मोक्षोपायटीका/वैराग्यप्रकरणम्/सर्गः ७

विकिस्रोतः तः
← सर्गः ६ मोक्षोपायटीका/वैराग्यप्रकरणम्
भास्करकण्ठः
सर्गः ८ →
मोक्षोपायटीका/वैराग्यप्रकरणम्


तच्छ्रुत्वा राजशार्दूलो विश्वामित्रस्य भाषितम् ।

मुहूर्तमासीन्निश्चेष्टः सदैन्यं चैवमब्रवीत् ॥१,७.१ ॥

[ऋआमी १९, १]

स्पष्टम् ॥१,७.१ ॥

 

 

 

ऊनषोडशवर्षोऽयं रामो राजीवलोचनः ।

न युद्धयोग्यतामस्य पश्यामि सह राक्षसैः ॥१,७.२ ॥

[ऋआमी १९, २]

स्पष्टम् ॥१,७.२ ॥

 

 

इयमक्षौहिणी पूर्णा यस्याः पतिरहं प्रभो ।

तया परिवृतो युद्धं दास्यामि पिशिताशिनाम् ॥१,७.३ ॥

[ऋआमी १९, ३]

"पिशिताशिनां" राक्षसानाम् ॥१,७.३ ॥

 

 

इमे हि शूरा विक्रान्ता भृत्या अस्त्रविशारदाः ।

[ऋआमी १९, ४ ब्]

अहं चैषां धनुष्पाणिर्गोप्ता समरमूर्धनि ॥१,७.४ ॥
 

 

 

[ऋआमी १९, ५ ब्]

स्पष्टम् ॥१,७.४ ॥

 

 

एभिः सह तवारीणां महेन्द्रमहतामपि ।

ददामि युद्धं मत्तानां करिणामिव केसरी ॥१,७.५ ॥

"हि" यस्माद् । एते "भृत्या" भवन्ति । "अहं चैषां समरमूर्धनि गोप्ता"स्मि । अतः अहम् "एभिः" "सह तवारीणां युद्धं ददामी"ति सम्बन्धः ॥१,७.५ ॥

 

 

बालो रामस्त्वनीकेषु न जानाति बलाबलम् ।

[ऋआमी १९, ७ ब्]

अन्तःपुरादृते दृष्टा नानेनान्या रणावनिः ॥१,७.६ ॥

 

 

 

स्पष्टम् ॥१,७.६ ॥

 

 

न चास्त्रैः परमैर्युक्तो न च युद्धविशारदः  ।

न भटभ्रूकुटीनां च तज्ज्ञः समरमूर्धसु ॥१,७.७ ॥

एष इति शेषः ॥१,७.७ ॥

 

 

केवलं पुष्पषण्डेषु नगरोपवनेषु च ।

उद्यानवनकुञ्जेषु सदैव परिशीलितः ॥१,७.८ ॥

स्पष्टम् ॥१,७.८ ॥

 

 

विहर्तुमेष जानाति सह राजकुमारकैः ।

कीर्णपुष्पोपकारासु स्वकास्वजिरभूमिषु ॥१,७.९ ॥

स्पष्टम् ॥१,७.९ ॥

 

 

अद्य त्वतितरां ब्रह्मन्मम भाग्यविपर्ययात् ।

हिमेनेवाहतः पद्मस्सम्पन्नो हरितः कृशः ॥१,७.१० ॥

"हरितः" पाण्डुः ॥१,७.१० ॥

 

 

 

नात्तुमन्नानि शक्नोति न विहर्तुं गृहावनौ ।

अन्तःखेदपरीतात्मा तूष्णीं तिष्ठति केवलम् ॥१,७.११ ॥

"अत्तुम्" भक्षितुम् ॥१,७.११ ॥

 

 

सदारः सहभृत्योऽहं तत्कृते मुनिनायक ।

शरदीव पयोवाहो नूनं निःसहतां गतः ॥१,७.१२ ॥

"निःसहताम्" उत्कृशताम् । सोढुमशक्तत्वम् ॥१,७.१२ ॥

 

 

ईदृशोऽसौ सुतो बाल आधिना विवशीकृतः ।

कथं ददामि तं तुभ्यं योद्धुं सह निशाचरैः ॥१,७.१३ ॥

स्पष्टम् ॥१,७.१३ ॥

 

 

अपि बालाङ्गनासङ्गादपि साधो सुधारसात् ।

राज्यादपि सुखायैष पुत्रस्नेहो महामते ॥१,७.१४ ॥

स्पष्टम् ॥१,७.१४ ॥

 

 

ये दुरन्ता महारम्भास्त्रिषु लोकेषु खेददाः ।

पुत्रस्नेहेन सन्तोऽपि कुर्वते ते न संश्रयम् ॥१,७.१५ ॥

"सन्तः अपि" स्थिता अपि । "संश्रयं" स्थितिम् । "पुत्रस्नेहेन ते" विस्मृतिं गच्छन्तीति भावः ॥१,७.१५ ॥

 

 

असवोऽथ धनं दारास्त्यज्यन्ते मानवैः सुखम् ।

न पुत्रा मुनिशार्दूल स्वभावो ह्येष जन्तुषु ॥१,७.१६ ॥

स्पष्टम् ॥१,७.१६ ॥

 

 

राक्षसाः क्रूरकर्माणः कूटयुद्धविशारदाः ।

[ऋआमी १९, ७ f]

रामस्तान् योधयत्वित्थमुक्तिरेवातिदुःसहा ॥१,७.१७ ॥

 

 

 

"कूटयुद्धं" छलयुद्धम् । "उक्तिरेवे"ति अनुष्ठानस्य का कथेति भावः ॥१,७.१७ ॥

 

 

विप्रयुक्तो हि रामेण मुहूर्तमपि नोत्सहे ।

जीवितुं जीविताकाङ्क्षी न रामं नेतुमर्हसि ॥१,७.१८ ॥

[ऋआमी १९, ८]

"नोत्सहे" समर्थो न भवामि । "जीवितुं" जीवनक्रियाकर्तृतामनुभवितुम् । "जीविताकाङ्क्षी" मम जीविताकाङ्क्षीत्यर्थः ॥१,७.१८ ॥

 

 

नववर्षसहस्राणि मम यातानि कौशिक ।

दुःखेनोत्पादितास्त्वेते चत्वारः पुत्रका मया  ॥१,७.१९ ॥

[ऋआमी १९, १०]

अनुकम्पिताः पुत्राः "पुत्रकाः" ॥१,७.१९ ॥

 

 

 

प्रधानभूतस्तेष्वेषु रामः कमललोचनः ।

तं विना ते त्रयोऽप्यन्ये धारयन्ति न जीवितम् ॥१,७.२० ॥

स्पष्टम् ॥१,७.२० ॥

 

 

 

स एव रामो भवता नीयते राक्षसान् प्रति ।

यदि तत्पुत्रहीनं त्वं मृतमेवाशु विद्धि माम् ॥१,७.२१ ॥

स्पष्टम् ॥१,७.२१ ॥

 

 

 

चतुर्णामात्मजानां हि प्रीतिरत्र हि मे परा ।

ज्येष्ठं धर्ममयं तस्मान्न रामं नेतुमर्हसि ॥१,७.२२ ॥

[ऋआमी १९, ११]

निर्धारणे षष्ठी ॥१,७.२२ ॥

 

 

निशाचरबलं हन्तुं मुने यदि तवेप्सितम् ।

चतुरङ्गसमायुक्तं मया सह बलं नय ॥१,७.२३ ॥

स्पष्टम् ॥१,७.२३ ॥

 

 

किंवीर्या राक्षसास्ते तु कस्य पुत्राः कथं च ते ।

कियत्प्रमाणाः के चैते इति वर्णय मे स्फुटम् ॥१,७.२४ ॥

[ऋआमी १९, १२]

स्पष्टम् ॥१,७.२४ ॥

 

 

कथं तेन प्रहर्तव्यं तेषां रामेण राक्षसाम् । ।     मामकैर्वा बलैर्ब्रह्मन्मया वा कूटयोधिनाम् ॥१,७.२५ ॥

[ऋआमी १९, १३]

रामस्याग्रे स्थितत्वाभावात्"तेने"त्युक्तम् ॥१,७.२५ ॥

 

 

सर्वं मे शंस भगवन् यथा तेषां मया रणे ।

स्थातव्यं दुष्टसत्त्वानां वीर्योत्सिक्ता हि राक्षसाः ॥१,७.२६ ॥

[ऋआमी १९, १४]

स्पष्टम् ॥१,७.२६ ॥

 

 

श्रूयते हि महावीरो रावणो नाम राक्षसः ।

साक्षाद्वैश्रवणभ्राता पुत्रो विश्रवसो मुनेः ॥१,७.२७ ॥

[ऋआमी १९, १७]

स्पष्टम् ॥१,७.२७ ॥

 

 

अस्तु सः । ततः किमित्य् । अत्राह

स चेत्तव मखे विघ्नं करोति किल दुर्मतिः ।

तत्सङ्ग्रामे न शक्ताःऽस्मो वयं तस्य दुरात्मनः ॥१,७.२८ ॥

[ऋआमी १९, १९ द्]

"तत्" तदा ॥१,७.२८ ॥

 

 

ननु कथमसौ तादृग्वीर्यः अस्तीत्य् । अत्राह

काले काले पृथग्ब्रह्मन् भूरिवीर्यविभूतयः । ।

भूतेष्वभ्युदयं यान्ति प्रलीयन्ते च कालतः ॥१,७.२९ ॥

"भूरिवीर्यविभूतयः" महद्वीर्यसम्पद्युक्ताः । "भूतेष्व्" इति निर्धारणे सप्तमी ॥१,७.२९ ॥

 

 

अद्यास्मिंस्ते वयं काले रावणादिषु शत्रुषु ।

न समर्थाः पुरः स्थातुं नियतेरेष निश्चयः ॥१,७.३० ॥

स्पष्टम् ॥१,७.३० ॥

 

 

तस्मात्प्रसादं धर्मज्ञ कुरु त्वं मम पुत्रके ।

मम चैवाल्पभाग्यस्य भवान् ह्यसमदैवतम् ॥१,७.३१ ॥

[ऋआमी १९, २०]

"अल्पभाग्यस्ये"ति । अन्यथा त्वं रामं न याचितवानिति भावः ॥१,७.३१ ॥

 

 

देवदानवगन्धर्वा यक्षप्लवगपन्नगाः ।

न शक्ता रावणं योद्धुं किं पुनः पुरुषा युधि ॥१,७.३२ ॥

स्पष्टम् ॥१,७.३२ ॥

 

 

महावीर्यवतां वीर्यमादत्ते स सुधाभुजाम् ।

तेन सार्धं न शक्ता स्मस्संयुगे तस्य वावराः ॥१,७.३३ ॥

[ऋआमी १९, २२ द्]

"आदत्ते" गृह्णाति । प्रतिबध्नातीति यावत् । महावीर्यान् सुधाभुजोऽप्यसौ वीर्यरहितान् करोतीति भावः । "अवरास्" तदपेक्षया नीचाः । "वा"शब्दः पादपूरणार्थः ॥१,७.३३ ॥

 

 

 

ननु रामस्य सज्जनत्वेनैवावश्यं जयः स्यादित्य् । अत्राह

अयमन्यतमः कालः पेलवीकृतसज्जनः ।

राघवोऽपि गतो दैन्यं यत्र वार्धकजर्जरः ॥१,७.३४ ॥

"अपि"शब्दः राघवस्य महासज्जनत्वं द्योतयति । वार्धकेनेव जर्जरः "वार्धकजर्जरः" ॥१,७.३४ ॥

 

 

अथ वा लवणं ब्रह्मन् यज्ञघ्नं तं मधोः सुतम् ।

कथय त्वं सुरप्रख्य क्वेव मोक्ष्यामि पुत्रकम् ॥१,७.३५ ॥

"अथ वा मधोः सुतं तं" प्रसिद्धम् । "यज्ञघ्नं लवणं" योद्धुं "न शक्ताः" स्मः इति व्यवहिताध्याहृतैः सह सम्बन्धः । लवणोऽपि चेत्तव यज्ञविघ्नकारी अस्ति तमपि योद्धुं न शक्ताः स्म इति भावः । हे "सुरप्रख्य" । "त्वं कथय" । अहं "पुत्रकं क्वेव" कुत्रेव । "मोक्ष्यामि" । न मोक्ष्यामीति भावः ॥१,७.३५ ॥

 

 

 

अथ नेच्छसि चेद्ब्रह्मंस्तद्विधेयोऽहमेव ते ।

अन्यथा तु न पश्यामि शाश्वतं जयमात्मनः ॥१,७.३६ ॥

"अथ" पक्षान्तरे । त्वं पुत्रामोक्षणं "चेत्" यदि । "नेच्छसि" । "तदहं ते" तव । "विधेयः" आयत्तः । "एवा"स्मि । तदा अहमेवागच्छामीत्यर्थः । "अन्यथा" सहजविचारे क्रियमाणे । अहम् "आत्मनः शाश्वतं जयं न पश्यामि" । न जानामीत्यर्थः ॥१,७.३६ ॥

 

 

 

सर्गान्तश्लोकेन दशरथवचनमुपसंहरति

इत्युक्त्वा मृदुवचनं भयाकुलोऽसाव्

आलोले मुनिमतसंशये निमग्नः ।

नाज्ञासीत्कणमपि निश्चयं महात्मा

प्रोद्वीचाविव जलधौ समुह्यमानः ॥१,७.३७ ॥

"मुनिमतस्य संशये"ऽनुष्ठानाननुष्ठानरूपे सन्देहे । "मग्नः" । अत एव "भयाकुलः" । "महात्मा असौ" दशरथः । "इत्य्" एवम् । "मृदुवचनं" कोमलवचनम् । "उक्त्वा" । "कणमपि" स्तोकमपि । "निश्चयं न अज्ञासीत्" न ज्ञातवान् । "असौ" कथम्भूतः "इव" । "प्रोद्वीचौ जलधौ समुह्यमान इव" । जलधौ समुह्यमानोऽपि कुत्र गच्छामीति निश्चयं न जानातीति शिवम् ॥१,७.३७ ॥

 

 

 

 

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे सप्तमः सर्गः ॥ १,७ ॥