वासनावीचिवेल्लितम् ।
निगिरन्तीन्द्रियग्राहा महाक्रन्दपरायणम् ।। ६४
विचारिणं भव्यपदं विश्रान्तधियमात्मनि ।
न हरन्ति विकल्पौघा जलौघा इव पर्वतम् ।। ६५
सर्वसंकल्पसीमान्ते विश्रान्ता ये परे पदे ।
तेषां लब्धस्वरूपाणां मेरुरेव तृणायते ।। ६६
जगज्जरत्तृणलवो विषं चामृतमेव च ।
क्षणः कल्पसहस्रं च सममाततचेतसाम् ।। ६७
संविन्मात्रं जगदिति मत्वा मुदितबुद्धयः ।
संविन्मयत्वादन्तस्थजगत्का विहरन्त्यमी ।। ६८
संविन्मात्रपरिस्पन्दे जागते वस्तुपञ्जरे ।
किं हेयं किमुपादेयमिह तत्त्वविदां मतम् ।। ६९
संविदेवेदमखिलं भ्रान्तिमन्यां त्यजानघ ।
संविन्मयवपुः स्फारं किं जहाति किमीहते ।। ७०
यदेतज्जायते भूमेर्भविष्यत्पल्लवाङ्कुरम् ।
तत्संविदेव प्रथते तथा तत्त्वाङ्कुरस्थितम् ।। ७१
आदावन्ते च यन्नास्ति वर्तमानेऽपि तस्य च ।
कंचित्काललवं दृष्टा सत्तासौ संविदो भ्रमः ।। ७२
इति मत्वा धियं त्यक्त्वा भावाभावानुपातिनीम् ।
निःसङ्गसंविद्भारूपो भव भावान्तमागतः ।। ७३
कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि ।
कर्म कुर्वन्नकुर्वन्वा निःसङ्गः सन्न लिप्यते ।। ७४
गतसङ्गेन मनसा कुर्वन्नपि न लिप्यते ।
सुखदुःखैर्महाबाहो मनोरथदशास्विव ।। ७५
गतसङ्गां मतिं कुर्वन्कुर्वन्नप्यङ्गयष्टिभिः ।
न लिप्यते सुखैर्दुःखैर्मनोरथदशास्विव ।। ७६
गतसङ्गमना दृष्ट्या पश्यन्नपि न पश्यति ।
एतदन्यस्थचित्तत्वाद्वालेनाप्यनुभूयते ।। ७७
गतसङ्गमना जन्तुः पश्यन्नेव न पश्यति ।
न श्रृणोत्यपि श्रृण्वंश्च न स्पृशत्यपि च स्पृशन्।।७८
न जिघ्रत्यपि संजिघ्रन्नुन्मिषन्निमिषन्नपि ।
पदार्थे च पतत्येव बलात्पतति नाप्ययम् ।। ७९
देशान्तरस्थचेतोभिरेतदात्मगृहस्थितैः ।
अप्रौढमतिभिः साधु मूर्खैरप्यनुभूयते ।। ८०
सङ्गः कारणमर्थानां सङ्गः संसारकारणम् ।
सङ्गः कारणमाशानां सङ्गः कारणमापदाम् ।। ८१
सङ्गत्यागं विदुर्मोक्षं सङ्गत्यागादजन्मता ।
सङ्गं त्यज त्वं भावानां जीवन्मुक्तो भवानघ ।। ८२
श्रीराम उवाच ।
सर्वसंशयनीहारशरन्मारुत हे मुने ।
सङ्गः किमुच्यते ब्रूहि समासेन मम प्रभो ।। ८३
श्रीवसिष्ठ उवाच ।
भावाभावे पदार्थानां हर्षामर्षविकारदा ।
मलिना वासना यैषा सा सङ्ग इति कथ्यते ।। ८४
जीवन्मुक्तशरीराणामपुनर्जन्मकारिणी ।
मुक्ता हर्षविषादाभ्यां शुद्धा भवति वासना ।। ८५
तामसङ्गाभिधां विद्धि यावद्देहं च भाविनी ।
तया यत्क्रियते कर्म न तद्बन्धाय वै पुनः ।। १
अजीवन्मुक्तरूपाणां दीनानां मूढचेतसाम् ।
युक्ता हर्षविषादाभ्यां बन्धनी वासना भवेत् ।। ८७
सैवोक्ता सङ्गशब्देन पुनर्जननकारिणी ।
तया यत्क्रियते कर्म तद्बन्धायैव केवलम् ।। ८८
एवं रूपं परित्यज्य सङ्गं स्वात्मविकारदम् ।
यदि तिष्ठसि निर्व्यग्रः कुर्वन्नपि न लिप्यसे ।। ८९
हर्षामर्षविषादाभ्यां यदि गच्छसि नान्यताम् ।
वीतरागभयक्रोधस्तदसङ्गोऽसि राघव ।। ९०
दुःखैर्न ग्लानिमायासि यदि हृष्यसि नो सुखैः ।
आशावैवश्यमुत्सृज्य तदसङ्गोऽसि राघव ।। ९१
विहरन्व्यवहारेषु सुखदुःखदशासु च ।
न विमुञ्चसि सत्साम्यं तदसङ्गोऽसि राघव ।। ९२
संवेद्यो यदि चैवात्मा वेदिते लक्ष्यते समः ।
यथाप्राप्तानुवर्ती च तदसङ्गोऽसि राघव ।। ९३
असङ्गतामनायासाज्जीवन्मुक्तस्थितिं स्थिराम् ।
अवलम्ब्य समः स्वस्थो वीतरागो भवानघ ।। ९४
जीवन्मुक्तमतिर्मौनी निगृहीतेन्द्रियग्रहः ।
अमानमदमात्सर्यमार्यस्तिष्ठति विज्वरम् ।। ९५
सदा समग्रेऽपि हि वस्तुजाले
समाशयोऽप्यन्तरदीनसत्त्वः ।
व्यापारमात्रात्सहजात्क्रमस्थान्न
किंचिदप्यन्यदसौ करोति ।। ९६
यदेव किंचित्प्रकृतं क्रमस्थं
कर्तव्यमात्मीयमसौ तदेव ।
संसर्गसंबन्धविहीनयैव
कुर्वन्न खेदं रमते धियान्तः ।। ९७
अथापदं प्राप्य सुसंपदं वा
महामतिः स्वप्रकृतं स्वभावम् ।
जहाति नो मन्दरवेल्लितोऽपि
शौक्ल्यं यथा क्षीरमयाम्बुराशिः ।। ९८
संप्राप्य साम्राज्यमथापदं वा
सरीसृपत्वं सुरनाथतां वा ।
तिष्ठत्यखेदोदयमस्तहर्षं
क्षयोदयेष्विन्दुरिवैकरूपः ।। ९९
निरस्तसंरम्भमपास्तभेदं
प्रशान्तनानाफलवल्गुवेषम् ।
विचारयात्मानमदीनसत्त्वो
यथा भवस्युत्तमकार्यनिष्ठः ।। १००
तयोदितप्रसरविलासशुद्धया
गतज्वरं पदमवलम्बयामलम् ।
धियेद्धया पुनरिह जन्मबन्धनै-
र्न बध्यसे समधिगतात्मदृश्यया ।। १०१
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते द्वात्रिंशत्साहस्त्रयां संहितायां मोक्षोपायेषु
उपशमप्रकरणे समदर्शनं नाम त्रिनवतितमः सर्गः ।। ९३ ।।
।। समाप्तमिदं उपशमप्रकरणम् ।।