मोक्षोपायटीका/वैराग्यप्रकरणम्/सर्गः २६

विकिस्रोतः तः
← सर्गः २५ मोक्षोपायटीका/वैराग्यप्रकरणम्
भास्करकण्ठः
सर्गः २७ →
मोक्षोपायटीका/वैराग्यप्रकरणम्



पुनरपि संसारदुर्विलसितमेव कथयति

अन्यच्च तातातितरामरम्ये

मनोरमे वेह जगत्स्वरूपे ।

न किञ्चिदप्येति तदर्थजातं

येनातिविश्रान्तिमुपैति चेतः ॥ १,२६.१ ॥

अहं ब्रवीमीति शेषः । हे "ताता"हम् "अन्यच्च" ब्रवीमि । किं ब्रवीषीत्यपेक्षायामाह्"आतितराम्" इति । "मनोरमे वा" मनोरमे इव । "अर्थजातम्" पदार्थसमूहः । अत्यन्तविश्रान्तौ हि सत्यामन्यार्थविषयाकाङ्क्षा न पुनरुद्भवेदिति भावः ॥ १,२६.१ ॥

 

 

 

बाल्ये गते कल्पितकेलिलोले

वयोमृगे दारदरीषु कीर्णे ।

शरीरके जर्जरतां प्रयाते

विदूयते केवलमेव लोकः ॥ १,२६.२ ॥

"वयोमृगे" यौवनाख्ये मृगे । "जर्जरतां" वृद्धत्वम् । "विदूयते" सन्तप्यते ॥ १,२६.२ ॥

 

 

जरातुषाराभिहतां शरीर

सरोजिनीं दूरतरे विहाय ।

क्षणाद्गते जीवितचञ्चरीके

जनस्य संसारसरो विशुष्कम् ॥ १,२६.३ ॥

"विहाय" त्यक्त्वा । "जीवितचञ्चरीके" जीविताख्ये भ्रमरे ॥ १,२६.३ ॥

 

 

यदा यदा पाकमुपैति नूनं

तदा तदेयं नवमातनोति ।

जराभरानल्पनवप्रसूनं

विजर्जरा कायलता नराणाम् ॥ १,२६.४ ॥

"नूनं" निश्चये । "नवम्" इति क्रियाविशेषणम् । तेन न पौनरुक्त्यम् । आश्चर्यं च पाकं गतायाः लतायाः नवप्रसूनस्य नवमातननम् ॥ १,२६.४ ॥

 

 

तृष्णानदी सारतरप्रवाह

ग्रस्ताखिलानन्तपदार्थजाता ।

तटस्थसन्तोषसुवृक्षमूल

निकाषदक्षा वहतीह लोके ॥ १,२६.५ ॥

स्पष्टम् ॥ १,२६.५ ॥

 

 

शरीरनौश्चर्मनिबद्धबन्धा

भवाम्बुधावालुलिता भ्रमन्ती ।

प्रव्रोड्यते पञ्चभिरिन्द्रियाख्यैर्

अधो वहन्ती मकरैरधीना ॥ १,२६.६ ॥

"पञ्चभिर्" "इन्द्रियाख्यैः" "मकरैः" "शरीरनौः" "प्रव्रोड्यते" मग्ना सम्पाद्यते इति सम्बन्धः । "आलुलितं" समन्ताच्चञ्चलम् ॥ १,२६.६ ॥

 

 

 

तृष्णालताकाननचारिणोऽमी

शाखाशतं काममहीरुहेषु ।

परिभ्रमन्तः क्षपयन्ति कामम्

मनोमृगा नो फलमाप्नुवन्ति ॥ १,२६.७ ॥

"कामं" निश्चये । "तृष्णालतानां" यत्"काननम्" । तत्र "चरन्ती"ति तादृशास्। तथा "परिभ्रमन्तः" परिभ्रमणशीलाः । "अमी" "मनोमृगाः" । "काममहीरुहेषु" काननगतेषु परमकामाख्यवृक्षेषु । गतम् "शाखाशतं" । अर्थातवान्तरकामरूपं "शाखाशतं" । "क्षपयन्ति" चालयन्ति । स्वविषयं कुर्वन्तीति यावत् । तथापि "फलं" "नो" "आप्नुवन्ति" ॥ १,२६.७ ॥

 

 

 

कृच्छ्रेषु दूरास्तविषादमोहाः

स्वाम्येष्वनुत्सिक्तमनोऽभिरामाः ।

सुदुर्लभाः सम्प्रति सुन्दरीभिर्

अनाहतान्तःकरणा महान्तः ॥ १,२६.८ ॥

"कृच्छ्रेषु" आपत्सु । "स्वाम्येषु" सम्पत्सु । "अनुत्सिक्तं" दर्परहितं सत् । "मनः" । तेन्"आभिरामाः" ॥ १,२६.८ ॥

 

 

 

तरन्ति मातङ्गघटातरङ्गं

रणाम्बुधिं ये मयि ते न शूराः ।

शूरास्त एवेह मनस्तरङ्गं

ये स्वेन्द्रियाम्भोधिमिमं तरन्ति ॥ १,२६.९ ॥

स्पष्टम् ॥ १,२६.९ ॥

 

 

 

अक्लिष्टपर्यन्तफलाभिरामा

न दृश्यते कस्यचिदेव काचित् ।

क्रिया दुराशाहतचित्तवृत्तेर्

यामेत्य विश्रान्तिमुपैति लोकः ॥ १,२६.१० ॥

स्पष्टम् ॥ १,२६.१० ॥

 

 

कीर्त्या जगद्दिक्कुहरं प्रतापैः

श्रिया गृहं सत्त्वबलेन लक्ष्मीम् ।

ये पूरयन्त्यक्षतधैर्यबन्धा

न ते जगत्यां सुलभा महान्तः ॥ १,२६.११ ॥

स्पष्टम् ॥ १,२६.११ ॥

 

 

अप्यन्तरस्थं गिरिशैलभित्तेर्

वज्रालयाभ्यन्तरसंस्थितं वा ।

सर्वं समायान्ति समिद्धवेगाः

सर्वाः श्रियः सन्ततमापदश्च ॥ १,२६.१२ ॥

शिलानामियं शैला । सा चासौ भित्तिः "शैलभित्तिः" । गिरेः शैलभित्तिः "गिरिशैलभित्तिस्" । तस्याः ॥ १,२६.१२ ॥

 

 

 

पुत्राश्च दाराश्च धनं च बुद्ध्या

प्रकल्प्यते तात रसायनं च ।

सर्वं तु तन्नाम करोत्यथान्ते

यत्रातिरम्या विषमूर्छनैव ॥ १,२६.१३ ॥

"प्रकल्प्यते" कल्पनया भाव्यते । "रसायनम्" । अमृतमिव । "च"शब्द इवार्थः । "अन्ते" परिणामे ॥ १,२६.१३ ॥

 

 

विषादयुक्तो विषमामवस्थाम्

उपागतः कायवयोऽवसाने ।

भावान् स्मरन् स्वानभिधर्मरिक्ताञ्

जनो जरावानभिदह्यतेऽन्तः ॥ १,२६.१४ ॥

"कायवयोऽवसाने" वृद्धत्वे । "भावान्" अभिलाषान् । अभितः धर्मेण रिक्तान् "अभिधर्मरिक्तान्" । "अन्तः" मनसि ॥ १,२६.१४ ॥

 

 

 

कामार्थधर्माप्तिकृशान्तराभिः

क्रियाभिरादौ दिवसानि नीत्वा ।

चेतश्चलद्बर्हिणपिञ्छलोलं

विश्रान्तिमागच्छतु केन पुंसाम्  ॥ १,२६.१५ ॥

"कामार्थधर्माणां" या "आप्तिः" । तया "कृशान्तराभिः" निःसाराभिः । मोक्षार्थं न कश्चित्क्रियां करोतीति भावः ॥ १,२६.१५ ॥

 

 

 

पुरोगतैरप्यनवाप्तरूपैस्

तरङ्गिणीतुङ्गतरङ्गकल्पैः ।

क्रियाफलैः दैववशादुपेतैर्

विडम्ब्यते भिन्नरुचिर्हि लोकः ॥ १,२६.१६ ॥

"हि" निश्चये । "विडम्ब्यते" वञ्च्यते । "क्रियाफलानां" च "अनवाप्तरूप"त्वं क्षणनश्वरत्वेन ज्ञेयम् ॥ १,२६.१६ ॥

 

 

इमान्यमूनीति विभावितानि

कार्याण्यपर्यन्तमनोरमाणि ।

जनस्य जायाजनरञ्जनेन

जटाजरान्तं जरयन्ति चेतः ॥ १,२६.१७ ॥

"जायाजनरञ्जनेने"ति हेतौ तृतीया । "जटानां" या "जरा" । तद्"अन्तम्" ॥ १,२६.१७ ॥

 

 

 

पर्णानि शीर्णानि यथा तरूणां

समेत्य जन्माशु लयं प्रयान्ति ।

तथैव लोकाः स्वविवेकहीनाः

समेत्य गच्छन्ति कुतोऽप्यहोभिः ॥ १,२६.१८ ॥

"स्वविवेकहीनाः" आत्मविचाररहिताः ॥ १,२६.१८ ॥

 

 

इतस्ततो दूरतरं विहृत्य

प्रविश्य गेहं दिवसावसाने ।

विवेकिलोकाश्रयिसाधुकर्म

रिक्तेऽह्नि याते क उपैति निद्राम् ॥ १,२६.१९ ॥

स्पष्टम् ॥ १,२६.१९ ॥

 

 

विद्राविते शत्रुजने समस्ते

समागतायामभितश्च लक्ष्म्याम् ।

सेव्यन्त एतानि सुखानि यावत्

तावत्समायाति कुतोऽपि मृत्युः  ॥ १,२६.२० ॥

स्पष्टम् ॥ १,२६.२० ॥

 

 

 

कुतोऽपि संवर्धिततुच्छरूपैर्

भावैरमीभिः क्षणदृष्टनष्टैः ।

विलोभ्यमाना जनता जगत्यां

न वेत्त्युपायातमहो न यातम् ॥ १,२६.२१ ॥

"कुतोऽपि" अनिर्वाच्यात्कस्माच्चिद्वस्तुनः । "भावैः" पदार्थैः । "उपायातम्" भावविषयजन्म । "यातम्" भावविषयसरणम् ॥ १,२६.२१ ॥

 

 

यियासुभिः कालमुखं क्रियन्ते

जनैडकैस्ते हतकर्मबन्धाः ।

ये पीनतामेव बलादुपेत्य

शरीरबन्धे ननु ते भवन्ति ॥ १,२६.२२ ॥

"जनैडकैः" जनाख्यैः मेषैः । "ते" "हतकर्मबन्धाः" कुत्सितकर्मप्रपञ्चाः । "क्रियन्ते" । "ते" के । "ये" प्रतिस्वं स्थिताः" "ये "बलाद्" हठेन । "पीनताम्" "एव" न तु क्षीनताम् । "एत्य" आगत्य । "ते" तव । "शरीरबन्धे" शरीरबन्धार्थम् । "ननु" "भवन्ति" निश्चयेन भवन्तीत्यर्थः । कर्मवशादेव हि पुरुषः देहबन्धं प्राप्नोति ॥ १,२६.२२ ॥

 

 

 

अजस्रमागच्छति सत्वरेयम्

अनारतं गच्छति सत्वरैव ।

कुतोऽपि लोला जनता जगत्यां

तरङ्गमाला क्षणभङ्गुरेव ॥ १,२६.२३ ॥

"जनता" जनसमूहः ॥ १,२६.२३ ॥

 

 

प्राणापहारैकपरा नराणाम्

मनो मनोहारितया हरन्ति ।

रक्तच्छदाः षट्पदचञ्चलाक्ष्यो

विषद्रुमालोललताः स्त्रियश्च ॥ १,२६.२४ ॥

"हरन्ति" स्ववशीकुर्वन्ति मोहयन्ति च । "रक्तच्छदाः" रक्तपत्त्राः रक्ताधराश्च । "लोललताः" लोलशाखाः । लक्षणया लोलभुजाश्च ॥ १,२६.२४ ॥

 

 

इतोऽन्यतश्चोपगता मुधैव

समानसङ्केतनिबन्धभावा ।

यात्रासमासङ्गसमा नराणां

कलत्रमित्रव्यवहारमाया ॥ १,२६.२५ ॥

"सङ्केतः" गन्तव्यो देशः । यथा "यात्रायाम्" मार्गे जना अन्योऽन्यं रात्रौ मिलित्वा प्रभाते "समानं" गन्तव्यं देशं गच्छन्ति । तथा संसारेऽपि पुत्रादिभिः मिलित्वा मृत्वा परलोकाख्यं देशं गच्छन्ति । अतस्तेषु भावबन्धनं न युक्तमिति भावः ॥ १,२६.२५ ॥

 

 

 

प्रदीपशान्तिष्विव भुक्तभूरि

दशास्वतिस्नेहनिबन्धनीषु ।

संसारमायासु चलाचलासु

न ज्ञायते तत्त्वमतात्त्विकीषु ॥ १,२६.२६ ॥

"अतिस्नेहः" रागाधिक्यं तैलाधिक्यं च । स "निबन्धनं" कारणं यासाम् । ताः । तादृशीषु "चलाचलासु" अतिचञ्चलासु । "अतात्त्विकीषु" असत्यासु ॥ १,२६.२६ ॥

 

 

संसारसंरम्भकुचक्रिकेयम्

प्रावृट्पयोबुद्बुदभङ्गुरापि ।

असावधानस्य जनस्य बुद्धौ

चिरस्थिरप्रत्ययमातनोति ॥ १,२६.२७ ॥

अत्यन्तं भ्रम्यमाणा "चक्रिकापि" "असावधानस्य" "जनस्य" "बुद्धौ" "स्थिरताप्रत्ययम्" आदधाति । अत्यन्तवैराग्याविष्टत्वात्"कु"शब्दप्रयोगः ॥ १,२६.२७ ॥

 

 

शोभोज्ज्वला दैन्यवशाद्विनष्टा

गुणाः स्थिताः सम्प्रति जर्जरत्वे ।

आश्वासना दूरतरं प्रयाता

जनस्य हेमन्त इवाम्बुजस्य ॥ १,२६.२८ ॥

"जर्जरत्वे "नाशौन्मुख्ये । "जनस्याश्वासना" जनकर्तृकम् "आश्वासनम्" ॥ १,२६.२८ ॥

 

 

 

पुनः पुनर्दैववशादुपेत्य

स्वदेहभारेण कृतापकारः ।

विलूयते यत्र तरुः कुठारैर्

आश्वासने तत्र हि कः प्रसङ्गः ॥ १,२६.२९ ॥

"यत्र" "दैववशात्" "पुनः पुनः उपेत्य" उपागत्य । "स्वदेहभारेण" शाखोपशाखभारेण । "कृतः अपकारो" यस्य । सः "तरुः कुठारैः" जनेन "लूयते" । "हि" निश्चये । "तत्र" तस्मिन् संसारे । "आश्वासने कः प्रसङ्गः" का युक्तता भवति । "उपेत्ये"त्यस्य "कृते"त्यनेन सहैककर्तृत्वं बृहद्भयाय एव भवतीति भावः ॥ १,२६.२९ ॥

 

 

 

मनोरमस्याप्यतिदोषवृत्तेर्

अन्तर्विघाताय समुत्थितस्य ।

विषद्रुमस्येव जनस्य सङ्गाद्

आसाद्यते सम्प्रति मूर्च्छनैव ॥ १,२६.३० ॥

"अति"शयेन "दोषे वृत्तिर्" यस्य । सः । तस्य ॥ १,२६.३० ॥

 

 

 

कास्ता दृशो यासु न सन्ति दोषाः

कास्ता दिशो यासु न दुःखदाहः ।

कास्ताः प्रजा यासु न भङ्गुरत्वं

कास्ताः क्रिया यासु न नाम माया ॥ १,२६.३१ ॥

"माया" कपटः ॥ १,२६.३१ ॥

 

 

 

कल्पाभिधानक्षणजीविनोऽपि

कल्पौघसङ्ख्याकलने विरिञ्चाः ।

अतः कलाशालिनि कालजाले

लघुत्वदीर्घत्वधियोऽप्यसत्याः ॥ १,२६.३२ ॥

"कल्पौघानां" "कलने" गणने । क्रियमाणे इति शेषः । क्रियमाणे सति "विरिञ्चा" "अपि" ब्रह्माणः अपि । "कल्पाभिधानक्षणजीविनः" भवन्ति । फलितमाह्"आत" इति । "कलाः" कल्पादिरूपाः । ताभिह्"शालिनि" ॥ १,२६.३२ ॥

 

 

 

सर्वत्र पाषाणमया महीध्रा

मृदा मही दारुभिरेव वृक्षाः ।

मांसैर्जनाः पौरुषबद्धभावा

नापूर्वमस्तीह विकारहीनम् ॥ १,२६.३३ ॥

"पौरुषे" पुरुषकारे । "बद्धाः" "भावाः" येषाम् । ते ॥ १,२६.३३ ॥

 

 

 

आलोक्यते चेतनयानुविद्धः

पयोनिबद्धोऽणुचयो नभःस्थः ।

पृथग्विभागेन पदार्थलक्ष्म्या

एतज्जगन्नेतरदस्ति किञ्चित् ॥ १,२६.३४ ॥

"चेतनया" "अनुविद्धः" व्याप्तः । "नभःस्थः पयोनिबद्धः" जलावष्टब्धः । "अणुचयः" परमाणुसमूहः । "पदार्थलक्ष्म्याः पृथग्विभागेन" पदार्थलक्ष्मीसम्बन्धिना पृथक्विभागेन । "आलोक्यते" । उक्तविशेषणाः परमाणव एव नानार्थभावेन दृश्यन्ते इति यावत् । "एतज्जगद्" अस्ति । "इतरत्" अन्यत् । "किञ्चिज्जगन्" "नास्ति" । पदार्थनानाभावस्यैव जगत्त्वात् । अतश्चात्र किं रम्यत्वं किं वारम्यत्वमिति भावः ॥ १,२६.३४ ॥

 

 

 

चमत्कृतिश्चेह मनस्विलोके

चेतश्चमत्कारकरी नराणाम् ।

स्वप्नेऽपि साधो विषयं कदाचित्

केषाञ्चिदप्येति न चित्ररूपा ॥ १,२६.३५ ॥

"इह" संसारे । "मनस्विलोके" इति निर्धारणे । तेषामपि मनस्विनां मध्ये संसारे चित्तानन्दकरी "केषामपि" "चमत्कृतिर्" नास्तीति पिण्डार्थः ॥ १,२६.३५ ॥

 

 

अद्यापयाते त्वपि कल्पनाया

आकाशवल्लीफलवन्महत्त्वे ।

उदेति नालोभलवाहतानाम्

उदारवृत्तान्तमयी कथैव ॥ १,२६.३६ ॥

"अद्या"स्मिन् वैराग्यसमये । "कल्पनायाः" संसारकल्पनायाः । "उदारवृत्तान्तमयी" "कथा" अध्यात्मशास्त्रकथा । "अलोभलवाहतानां" लोभरहितानामस्माकमित्यर्थः । एतदनुभवे तु का कथेत्य्"एव"शब्दाभिप्रायः ॥ १,२६.३६ ॥

 

 

 

आदातुमिच्छन् पदमुत्तमानां

स्वचेतसैवोपहतोऽद्य लोकः ।

पतत्यशङ्कं पशुरद्रिकूटाद्

आनीलवल्लीदलवाञ्छयेव ॥ १,२६.३७ ॥

स्पष्टम् ॥ १,२६.३७ ॥

 

 

अवान्तरन्यस्तनिरर्थकांस

च्छायालतापत्त्रफलप्रसूनाः ।

शरीर एव क्षतसम्पदश्च

श्वभ्रद्रुमा अद्यतना नराश्च ॥ १,२६.३८ ॥

"श्वभ्रद्रुमाः" कथम्भूताः । "अवान्तरे" न तु विश्रान्तिस्थाने । "न्यस्तानि" स्थापितानि । "निरर्थकानि" अन्येषामुपयोगित्वाभावेन अर्थशून्यानि । "अंसच्छायालतापत्त्रफलप्रसूनानि" यैः । ते । "अद्यतनाः" "नराः" कथम्भूताः । "शरीरे एव "स्वशरीरार्थमेव । न तु परोपकारार्थम् । "क्षतसम्पदः" । "अंस"शब्दोऽत्र लक्षणया द्रुमस्कन्दवाचकः । अन्यत्स्वयमभ्यूहम् ॥ १,२६.३८ ॥

 

 

 

क्वचिज्जना मार्दवसुन्दरेषु

क्वचित्करालेषु च सञ्चरन्ति ।

दशान्तरालेषु निरन्तरेषु

वनान्तषण्डेष्विव कृष्णशाराः ॥ १,२६.३९ ॥

"दशान्तरालेषु" दशामध्येषु ॥ १,२६.३९ ॥

 

 

 

धातुर्नवानि दिवसं प्रति भीषणानि

रम्याणि चावलुलिताखिलमानवानि ।

कार्याणि कष्टफलपाकहतोदयानि

विस्मापयन्ति न शठस्य मनांसि केषाम् ॥ १,२६.४० ॥

"धातुः" दैवस्य । "दिवसम्" "प्रति" प्रतिदिवसम् । "अवलुलिताः" चाञ्चल्यं नीताः । "अखिलाः" "मानवाः" यैः । तानि । "शठस्ये"ति धातारं प्रति कोपातिशयं सूचयति ॥ १,२६.४० ॥

 

 

 

सर्गान्तश्लोकेनैतत्समापयति

जनः कामासक्तो विविधकुकलावेदनपरः

समः स्वप्नेऽप्यस्मिञ्जगति सुलभो नाद्य सुजनः ।

क्रिया दुःखासङ्गाद्विधुरविधुरा नूनमखिला

न जाने नेतव्या कथमिव दशा जीवितमयी ॥ १,२६.४१ ॥

"कामासक्तः" स्वप्नयोजनमात्रपरः । "आवेदनम्" प्रकटीकरणम् । इति शिवम् ॥ १,२६.४१ ॥

 

 

 

 

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे षड्विंशः सर्गः ॥ १,२६ ॥