मोक्षोपायटीका/वैराग्यप्रकरणम्/सर्गः ९

विकिस्रोतः तः
← सर्गः ८ मोक्षोपायटीका/वैराग्यप्रकरणम्
भास्करकण्ठः
सर्गः १० →
मोक्षोपायटीका/वैराग्यप्रकरणम्



श्रीवाल्मीकिर्भरद्वाजं प्रति कथयति

तथा वसिष्ठे ब्रुवति राजा दशरथः सुतम् ।

समुत्स्रष्टुमना राममाजुहाव सलक्ष्मणम् ॥१,९.१ ॥

[ऋआमी २१, १]

"समुत्स्रष्टुमनाः" दातुमनाः ॥१,९.१ ॥

 

 

दशरथः प्रतीहारं प्रति कथयति

प्रतीहार महाबाहुं रामं सत्यपराक्रमम् ।

सलक्ष्मणमविघ्नेन मुन्यर्थं शीघ्रमानय ॥१,९.२ ॥

स्पष्टम् ॥१,९.२ ॥

 

 

 

दशरथवाक्यमुपसंहरति

इति राज्ञा विसृष्टोऽसौ गत्वान्तःपुरमन्दिरम् ।

मुहूर्तमात्रेणागत्य समुवाच महीपतिम् ॥१,९.३ ॥

स्पष्टम् ॥१,९.३ ॥

 

 

 

प्रतीहारः कथयति

देव दोर्दलिताशेषरिपो रामः स्वमन्दिरे ।

विमनाः संस्थितो रात्रौ षट्पदः कमले यथा ॥१,९.४ ॥

स्पष्टम् ॥१,९.४ ॥

 

 

आगच्छामि क्षणेनेति वक्ति ध्यायति चैककः ।

न कस्यचिच्च निकटे स्थातुमिच्छति खिन्नधीः ॥१,९.५ ॥

स्पष्टम् ॥१,९.५ ॥

 

 

इत्युक्ते तेन भूपालस्तं रामानुचरं जनम् ।

सर्वमाश्वासयामास पप्रच्छ च यथाक्रमम् ॥१,९.६ ॥

स्पष्टम् ॥१,९.६ ॥

 

 

राजप्रश्नमेव कथयति

कथं कीदृक्स्थितो राम इति पृष्टो महीभृता ।

रामभृत्यजनः खिन्नो वाक्यमाह महीपतिम् ॥१,९.७ ॥

स्पष्टम् ॥१,९.७ ॥

 

 

देहयष्टिमिमां देव धारयन्त इमे वयम् ।

खिन्नाः खेदपरिम्लाने विभो रामे सुते तव ॥१,९.८ ॥

हे "देव" हे राजन् । "देहयष्टिं" देहलताम् । "रामे" रामाख्ये । "तव सुते" तव सुतनिमित्तम् । चर्मणि द्वीपिनं हन्तीतिवत् ॥१,९.८ ॥

 

 

 

रामो राजीवपत्राक्षो यतःप्रभृति चागतः ।

सविप्रस्तीर्थयात्रायास्ततःप्रभृति दुर्मनाः ॥१,९.९ ॥

स्पष्टम् ॥१,९.९ ॥

 

 

यत्नप्रार्थनयास्माकं निजव्यापारमाह्निकम् ।

सायमम्लानवदनः करोति न करोति वा ॥१,९.१० ॥

स्पष्टम् ॥१,९.१० ॥

 

 

स्नानदेवार्चनाचारपर्यन्ते परिखेदवान् ।

प्रार्थितोऽपि हि ना तृप्तेरश्नात्यशनमीश्वरः ॥१,९.११ ॥

"आ तृप्तेः" तृप्तिपर्यन्तम् ॥१,९.११ ॥

 

 

लोलान्तःपुरनारीभिः कृतदोलाभिरङ्गने ।

न च क्रीडति लीलाभिर्वराद्भिरिव चातकः ॥१,९.१२ ॥

"वराद्भिः" सरोजलैः । "चातकः" पक्षिविशेषः । स हि वर्षाबिन्दूनेव पिबति ॥१,९.१२ ॥

 

 

 

माणिक्यमुक्तासम्प्रोता केयूरकटकावली ।

नानन्दयति तं राजन् द्यौः पातविवशं यथा ॥१,९.१३ ॥

"पातविवशम्" पतन्तम् ॥१,९.१३ ॥

 

 

 

क्रीडद्वधूविलोलेषु वहत्कुसुमवायुषु ।

लतावलयगेहेषु भवत्यतिविषादवान् ॥१,९.१४ ॥

"लतावलयगेहेषु" लतामण्डलयुक्तेषु गृहेषु ॥१,९.१४ ॥

 

 

यद्रम्यमुचितं स्वादु पेशलं चित्तहारि वा ।

बाष्पपूरेक्षण इव तेनैव परिखिद्यते ॥१,९.१५ ॥

स्पष्टम् ॥१,९.१५ ॥

 

 

 

किमिमा दुःखदायिन्यः प्रस्फुरन्ति पुरोगताः ।

इति नृत्तविलासेषु कामिनीः परिनिन्दति ॥१,९.१६ ॥

"इमाः" एताः कामिन्यः ॥१,९.१६ ॥

 

 

 

भोजनं शयनं पानं विलासं स्नानमासनम् ।

उन्मत्तवेष्टितमिव नाभिनन्दति निन्दितम् ॥१,९.१७ ॥

"निन्दितं" निन्दाविषयीकृतम् ॥१,९.१७ ॥

 

 

किं सम्पदा किं विपदा किं गेहेन किमीहितैः ।

सर्वमेवासदित्युक्त्वा तूष्णीमेकोऽवतिष्ठते ॥१,९.१८ ॥

स्पष्टम् ॥१,९.१८ ॥

 

 

नोदेति परिहासेषु न भोगेषु निमज्जति ।

न च तिष्ठति कार्येषु मौनमेवावलम्बते  ॥१,९.१९ ॥

स्पष्टम् ॥१,९.१९ ॥

 

 

 

विलोलालकवल्लर्यो हेलावलितलोचनाः ।

नानन्दयन्ति तं नार्यो मृग्यो वनतरुं यथा ॥१,९.२० ॥

स्पष्टम् ॥१,९.२० ॥

 

 

 

एकान्तेषु दिगन्तेषु तीरेषु विपिनेषु च ।

रतिमायात्यरण्येषु विक्रीतवदजन्तुषु ॥१,९.२१ ॥

"विक्रीतो" हि पलायनार्थं "जन्तुरहिते" एव देशे "रतिमायाति" ॥१,९.२१ ॥

 

 

वस्त्रपानाशनादानपराङ्मुखतया तया ।

परिव्रड्धर्मिणां राजन् सोऽनुयाति तपस्विनाम् ॥१,९.२२ ॥

"तपस्विनामनुयाति" तपस्विसम्बन्धिचरितमनुकरोतीत्यर्थः । न माषाणामश्नीयादितिवत्प्रयोगः ॥१,९.२२ ॥

 

 

एक एव वसन् देशे जनशून्ये जनेश्वर ।

न हसत्येकया बुद्ध्या न गायति न रोदिति ॥१,९.२३ ॥

"एकया बुद्ध्या" सर्वत्यागरूपया मत्या उपलक्षितः ॥१,९.२३ ॥

 

 

पुनः किं करोतीत्यपेक्षायामाह

बद्धपद्मासनः शून्यमना वामकरस्थले ।

कपोलतलमादाय केवलं परितिष्ठति ॥१,९.२४ ॥

स्पष्टम् ॥१,९.२४ ॥

 

 

नाभिमानमुपादत्ते नापि वाञ्छति राजताम् ।

नोदेति नास्तमायाति सुखदुःखानुवृत्तिषु ॥१,९.२५ ॥

स्पष्टम् ॥१,९.२५ ॥

 

 

न विद्मः किमसौ जातः किं करोति किमीहते ।

किं ध्यायति किमायाति कथं किमनुधावति ॥१,९.२६ ॥

"न विद्म" इत्यस्य कर्मापेक्षायामाह "किमसौ जातः" किमर्थमसौ जातः । जननं हि भोगादिसेवनार्थमिति भावः ॥१,९.२६ ॥

 

 

 

प्रत्यहं कृशतां याति प्रत्यहं याति पाण्डुताम् ।

विरागं प्रत्यहं याति शरदन्त इव द्रुमः ॥१,९.२७ ॥

स्पष्टम् ॥१,९.२७ ॥

 

 

अनुयातौ तमेवैतौ राजञ्शत्रुघ्नलक्ष्मणौ ।

तादृशावेव तस्यैव प्रतिबिम्बाविव स्थितौ ॥१,९.२८ ॥

स्पष्टम् ॥१,९.२८ ॥

 

 

भृत्यै राजभिरम्बाभिः स पृष्टोऽपि पुनः पुनः ।

उक्त्वा न किञ्चिदेवेति तूष्णीमास्ते निरीहितः ॥१,९.२९ ॥

"सः" श्रीरामः । निरीहितः चेष्टितरहितः । "इति"शब्दः पादपूरणार्थः श्रीरामोत्तरवाक्यस्वरूपनिर्देशपरो वा ज्ञेयः ॥१,९.२९ ॥

 

 

 

आपातमात्रहृद्येषु मा भोगेषु मनः कृथाः ।

इति पार्श्वगतं भव्यमनुशास्ति सुहृज्जनम् ॥१,९.३० ॥

"भव्यम्" अनुशासनयोग्यम् ॥१,९.३० ॥

 

 

नानाविभवरम्यासु स्त्रीषु गोष्ठीकथासु च ।

पुरःस्थितमिवास्नेहो नाशमेवानुपश्यति ॥१,९.३१ ॥

स्पष्टम् ॥१,९.३१ ॥

 

 

रीतिमाधुर्यसायासपदसंस्थितिवर्जितैः  ।

चेष्टितैरेव काकल्या भूयो भूयः प्रगायति ॥१,९.३२ ॥

सः रामः । "रीतिमाधुर्यसायासपदसंस्थितिवर्जितैः" "चेष्टितैरेव" केवलैः अभिनयैरेवोपलक्षितया "काकल्या" कलसूक्ष्मध्वनिना । "गायति" ॥१,९.३२ ॥

 

 

 

सम्राड्भवेति पार्श्वस्थं वदन्तमनुजीविनम् ।

प्रलपन्तमिवोन्मत्तं हसत्यन्यमना मुनिः ॥१,९.३३ ॥

स्पष्टम् ॥१,९.३३ ॥

 

 

न प्रोक्तमाकर्णयति प्रेक्षते न पुरोगतम् ।

करोत्यवज्ञां सर्वत्र सुमहत्यपि वस्तुनि ॥१,९.३४ ॥

स्पष्टम् ॥१,९.३४ ॥

 

 

अप्याकाशसरोजिन्यामप्याकाशमहावने ।

इत्थमेतत्कथमिति विस्मयोऽस्य न जायते ॥१,९.३५ ॥

विस्मयस्य स्वरूपं दर्शयति "इत्थमेतत्कथम्" इति ॥१,९.३५ ॥

 

 

कान्तामध्यगतस्यापि मनोऽस्य मदनेषवः ।

न भेदयन्ति दुर्भेदं धारा इव महोपलम् ॥१,९.३६ ॥

स्पष्टम् ॥१,९.३६ ॥

 

 

आपदामेकमावासमभिवाञ्छसि किं धनम् ।

अनुशास्येति सर्वस्वमर्थिने सम्प्रयच्छति ॥१,९.३७ ॥

"अनुशास्य" अनुशासनं कृत्वा ॥१,९.३७ ॥

 

 

इयमापदियं संपदित्ययं कल्पनामयः ।

मनस्यभ्युदितो मोह इति शोकात्प्रगायति ॥१,९.३८ ॥

स्पष्टम् ॥१,९.३८ ॥

 

 

हा हतोऽहमनाथोऽहमित्याक्रन्दपरोऽपि सन् ।

न जनो याति वैराग्यं चित्रमित्येव वक्त्यसौ ॥१,९.३९ ॥

आक्रन्दपरस्य वैराग्यं युक्तमेवेत्य्"अपि"शब्देन द्योत्यते ॥१,९.३९ ॥

 

 

 

रघुकाननसालेन रामेण रिपुघातिना ।

भृशमित्थं स्थितेनैव वयं खेदमुपागताः  ॥१,९.४० ॥

स्पष्टम् ॥१,९.४० ॥

 

 

 

न विद्मः किं महाबाहो तस्य तादृशचेतसः ।

कुर्मः कमलपत्राक्ष गतिरत्र हि नो भवान् ॥१,९.४१ ॥

स्पष्टम् ॥१,९.४१ ॥

 

 

राजानमथ वा विप्रमुपदेष्टारमग्रगम् ।

हसन् पशुमिवाव्यग्रः सोऽवधीरयति प्रभो ॥१,९.४२ ॥

स्पष्टम् ॥१,९.४२ ॥

 

 

प्रपञ्चोऽयमिह स्फारं जगन्नाम यदुत्थितम् ।

नैतद्वस्तु न चैवाहमिति निर्णीय संस्थितः ॥१,९.४३ ॥

यः "अयं प्रपञ्चः उत्थितम्" इदं "स्फारं जगन्नाम" भवति । "एतद्" "वस्तु" परमार्थसत् । "न" भवति । "एव"शब्दः अपिशब्दस्यार्थे । "अहम्" अपि "वस्तु न च" भवामि । "इति" एवम् । "निर्णीया"सौ रामः "संस्थितः" ॥१,९.४३ ॥

 

 

नारौ नात्मनि नो मित्रे न राज्ये न च मातरि ।

न संपदापदोर्नान्तस्तस्यास्था न विभोर्बहिः ॥१,९.४४ ॥

"आस्था" रतिः ॥१,९.४४ ॥

 

 

 

निरस्तास्थो निराशोऽसौ निरीहोऽसौ निरास्पदः ।

मोहे न च विमुक्तोऽसौ तेन तप्यामहे वयम् ॥१,९.४५ ॥

स्पष्टम् ॥१,९.४५ ॥

 

 

किं धनेन किमम्बाभिः किं राज्येन किमीहया ।

इति निश्चयवानन्तः प्राणत्यागमनाः स्थितः ॥१,९.४६ ॥

स्पष्टम् ॥१,९.४६ ॥

 

 

भोगेष्वायुषि राज्ये च मित्रे पितरि मातरि ।

परमुद्वेगमायातश्चातकोऽवग्रहे यथा ॥१,९.४७ ॥

स्पष्टम् ॥१,९.४७ ॥

 

 

तस्य तादृक्स्वभावस्य समग्रविभवान्वितम् ।

संसारजालमाभोगि प्रभो प्रतिविषायते ॥१,९.४८ ॥

प्रतिविषमिवाचरते "प्रतिविषायते" ॥१,९.४८ ॥

 

 

तादृशः स्यान्महासत्त्वः क इवास्मिन्महीतले ।

प्रकृते व्यवहारे तं यो निवेशयितुं क्षमः ॥१,९.४९ ॥

स्पष्टम् ॥१,९.४९ ॥

 

 

इति नो येयमायाता शाखाप्रसरशालिनी ।

आपत्तामलमुद्धर्तुं समुदेतु दया परा ॥१,९.५० ॥

"समुदेतु" तवेति शेषः ॥१,९.५० ॥

 

 

सर्गान्तश्लोकेन रामभृत्यवचनं समापयति

मनसि मोहमपास्य महामनाः

सकलमार्तिमतः किल साधुताम् ।

सफलतां नयतीह तमो हरन्

दिनकरो भुवि भास्करतामिव ॥१,९.५१ ॥

"महामनाः" पुरुषः । "आर्तिमतः" आर्तियुक्तस्य पुरुषस्य । "मनसि सकलं मोहम्" आर्तिस्वरूपं समस्तं मोहम् । "अपास्य" दूरीकृत्य । "साधुताम्" स्वस्मिन् स्थितं साधुभावम् । "सफलतां नयति" । क "इव" । "दिनकर इव" । यथा "दिनकरः" "भुवि" "तमः" "हरन्" "भास्करताम्" "सफलतां" "नयति" । तथेत्यर्थः । इति शिवम् ॥१,९.५१ ॥

 

 

 

 

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे नवमः सर्गः ॥ १,९ ॥