मोक्षोपायटीका/वैराग्यप्रकरणम्/सर्गः २८

विकिस्रोतः तः
← सर्गः २७ मोक्षोपायटीका/वैराग्यप्रकरणम्
भास्करकण्ठः
सर्गः २९ →
मोक्षोपायटीका/वैराग्यप्रकरणम्



एवं जगद्विपर्यासमुक्त्वा तत्कृतां विरक्ततां प्रतिपादयति

इति मेधोपदावाग्निदग्धे महति चेतसि ।

प्रस्फुरन्ति न भोगाशा मृगतृष्णाः सरस्स्विव ॥ १,२८.१ ॥

"इति मेधा" एव "उपदावाग्नि" दवाग्निसमीपम् । तेन "दग्धे" ॥ १,२८.१ ॥

 

 

 

प्रत्यहं चातिकटुतामेति संसारसंस्थितिः ।

कालपाकवशोल्लासिरसा निम्बलता यथा ॥ १,२८.२ ॥

"कालेन" यः "पाकः" । तस्य "वशेन" "उल्लासी रसः" । यस्याः । सा ॥ १,२८.२ ॥

 

 

 

वृद्धिमायाति दौर्जन्यं सौजन्यं याति तानवम् ।

करञ्जकर्कशे राजन् प्रत्यहं जनचेतसि ॥ १,२८.३ ॥

"राजन्न्" इति दशरथं प्रति कथनम् । "करञ्ज"वत्कण्टकवत् । "कर्कशे" । अतो जनसङ्गान्मम विरतिः जातेति भावः । एवमुत्तरत्रापि भावयोजना कार्या ॥ १,२८.३ ॥

 

 

 

भज्यते भुवि मर्यादा झगित्येव दिशं प्रति ।

शुष्केव माषशिमिका टाङ्कारकठिनारवम् ॥ १,२८.४ ॥

स्पष्टम् ॥ १,२८.४ ॥

 

 

राज्येभ्यो भोगपूगेभ्यश्चिन्तावन्तो महीश्वराः  ।

निरस्तचिन्ताकलिका वरमेकान्तशीलता ॥ १,२८.५ ॥

"राज्येभ्यः" राज्यार्थम् । फलितमाह "निरस्ते"ति । अत इत्यध्याहार्यम् ॥ १,२८.५ ॥

 

 

 

नानन्दाय ममोद्यानं न सुखाय मम श्रियः ।

न हर्षाय ममार्थाशा शाम्यामि मनसा सह ॥ १,२८.६ ॥

"शाम्यामि" नकिञ्चिद्भावनारूपां शान्तिं गच्छामि ॥ १,२८.६ ॥

 

 

 

अनित्यश्चासुखो लोकस्तृष्णा तात दुरुत्सहा ।

चापलोपहतं चेतः कथं यास्यामि निर्वृतिम् ॥ १,२८.७ ॥

स्पष्टम् ॥ १,२८.७ ॥

 

 

नाभिनन्दामि मरणं नाभिनन्दामि जीवितम् ।

यथा तिष्ठामि तिष्ठामि तथैव विगतज्वरम् ॥ १,२८.८ ॥

अनेन च जीवन्मुक्तपदप्राप्तिः सूचिता । यथास्थितत्वं हि जीवन्मुक्तिं विना न सम्भवति ॥ १,२८.८ ॥

 

 

किं मे राज्येन किं भोगैः किमर्थेन किमीहितैः ।

अहङ्कारवशादेतत्स एव गलितो मम ॥ १,२८.९ ॥

अहङ्काराभावे हि नकिञ्चिद्रूपः पुरुषः किं राज्यादिभिः करोति ॥ १,२८.९ ॥

 

 

जन्मावलिवरत्रायामिन्द्रियग्रन्थयो दृढाः ।

ये लग्नास्तद्विमोक्षार्थं ये यतन्ते त उत्तमाः ॥ १,२८.१० ॥

"तद्विमोक्षार्थम्" इन्द्रियग्रन्थीनां विमोक्षार्थम् ॥ १,२८.१० ॥

 

 

दलितं मानिनीलोकैर्मनो मकरकेतुना  ।

कोमलं खुरनिष्पेषैः कमलं करिणा यथा ॥ १,२८.११ ॥

"मानिनीलोकैर्" इति करणे तृतीया । "मकरकेतुने"ति कर्तरि ॥ १,२८.११ ॥

 

 

 

अद्य चेत्स्वस्थया बुद्ध्या मुनीन्द्र न चिकित्स्यते ।

भूयश्चित्तचिकित्सायां कः किलावसरः कुतः ॥ १,२८.१२ ॥

"अद्य" सकलसामग्र्यान्विते समये ।" स्वस्थया" सामग्रीचिन्ताहीनया ॥ १,२८.१२ ॥

 

 

 

ननु विषयसेवनं त्यक्त्वा किमर्थं चिकित्सापरो भवतीत्य् । अत्राह

विषं विषयवैषम्यं न विषं विषमुच्यते ।

जन्मान्तरघ्ना विषया एकदेहहरं विषम् ॥ १,२८.१३ ॥

"विषय"कृतं "वैषम्यम्" "विषयवैषम्यम्" । जन्मान्तरे घ्नन्ति "जन्मान्तरघ्नाः" वासनारूपेण स्थितत्वात् ॥ १,२८.१३ ॥

 

 

ते एव त्वां कथं त्यजन्तीत्य् । अत्राह

न सुखानि न दुःखानि न मित्राणि न बन्धवः ।

न जीवितं न मरणं बन्धाय ज्ञस्य चेतसः ॥ १,२८.१४ ॥

"बन्धाय" रागद्वेषरूपबन्धार्थम् । "ज्ञस्य" विवेकयुक्तस्य ॥ १,२८.१४ ॥

 

 

 

ननु तव ज्ञत्वं कुतोऽस्तीत्यपेक्षायां ज्ञत्वकरणमेव प्रार्थयते

तद्भवामि यथा ब्रह्मन् पूर्वापरविदां वर ।

वीतशोकभयायासो ज्ञस्तथोपदिशाशु मे ॥ १,२८.१५ ॥

स्पष्टम् ॥ १,२८.१५ ॥

 

 

 

वासनाजालवलिता दुःखकण्टकसङ्कटा  ।

निपातोत्पातबहला भीमरूपाज्ञताटवी ॥ १,२८.१६ ॥

स्पष्टम् ॥ १,२८.१६ ॥

 

 

 

क्रकचोग्रविनिष्पेषं सोढुं शक्तोऽस्म्यहं मुने ।

संसारव्यवहारोत्थं नाशाविषमवैशसम् ॥ १,२८.१७ ॥

"आशया" कृतं "विषमं" कठिनम् ।" वैशसं" हिंसनम् । "आशाविषमवैशसम्" ॥ १,२८.१७ ॥

 

 

इदं नास्तीदमस्तीति व्यवहारिजनभ्रमः ।

धुनोतीदं चलं चेतो रजोराशिमिवानिलः ॥ १,२८.१८ ॥

"धुनोति" कम्पयति ॥ १,२८.१८ ॥

 

 

तृष्णातन्तुलवप्रोतजीवसञ्चयमौक्तिकम् ।

चिदच्छाङ्गतया नित्यं प्रकटं चित्तनायकम्  ॥ १,२८.१९ ॥

संसारहारमरतिः कालव्यालविभूषणम् ।

त्रोटयाम्यहमक्रूरां वागुरामिव केसरी ॥ १,२८.२० ॥

"चिद्" एव "अच्छम्" "अङ्गं" स्वरूपम् । यस्य । सः । तस्य भावः तत्"ता" । तया । चिन्मयत्वेनेत्यर्थः । "प्रकटं" वेद्यतां गतम् । अन्यथा ह्यचिन्मयत्वाद्वेद्यं कथं स्यात् । चिदविरुद्धस्य चिद्विषयीभूतस्यैव वेद्यत्वयोगात् । हारोऽपि "प्रकटो" विशदो भवति । "चित्तम्" एव "नायकः" उत्पादकः मध्यमणिश्च यस्य । तम् । "अक्रूरां" कोमलाम् ॥ १,२८.१९२० ॥

 

 

 

नीहारं हृदयाटव्यां मनस्तिमिरमाशु मे ।

केनचिज्ज्ञानदीपेन भिन्द्धि तत्त्वविदां वर ॥ १,२८.२१ ॥

"हृदयं" हृत्कमलमेव "अटवी" अरण्यम् । तत्र "नीहारं" । "केनचित्" मया वक्तुमशक्येनेत्यर्थः ॥ १,२८.२१ ॥

 

 

विद्यन्त एवेह न ते महात्मन्

दुराधयो न क्षयमाप्नुवन्ति ।

ये सङ्गमेनोत्तममानसानां

निशातमांसीव निशाकरेण ॥ १,२८.२२ ॥

हे "महात्मन्" । "इह" लोके । "ते" "दुराधयो न" "विद्यन्ते" "ये उत्तमानां सङ्गमेन क्षयं नाप्नुवन्ति" उत्तममानससङ्गमेन दुराधयो नश्यन्तीति भवः ॥ १,२८.२२ ॥

 

 

सर्गान्तश्लोकेनैतत्समापयति

आयुर्वायुविघट्टिताब्जपटलीलम्बाम्बुवद्भङ्गुरम्

भोगा मेघवितानमध्यविलसत्सौदामिनीचञ्चलाः  ।

लोलो यौवनलालनाजलरयश्चेत्याकलय्य द्रुतम्

मुद्रैवाद्रिदृढार्पिता ननु मया चित्ते चिरं शान्तये ॥ १,२८.२३ ॥

"वितानं" समूहः । "लालना "विलासः । "मुद्रा "मौनम् । विषयावेदनमिति यावत् । कथम्भूता । "अद्रि"वत्पर्वतवत् । "दृढा" । इति शिवम् ॥ १,२८.२३ ॥

 

 

 

 

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे अष्टाविंशः सर्गः ॥ १,२८ ॥