सामग्री पर जाएँ

योगवासिष्ठः/प्रकरणम् ५ (उपशमप्रकरणम्)/सर्गः ४४

विकिस्रोतः तः


चतुश्चत्वारिंशः सर्गः ४४

श्रीवसिष्ठ उवाच ।
रामापर्यवसानेयं माया संसृतिनामिका ।
आत्मचित्तजयेनैव क्षयमायाति नान्यथा ।।
जगन्मायाप्रपञ्चस्य वैचित्र्यप्रतिपत्तये ।
इतिहासमिमं वक्ष्ये श्रृणुष्वावहितोऽनघ ।। २
अस्त्यस्मिन्वसुधापीठे कोसलो नाम मण्डलः ।
कल्पवृक्षवनं मेराविव रत्नगणाकरः ।। ३
तत्राभूद्ब्राह्मणः कश्चिद्गुणी गाधिरिति श्रुतः ।
परमश्रोत्रियो धीमान्धर्ममूर्तिरिव स्थितः ।। ४
आबाल्यात्प्रविरक्तेन चेतसा स व्यराजत ।
निष्कलङ्कावदातेन भुवनं नभसा यथा ।। ५
किमप्यभिमतं कार्यं विनिधाय स्वचेतसि ।
बन्धुवृन्दाद्विनिष्क्रम्य तपस्तप्तुं वनं ययौ ।। ६
उत्फुल्लकमलं प्राप सरस्तत्र स विप्रराट् ।
चन्द्रः प्रसन्नविमलं तारासारमिवाम्बरम् ।। ७
आशौरिदर्शनं तस्मिंस्तपोर्थं सरसि द्विजः ।
आकण्ठमम्बुनिर्मग्नः प्रावृट्पद्म इवाविशत् ।। ८
ययौ मासाष्टकं तस्य मग्नस्य सरसोऽम्भसि ।
वासपङ्कजसंकोचमनाग्भग्नमुखच्छवेः ।। ९
अथैनं तपसा तप्तमाजगामैकदा हरिः ।
निदाघार्तं घनः श्यामः प्रावृषीव धरातलम् ।। १०
श्रीभगवानुवाच ।
विप्रोत्तिष्ठ पयोमध्याद्गृहाणाभिमतं वरम् ।
अभीप्सितफलोपेतो जातस्ते नियमद्रुमः ।। ११
ब्राह्मण उवाच ।
असंख्येयजगद्भूतहृत्पद्मकुहरालिने ।
जगत्त्रयेकनलिनीसरसे विष्णवे नमः ।। १२
मायामिमां त्वद्रचितां भगवन्पारमात्मिकीम् ।
द्रष्टुमिच्छामि संसारनाम्नीमान्ध्यैककारिणीम् ।। १३

श्रीवसिष्ठ उवाच ।
इमां द्रक्ष्यसि मायां त्वं ततस्त्यक्ष्यसि चेत्यजः ।
उक्त्वा ययावदृश्यत्वं गान्धर्वमिव पत्तनम् ।। १४
गते विष्णौ समुत्तस्थौ जलात्स ब्राह्मणेश्वरः ।
शीतलामलमूर्तित्वादिन्दुः क्षीरोदकादिव ।। १५
बभूव परितुष्टात्मा दर्शनेन जगत्पतेः ।
दर्शनस्पर्शनैरिन्दोरुत्फुल्लमिव कैरवम् ।। १६
अथास्य कतिचित्तस्मिन्दिवसा निर्ययुर्वने ।
हरिसंदर्शनानन्दवतो ब्राह्मणकर्मणा ।। १७
एकदारब्धवान्स्नानं सरस्युदितपङ्कजे ।
चिन्तयन्वैष्णवं वाक्यं महर्षिरिव मानसे ।। १८
अथ स्नानविधावन्तर्जलमेष चकार ह ।
सकलाघविघातार्थं परिवर्तमिवात्मना ।। १९
अन्तर्जलविधौ तस्मिन्विस्मृतध्यानमन्त्रधीः ।
पर्यस्तसंवित्प्रसरः सोऽपश्यज्जलमध्यतः ।। २०
मृतमात्मानमात्मीये सदने शोच्यतां गतम् ।
पतितं वातवेगेन कन्दरान्तरिव द्रुमम् ।। २१
प्राणापानप्रवाहेण मुक्तमन्तमुपागतम् ।
संशान्तावयवस्पन्दं निर्वात इव खण्डकम् ।। २२
पाण्डुराननमाम्लानं वृक्षपर्णमिवारसम् ।
शवीभूतमिवाग्लानं छिन्ननालमिवाम्बुजम् ।। २३
विपर्यस्तेक्षणं प्रातर्मग्नतारमिवाम्बरम् ।
सावग्रहमिव ग्रामं सर्वतः पांसुधूसरम् ।। २४
बाष्पक्लिन्नमुखैर्दीनैः करुणाक्रन्दकारिभिः ।
आवृतं बन्धुभिः खिन्नैः कुररैरिव पादपम् ।। २५
सेतुभंगगलद्वारिह्रियमाणमुखाब्जया ।
नलिन्या समधर्मिण्या भार्यया पादयोः श्रितम्।। २६
ताराक्रन्दरणद्रेफप्रलापालापलुब्धया ।
मात्रा गृहीतं चिबुके नवव्यञ्जनलाञ्छिते ।। २७
अन्यैः पार्श्वगतैर्दीनैः स्रवदश्रुमुखैर्जनैः ।
श्रितं गलदवश्यायैः शुष्कपर्णैरिव द्रुमम् ।। २८
वियोगभीत्या संयोगपरिहारपरैरिव ।
दूरं विप्रसृतैरङ्गैरनात्मीयैरिवावृतम् ।। २९
परस्परमलग्नाभ्यामोष्ठाभ्यां दशनैः सितैः ।
सविरागमिवाम्लानैर्हसन्तं स्वात्मजीवितम् ।। ३०
मौनध्यानमिवापन्नं पङ्कादिव विनिर्मितम् ।
अप्रबोधाय संसुप्तं विश्राम्यन्तमिवोच्चकैः ।। ३१
बान्धवाक्रन्दसंरम्भकोलाहलगता गिरः ।
स्नेहभावविचारार्थं श्रृण्वन्तमिव यत्नतः ।। ३२
अथ तत्कालकल्लोलप्रलापाकुलचेष्टितैः ।
सोरस्ताडनमूर्च्छोत्थनेत्रवारिवहाप्लुतैः ।। ३३
क्रमेण स्वजनैः क्षुब्धैस्ताराक्रन्दादिघर्घरैः ।
निष्कालितममङ्गल्यमपुनर्दर्शनाय वै ।। ३४
नीतं श्मशानं मांसान्त्रवसापङ्ककलङ्कितम् ।
शुष्काशुष्करसक्लिन्नं कंकालशतसंकुलम् ।। ३५
गृध्राभ्रच्छन्नसूर्यांशुचिताज्वलननिस्तमः ।
शिवाशिवमुखज्वालाजालपल्लवितावनि ।। ३६
वहद्रक्तसरित्स्नातमग्नकङ्कोग्रवायसम् ।
रक्तार्द्रतन्त्रीप्रसरजालाबद्धजरत्खगम् ।। ३७
तत्र ते ज्वलने दीप्ते चक्रुस्तं भस्मसाच्छवम् ।
बान्धवाः सलिलापूरं समुद्रा इव वाडवे ।। ३८
चितिश्चटचटास्फोटैः शवमाशु ददाह सा ।
शुष्केन्धनबहूच्छूनज्वालाजालजटावली ।। ३९
अभ्युल्लसत्कटकटारवमुक्तगन्ध-
व्याप्ताम्बुवाहपटलोऽस्थिचयं हुताशः ।
दन्ती सरन्ध्रमिव वेणुवनं समन्ता-
दुद्वान्तमेदुररसं दलयांचकार ।। ४०
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० मोक्षोपायेषूपशमप्रकरणे गाधिवृत्तान्ते गाधिविनाशो नाम चतुश्चत्वारिंशः सर्गः ।। ४४ ।।