मोक्षोपायटीका/वैराग्यप्रकरणम्/सर्गः ३१

विकिस्रोतः तः
← सर्गः ३० मोक्षोपायटीका/वैराग्यप्रकरणम्
भास्करकण्ठः
सर्गः ३२ →
मोक्षोपायटीका/वैराग्यप्रकरणम्



एवं वैराग्यकृतामवस्थामुक्त्वोपायं प्रष्टुं प्रस्तावं करोति

प्रोच्चवृक्षचलत्पत्त्रलम्बाम्बुलवभङ्गुरे  ।

आयुषीशानशीतांशुकलामृदुनि देहके ॥ १,३०.१ ॥

केदारविरटद्भेककण्ठत्वक्कोणभङ्गुरे ।

वागुरावलये जन्तोः सुहृत्स्वजनसङ्गमे ॥ १,३०.२ ॥

वासनावातवलितकदाशातडिति स्फुटे ।

मोहौघमिहिकामेघे घनं स्फूर्जति गर्जति ॥ १,३०.३ ॥

नृत्यत्युत्ताण्डवं चण्डे लोले लोभकलापिनि ।

सुविकासिनि सस्फोटमनर्थकुटजद्रुमे ॥ १,३०.४ ॥

क्रूरे कृतान्तमार्जारे सर्वभूताखुहारिणि ।

अश्रुतस्पन्दसञ्चारे कुतोऽप्युपरिपातिनि ॥ १,३०.५ ॥

क उपायो गतिः का वा का चिन्ता कः समाश्रयः ।

केनेयमशुभोदर्का न भवेज्जीविताटवी ॥ १,३०.६ ॥

"ईशानशीतांशुकला" श्रीमहादेवशिरःस्था चन्द्रकला । "रटतः" "भेकस्य" "कण्ठत्वक्" अत्यन्त"भङ्गुरा" भवति । इति तस्या उपमानत्वेन ग्रहणम् । "मिहिकामेघे" नीहारयुक्ते मेघे । कथम्भूते । "वासनावातेन" "वलिता" या "कदाशा" । सा एव "तडित्" यस्य । तादृशे । "स्फुटे" प्रकटे । "उत्ताण्डवम्" उद्भटम् । "सस्फोटं" स्फोटनयुक्तम् । सशब्दमित्यर्थः । "कृतान्तमार्जारे" कथम्भूते । "अश्रुतस्पन्दः सञ्चारो" यस्य । तादृशे । "अशुभोदर्का" अशुभोत्तरफला । "जीवितम्" एव्"आटवी "वनम् ॥ १,३०.१६ ॥

 

 

 

न तदस्ति पृथिव्यां वा दिवि देवेषु वा क्वचित् ।

सुधियस्तुच्छमप्येतद्यन्न याति नरम्यताम् ॥ १,३०.७ ॥

"नरम्यताम्" इति नसमासोऽयम् । अरम्यतामित्यर्थः । सर्वत्र सर्वं "सुधियः" अरम्यतामेव यातीति भावः । "अपि"शब्दः पादपूरणार्थः ॥ १,३०.७ ॥

 

 

 

अयं हि दग्धसंसारो नीरन्ध्रकलनाकुलः ।

कथं सुस्वादुतामेति नीरसो मूर्खतां विना ॥ १,३०.८ ॥

मूर्खताभावे तु सुस्वादुतां नैतीति भावः ॥ १,३०.८ ॥

 

 

 

आशाप्रतिविषा केन क्षीरस्नानेन रम्यताम् ।

उपैति पुष्पशुभ्रेण मधुनेव सुवल्लरी ॥ १,३०.९ ॥

"आशा" एव "प्रतिविषा" तिक्तद्रव्यविशेषः । "केन" किंरूपेण ॥ १,३०.९ ॥

 

 

अपमृष्टमलोदेति क्षालनेनामृतद्युतिः ।

मनश्चन्द्रमसः केन तेन कामकलङ्किनः ॥ १,३०.१० ॥

"अपमृष्टं" नष्टम् । "मलं" यस्याः । सा । "तेन केने"ति प्रश्नः । "मनश्चन्द्रमसः" कथम्भूतस्य । "काम" एव "कलङ्कः" अस्यास्तीति तादृशस्य ॥ १,३०.१० ॥

 

 

दृष्टसंसारगतिना दृष्टादृष्टविनाशिना ।

केन वा व्यवहर्तव्यं संसारवनवीथिषु ॥ १,३०.११ ॥

"दृष्टा संसारगतिः" येन । सः । तादृशेन । तथा "दृष्टादृष्टयोः" "विनाशः" अस्यास्तीति तादृशेन । पदार्थधर्माधर्माद्यतीतेन जीवन्मुक्तेनेति यावत् । "केन" केन प्रकारेण । "संसारवनवीथिषु" "व्यवहर्तव्यं" व्यवहारः कर्तव्यः ॥ १,३०.११ ॥

 

 

 

रागद्वेषमहारोगा भोगपूर्वातिपूतयः ।

कथं जन्तोर्न बाधन्ते संसारारण्यचारिणः ॥ १,३०.१२ ॥

"रागद्वेषा" एव "महारोगाः" । ते "संसारारण्यचारिणो" "जन्तोः" "कथं न बाधन्ते" । कथम्भूताः । "भोगाः" "पूर्वं" कारणं येषाम् । ते । तादृशाश्च तेऽ"तिपूतयश्" चातिशयेन पूतिगन्धाश्च । रागादिगतः पूतिः । अर्थाद्धर्षामर्षौ ज्ञेयौ । रोगपक्षे तु प्रसिद्धार्थ एव ॥ १,३०.१२ ॥

 

 

 

कथं च वीरवैराग्नौ पततापि न दह्यते ।

पावके पारतेनेव रसेन रसशालिना ॥ १,३०.१३ ॥

क्षत्रियजातित्वादियमुक्तिः । "पारतेन" "रसेन" पारताख्येन रसेन ॥ १,३०.१३ ॥

 

 

 

तर्हि व्यवहारमेव मा कुर्वित्य् । अत्राह

यस्मात्किल जगत्यस्मिन् व्यवहारक्रियां विना ।

न स्थितिः सम्भवत्यब्धौ पतितस्याजला यथा ॥ १,३०.१४ ॥

"स्थितिः" अवस्थानम् ॥ १,३०.१४ ॥

 

 

 

रागद्वेषविनिर्मुक्ता सुखदुःखविवर्जिता ।

कृशानोर्दाहहीनेव शिखा नास्तीह सत्क्रिया ॥ १,३०.१५ ॥

स्पष्टम् ॥ १,३०.१५ ॥

 

 

 

मनोमननमानिन्याः सतापाभुवनत्रये ।

क्षययुक्तिं विना नास्ति ब्रूत तामलमुत्तमाः ॥ १,३०.१६ ॥

"सतापम्" "आ" समन्ताद् । "भुवनत्रयं" । तस्मिन् । "मनोमननमानिन्याः क्षययुक्तिं विना नास्ति" । तापनिवारकमिति शेषः । अतः हे "उत्तमाः" । यूयं "तां" क्षययुक्तिम् । "ब्रूत" कथयतेत्यर्थः । "आभुवनत्रयम्" इत्यत्र आङ्शब्दोऽभिव्यापकत्वे समस्यते । आनगरमितिवत् ॥ १,३०.१६ ॥

 

 

 

व्यवहारवतो युक्त्या दुःखं नायाति मे यया ।

अथ वाव्यवहारस्य ब्रूत तां गतिमुत्तमाः ॥ १,३०.१७ ॥

"अव्यवहारस्य" व्यवहाररहितस्य । "गतिं" युक्तिम् ॥ १,३०.१७ ॥

 

 

तत्कथं केन वा किं वा कृतमुत्तमचेतसा ।

पूर्वं येनैति विश्रामं परमं पावनं मनः ॥ १,३०.१८ ॥

"केनोत्तमचेतसा" "पूर्वं" "तत्किं" "कृतं कथं वा कृतं" । "तत्किम्" ममेति शेषः । "येन" मम "मनः" "पावनं" सत्"परमं" "विश्रामम्" "एति" ॥ १,३०.१८ ॥

 

 

यथा जानासि भगवंस्तथा मोहनिवृत्तये ।

ब्रूहि मे साधवो येन यूयं निर्दुःखतां गताः ॥ १,३०.१९ ॥

ननु कथमहं वक्तुं शक्नोमीत्यत्राह "साधव" इति ॥ १,३०.१९ ॥

 

 

 

अथ वा तादृशी ब्रह्मन् युक्तिर्यदि न विद्यते ।

न युक्तिं मम वा कश्चिद्विद्यमानामपि स्फुटम् ॥ १,३०.२० ॥

स्वयं चैव न चाप्नोमि तां विश्रान्तिमनुत्तमाम् ।

तदहं त्यक्तसर्वेहो निरहङ्कारतां गतः ॥ १,३०.२१ ॥

न भोक्ष्ये न पिबाम्यम्बु नाहं परिदधेऽम्बरम् ।

करोमि नाहं व्यापारं स्नानदानाशनादिकम् ॥ १,३०.२२ ॥

हे "ब्रह्मन्न्" । "अथ वा यदि तादृशी युक्तिर्न विद्यते" । "विद्यमानामपि" "युक्तिं कश्चिन्मम" "न" । ब्रूयादिति शेषः । "स्वयं च" "तां विश्रान्तिं" यथातथालब्धया युक्त्या कृतं विश्रामम् । अतिजाड्यान् "नाप्नोमि" । "तदाहं" "निरहङ्कारतां गतो"ऽत एव "त्यक्तसर्वेहः "सन् । "न भोक्ष्ये" । तिलकम् ॥ १,३०.२०२२ ॥

 

 

 

" "     न च तिष्ठामि कार्येषु सम्पत्स्वापद्दशासु च ।

न किञ्चिदपि वाञ्छामि देहत्यागादृते मुने ॥ १,३०.२३ ॥

स्पष्टम् ॥ १,३०.२३ ॥

 

 

केवलं विगताशङ्को निर्ममो गतमत्सरः ।

मौनमेवेह तिष्ठामि लिपिकर्मस्विवार्पितः ॥ १,३०.२४ ॥

स्पष्टम् ॥ १,३०.२४ ॥

 

 

अथ क्रमेण सन्त्यज्य सश्वासोच्छ्वाससंविदम्  ।

सन्निवेशं त्यजामीममनर्थं देहनामकम् ॥ १,३०.२५ ॥

श्वासश्चोच्छ्वासश्च । तौ "श्वासोच्छ्वासौ" । ताभ्यां सह वर्तते इति "सश्वासोच्छ्वासा" । तादृशी "संवित्" । ताम् । "सन्निवेशं" संस्थानम् ॥ १,३०.२५ ॥

 

 

 

ननु समताविषयत्वेन स्वसम्बन्धितया स्थितस्य देहस्य त्यागः कथं सिध्यतीत्य् । अत्राह

नाहमस्य न मे देहः शाम्याम्यस्नेहदीपवत् ।

सर्वमेव परित्यज्य त्यजामीदं कलेवरम् ॥ १,३०.२६ ॥

स्पष्टम् ॥ १,३०.२६ ॥

 

 

 

सर्गान्तश्लोकेन श्रीरामवाक्यमुपसंहरति

इत्युक्तवानमलशीतकराभिरामो

रामो महत्तरविवेकविकासिचेताः ।

तूष्णीं बभूव पुरतो महतां घनानां

केकारवश्रमवशादिव नीलकण्ठः ॥ १,३०.२७ ॥

"नीलकण्ठः" मयूरः । इति शिवम् ॥ १,३०.२७ ॥

 

 

 

 

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे त्रिंशः सर्गः ॥ १,३० ॥

 

 



 

 



 

 

श्रीवाल्मीकिः श्रीभरद्वाजं प्रति कथयति

वदत्येवं मनोमोहविनिवृत्तिकरं वचः ।

रामे राजीवपत्त्राक्षे तस्मिन् राजकुमारके ॥ १,३१.१ ॥

सर्वे बभूवुस्तत्रस्था विस्मयोत्फुल्ललोचनाः ।

धृताम्बरा देहरुहैर्गिरः श्रोतुमिवोद्गतैः ॥ १,३१.२ ॥

विरामवासनापास्तसमस्तभववासनाः ।

मुहूर्तममृताम्भोधिवीचीविलुलिता इव ॥ १,३१.३ ॥

"देहरुहैः" रोमभिः । "धृताम्बराः" धृतवस्त्राः । रोमकञ्चुकान्विताः इत्यर्थः । "देहरुहैः" कथम्भूतैर्"इव" । "गिरः" श्रीराम"गिरः" "श्रोतुमुद्गतैः" उत्थितैर्"इव" । "विरामवासनया" निवृत्तिवासनया । "अपास्ताः" त्यक्ताः । "समस्ताः" "भववासनाः" यैः । ते "विलुलिताः" चञ्चलीकृताः ॥ १,३१.१३ ॥

 

 

 

ता गिरो रामभद्रस्य तस्य चित्रार्पितैरिव ।

संश्रुताः शृणुकैरन्तरानन्दपरिपीवरैः ॥ १,३१.४ ॥

"शृणुकैः" श्रोतृभिः ॥ १,३१.४ ॥

 

 

 

शृणुकानेव विशेषेण कथयति

वसिष्ठविश्वामित्राद्यैर्मुनिभिः संसदि स्थितैः ।

जयन्तघृष्टिप्रमुखैर्मन्त्रिभिर्मन्त्रकोविदैः ॥ १,३१.५ ॥

स्पष्टम् ॥ १,३१.५ ॥

 

 

 

नृपैर्दशरथप्रख्यैः पौरैः पारशवादिभिः ।

सामन्तै राजपुत्रैश्च ब्राह्मणैर्ब्रह्मवादिभिः ॥ १,३१.६ ॥

स्पष्टम् ॥ १,३१.६ ॥

 

 

तथा भृत्यैरमात्यैश्च पञ्जरस्थैश्च पक्षिभिः ।

क्रीडामृगैर्गतस्पन्दैस्तुरङ्गैर्गतचर्वणैः ॥ १,३१.७ ॥

"गतचर्वणैः" त्यक्तभोजनैः ॥ १,३१.७ ॥

 

 

कौसल्याप्रमुखैश्चैव निजवातायनस्थितैः ।

संशान्तभूषणारावैरस्पन्दैर्वनितागणैः ॥ १,३१.८ ॥

स्पष्टम् ॥ १,३१.८ ॥

 

 

उद्यानवल्लीनिलयैर्विटङ्कनिलयैरपि ।

अक्षुब्धपक्षततिभिर्विहगैर्विरतारवैः ॥ १,३१.९ ॥

सिद्धैर्नभश्चरैश्चैव तथा गन्धर्वकिन्नरैः ।

नारदव्यासपुलहप्रमुखैर्मुनिपुङ्गवैः ॥ १,३१.१० ॥

स्पष्टम् ॥ १,३१.९१० ॥

 

 

अन्यैश्च देवदेवेशविद्याधरमहोरगैः ।

रामस्य ता विचित्रार्था महोदारा गिरः श्रुताः ॥ १,३१.११ ॥

स्पष्टम् ॥ १,३१.११ ॥

 

 

अथ तूष्णीं स्थितवति रामे राजीवलोचने ।

तस्मिन् रघुकुलाकाशशशाङ्कसमसुन्दरे  ॥ १,३१.१२ ॥

साधुवादगिरा सार्धं सिद्धसार्थसमीरिता ।

वितानकसमा व्योम्नः पुष्पवृष्टिः पपात ह ॥ १,३१.१३ ॥

स्पष्टम् ॥ १,३१.१२१३ ॥

 

 

 

पुष्पवृष्टिं विशिनष्टि

मन्दारकोशविश्रान्तभ्रमरद्वन्द्वनादिनी ।

मदिरामोदसौन्दर्यमुदितोन्मदमानवा ॥ १,३१.१४ ॥

स्पष्टम् ॥ १,३१.१४ ॥

 

 

व्योमवातविनुन्नेव तारकाणां परम्परा ।

पतितेव धरापीठं स्वर्गस्त्रीहसितच्छटा ॥ १,३१.१५ ॥

स्पष्टम् ॥ १,३१.१५ ॥

 

 

वृष्टिष्वेकशरन्मेघलवावलिरिव च्युता ।

हैयङ्गवीनपिण्डानामीरितेव परम्परा ॥ १,३१.१६ ॥

"वृष्टिषु" "वृष्ट्य्"अन्तः ॥ १,३१.१६ ॥

 

 

 

हिमवृष्टिरिवोदारा मुक्ताहारचयोपमा ।

ऐन्दवीरश्मिमालेव क्षीरोर्मीणामिवाततिः ॥ १,३१.१७ ॥

स्पष्टम्॥ १,३१.१७ ॥

 

 

किञ्जल्कामोदवलिता भ्रमद्भृङ्गकदम्बका ।

सीत्कारगायदामोदमधुरानिलदोलिता ॥ १,३१.१८ ॥

"सीत्कारेति" शब्दानुकरणम् ॥ १,३१.१८ ॥

 

 

प्रभ्रमत्केतकव्यूहा प्रसरत्कैरवोत्करा ।

प्रपतत्कुन्दवलया वलत्कुवलयालया ॥ १,३१.१९ ॥

स्पष्टम् ॥ १,३१.१९ ॥

 

 

आपूरिताङ्गनारामगृहच्छादनचत्वरा ।

उद्ग्रीवपुरवास्तव्यवरनारीविलोकिता ॥ १,३१.२० ॥

"अङ्गनानि" च्"आरामाश्" च "गृहच्छादनानि" च "चत्वराणि" च । तानि "आपूरितानि" "अङ्गना"दीनि यया । सा । दर्शनोत्सुको हि "उद्ग्रीवो" भवति ॥ १,३१.२० ॥

 

 

 

निरभ्रोत्पलसङ्काशव्योमवृष्टिरनाकुला ।

अदृष्टपूर्वा सर्वस्य जनस्य जनितस्मया ॥ १,३१.२१ ॥

स्पष्टम् ॥ १,३१.२१ ॥

 

 

 

अदृष्टपूर्वसिद्धौघकरोत्करसमीरिता ।

सा मुहूर्तचतुर्भागे पुष्पवृष्टिः पपात ह ॥ १,३१.२२ ॥

"ह" इति निपातः पादपूरणार्थः ॥ १,३१.२२ ॥

 

 

 

आपूरितसभालोके शान्ते कुसुमवर्षणे ।

इमान् सिद्धगणालापाञ्शुश्रुवुस्ते सभागताः ॥ १,३१.२३ ॥

स्पष्टम् ॥ १,३१.२३ ॥

 

 

 

सिद्धगिर एव कथयति

आकल्पं सिद्धसेनासु भ्रमद्भिरभितो दिवम् ।

अपूर्वमद्य त्वस्माभिः श्रुतं श्रुतिरसायनम् ॥ १,३१.२४ ॥

"श्रुत्"औ कर्णे । "रसायनम्" अमृतम् ॥ १,३१.२४ ॥

 

 

यदनेन किलोदारमुक्तं रघुकुलेन्दुना ।

वीतरागतया तद्धि वाक्पतेरप्यगोचरम् ॥ १,३१.२५ ॥

स्पष्टम् ॥ १,३१.२५ ॥

 

 

 

अहो वत महत्पुण्यमद्यास्माभिरिदं श्रुतम् ।

वचो राममुखोद्भूतममृताह्लादकं धियः ॥ १,३१.२६ ॥

स्पष्टम् ॥ १,३१.२६ ॥

 

 

सर्गान्तश्लोकं कथयति

उपशमामृतसुन्दरमादराद्

अधिगतोत्तमतापदमेष यत् ।

कथितवानुचितं रघुनन्दनः

सपदि तेन वयं प्रतिबोधिताः ॥ १,३१.२७ ॥

"प्रतिबोधिताः" ज्ञानयुक्ताः सम्पादिताः । इति शिवम् ॥ १,३१.२७ ॥

 

 

 

 

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे एकत्रिंशः सर्गः ॥ १,३१ ॥