मोक्षोपायटीका/वैराग्यप्रकरणम्/सर्गः १५

विकिस्रोतः तः
← सर्गः १४ मोक्षोपायटीका/वैराग्यप्रकरणम्
भास्करकण्ठः
सर्गः १६ →
मोक्षोपायटीका/वैराग्यप्रकरणम्



एवमहङ्कारनिन्दां कृत्वा चित्तनिन्दां प्रस्तौति

दोषैर्जर्जरतां यातं सत्कार्यादार्यसेवितात् ।

वातात्तपिञ्छलववच्चेतश्चलति चञ्चलम् ॥१,१५.१ ॥

"दोषैः" रागादिदोषैः । "सत्कार्यात्" "चलति" सत्कार्ये स्थैर्येण न तिष्ठतीत्यर्थः ॥१,१५.१ ॥

 

 

 

इतश्चेतश्च सुव्यग्रं व्यर्थमेवाभिधावति ।

दूराद्दूरतरं दीनं ग्रामे कौलेयको यथा ॥१,१५.२ ॥

"कौलेयकः" श्वा ॥१,१५.२ ॥

 

 

 

न प्राप्नोति क्वचित्किञ्चित्प्राप्तैरपि महाधनैः ।

नान्तः सम्पूर्णतामेति करण्डक इवाम्बुभिः ॥१,१५.३ ॥

किञ्चित्प्राप्तो हि पुनः किञ्चिद्"अपि" न प्रार्थयेदिति भावः ॥१,१५.३ ॥

 

 

 

नित्यमेव मनः शून्यं कदाशावागुरावृतम् ।

न मनाङ्निर्वृतिं याति मृगो यूथादिव च्युतः ॥१,१५.४ ॥

 

 

 

"शून्यं" निःसारम् ॥१,१५.४ ॥

 

 

तरङ्गतरलां वृत्तिं दधदालूनशीर्णताम् ।

परित्यज्य क्षणमपि न मनो याति निर्वृतिम् ॥१,१५.५ ॥

 

 

 

"आलूनशीर्णतां" हस्तस्पर्शासहत्वम् । मतिचाञ्चल्यमिति यावत् ॥१,१५.५ ॥

 

 

 

मनो मननविक्षुब्धं दिशो दश विधावति ।

मन्दराहननोद्भूतं क्षीरार्णवपयो यथा ॥१,१५.६ ॥

"मननविक्षुब्धम्" भोगानुसन्धानक्षुब्धम् ॥१,१५.६ ॥

 

 

कल्लोलकलनावर्तं मायामकरमालितम् ।

न निरोद्धुं समर्थोऽस्मि मनोमोहमहार्णवम् ॥१,१५.७ ॥

 

 

 

"कल्लोल"रूपा या "कलना" सङ्कल्पः । सैव्"आवर्तः" यस्य । तत् । "माया" विपर्ययज्ञानम् ॥१,१५.७ ॥

 

 

भोगदूर्वाङ्कुराकाङ्क्षी श्वभ्रपातमचिन्तयन् ।

मनोहरिणको ब्रह्मन् दूरं विपरिधावति ॥१,१५.८ ॥

 

 

स्पष्टम् ॥१,१५.८ ॥

 

 

 

 

न कदाचन मे चेतस्तामालूनविशीर्णताम् ।

त्यजत्याकुलया वृत्त्या चञ्चलत्वमिवार्णवः ॥१,१५.९ ॥

 

 

"आलूनविशीर्णतां" हस्तस्पर्शासहत्वम् । मतिचाञ्चल्यमिति यावत् ॥१,१५.९ ॥

 

 

 

चेतश्चञ्चलया वृत्त्या चिन्तानिचयचञ्चुरम् ।

धृतिं बध्नाति नैकत्र केसरी पञ्जरे यथा ॥१,१५.१० ॥

 

 

 

"चिन्तानिचयेन" चिन्तासमूहेन । "चञ्चुरं" निर्भरम् ॥१,१५.१० ॥

 

 

मनो मोहरथारूढं शरीराच्छमतासुखम् ।

हरत्युपगतोद्योगं हंसः क्षीरमिवाम्भसः ॥१,१५.११ ॥

 

 

 

स्पष्टम् ॥१,१५.११ ॥

 

 

अनल्पकल्पनातल्पे निलीनाश्चित्तवृत्तयः ।

मुनीन्द्र न प्रबुध्यन्ते तेन तप्तोऽहमाकुलः ॥१,१५.१२ ॥

 

 

 

कल्पनाग्रस्तमेव सदासन्मनोऽस्तीति भावः ॥१,१५.१२ ॥

 

 

 

क्रोडीकृतदृढग्रन्थितृष्णासूत्रोम्भितात्मना ।

विहगो जालकेनेव ब्रह्मन् बद्धोऽस्मि चेतसा ॥१,१५.१३ ॥

 

 

 

"ग्रन्थयो"ऽत्र रागादिरूपा ज्ञेयाः ॥१,१५.१३ ॥

 

 

सततामर्षधूमेन चिन्ताज्वालाबिलेन च ।

वह्निनेव तृणं शुष्कं मुने दग्धोऽस्मि चेतसा ॥१,१५.१४ ॥

 

 

 

"सततममर्षः" क्रोध एव । "धूमः" यस्य । तादृशेन ॥१,१५.१४ ॥

 

 

क्रूरेण जडतां यातस्तृष्णाभार्यानुगामिना ।

शवः कौलेयकेनेव ब्रह्मन् भुक्तोऽस्मि चेतसा ॥१,१५.१५ ॥

 

 

 

स्पष्टम् ॥१,१५.१५ ॥

 

 

तरङ्गतरलास्फालवृत्तिना जडरूपिणा ।

तटवृक्ष इवौघेन ब्रह्मन्नीतोऽस्मि चेतसा ॥१,१५.१६ ॥

 

 

 

"तरङ्ग"वत्"तरलास्फाला" अत्यन्तचञ्चला । "वृत्तिः" यस्य । तादृशेन ॥१,१५.१६ ॥

 

 

अवान्तरनिपाताय शून्येनाक्रमणाय च ।

तृणं चण्डानिलेनेव दूरे नुन्नोऽस्मि चेतसा ॥१,१५.१७ ॥

 

 

 

"अवान्तरेषु" भोगरूपेषु परमविश्रान्तिरहितेषु पदेषु । यः "निपातस्" । तस्मै । "आक्रमणाय" आक्रमणार्थम् । "शून्येने"ति मनोविशेषणम् ॥१,१५.१७ ॥

 

 

 

संसारजलधेरस्मान्नित्यमुत्तरणोन्मुखः ।

सेतुनेव पयःपूरो रोधितोऽस्मि कुचेतसा ॥१,१५.१८ ॥

 

 

 

स्पष्टम् ॥१,१५.१८ ॥

 

 

पातालाद्गच्छता पृष्ठं पृष्ठात्पातालगामिना ।

कूपकाष्ठं कुदाम्नेव वेष्टितोऽस्मि कुचेतसा ॥१,१५.१९ ॥

 

 

 

स्पष्टम् ॥१,१५.१९ ॥

 

 

मिथ्यैव स्फाररूपेण विचारविशरारुणा ।

बालो वेतालकेनेव गृहीतोऽस्मि स्वचेतसा ॥१,१५.२० ॥

 

 

 

"गृहीतः" स्ववशीकृतः ॥१,१५.२० ॥

 

 

वह्नेरुष्णतरः शैलादपि कष्टतरक्रमः ।

वज्रादपि दृढो ब्रह्मन् दुर्निग्रहमनोग्रहः ॥१,१५.२१ ॥

 

 

 

"कष्टतरः" "क्रमः" उल्लङ्घनं यस्य । सः "कष्टतरक्रमः" । "दुर्निग्रहं" दुःखेन निर्ग्रहीतुं शक्यम् । यत्"मनः" । तस्य "ग्रहः" ग्रहनम् । "दुर्निग्रहमनोग्रहः" ॥१,१५.२१ ॥

 

 

 

चेतः पतति कार्येषु विहगश्चामिषेष्विव ।

क्षणेन विरतिं याति बालः क्रीडनकादिव ॥१,१५.२२ ॥

 

 

 

स्पष्टम् ॥१,१५.२२ ॥

 

 

जडप्रकृतिरालोलो विततावर्तवृत्तिमान् ।

मनोऽब्धिरीहितव्यालो दूरान्नयति तात माम् ॥१,१५.२३ ॥

 

 

 

"जडप्रकृतिः" जडस्वभावः शीतप्रकृतिश्च । "विततावर्ता" एव "वृत्तयः" यस्य । सः । "ईहितानि" काङ्क्षितानि एव "व्यालाः" सर्पाः । यस्य । सः । चेष्टायुक्तसर्पाश्च यस्मिन् । सः । "दूरान्" "नयति" नानाविषयेषु भ्रमयति ॥१,१५.२३ ॥

 

 

 

यदीदृशं मनस्तवास्ति तर्हि तस्य निग्रहं कुर्वित्य् । अत्राह

अप्यब्धिपानान्महतः सुमेरूल्लङ्घनादपि ।

अपि वह्न्यशनात्साधो विषमश्चित्तनिग्रहः ॥१,१५.२४ ॥

 

 

स्पष्टम् ॥१,१५.२४ ॥

 

 

 

 

ननु चित्तनिग्रहो दुःसाध्य एव भवतु । किं तेन सेत्स्यतीत्य् । अत्राह

चित्तं कारणमर्थानां तस्मिन् सति जगत्त्रयम् ।

तस्मिन् क्षीणे जगत्क्षीणं तच्चिकित्स्यं प्रयत्नतः ॥१,१५.२५ ॥

 

 

स्पष्टम् ॥१,१५.२५ ॥

 

 

 

 

चित्तादिमानि सुखदुःखशतानि नूनम्

अभ्यागतान्यगवरादिव काननानि ।

तस्मिन् विवेकवशतस्तनुतां प्रयाते

मन्ये मुने निपुणमेव गलन्ति तानि ॥१,१५.२६ ॥

 

 

 

"इमानि" अनुभूयमानानि । "अगवरात्" पर्वतश्रेष्ठात् । "निपुणं" सम्यक् ॥१,१५.२६ ॥

 

 

सर्गान्तश्लोकेन चित्तनिन्दां समापयति

सकलगुणजयाशा यत्र बद्धा महद्भिस्

तमरिमिह विजेतुं चित्तमभ्युत्थितोऽहम् ।

विगतरतितयान्तर्नाभिनन्दामि लक्ष्मीं

जडमलिनविशालां मेघमालामिवेन्दुः ॥१,१५.२७ ॥

 

 

"यत्र" यस्मिन्मनसि । "अभ्युत्थितः" उद्योगयुक्तो जातः । इति शिवम् ॥१,१५.२७ ॥

 

 

 

 

 

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे पञ्चदशः सर्गः ॥ १,१५ ॥