मोक्षोपायटीका/वैराग्यप्रकरणम्/सर्गः २४

विकिस्रोतः तः
← सर्गः २३ मोक्षोपायटीका/वैराग्यप्रकरणम्
भास्करकण्ठः
सर्गः २५ →
मोक्षोपायटीका/वैराग्यप्रकरणम्



एवं कालविलासमुक्त्वा दैवविलासं प्रस्तौति

अत्रैव दुर्विलासानां चूडामणिरिवापरः ।

करोत्यस्तीति लोकेन दैवं कालश्च कथ्यते ॥ १,२४.१ ॥

"करोति" इति क्रियाकथनम् । "अस्तीति" सत्ताकथनम् । "कालो"ऽत्र कृतान्तोऽभिप्रेतः । तस्यैव "दैव"पर्यायत्वात् ॥ १,२४.१ ॥

 

 

 

क्रियामात्रादृते यस्य स्वपरिस्पन्दरूपिणः ।

नान्यदालक्ष्यते रूपं कर्मणो न समीहितम् ॥ १,२४.२ ॥

तेनेयमखिला भूतसन्ततिर्नित्यपेलवा ।

तापेन हिममालेव नीता विधुरतां भृशम् ॥ १,२४.३ ॥

"यस्य" दैवस्य । "क्रियामात्रं" विना । "न रूपमालक्ष्यते" । "ना"पि "कर्मणः" "समीहितं" कर्मालम्बनं काङ्क्षितम् । "आलक्ष्यते" । किमर्थम् । अयं किञ्चित्करोतीति "तेनेयम्" "भूतसन्ततिर्विधुरतां नीता" ॥ १,२४.२३ ॥

 

 

 

यदिदं दृश्यते किञ्चिज्जगदाभोगिमण्डलम् ।

तत्तस्य नर्तनागारमिहासावभिनृत्यति ॥ १,२४.४ ॥

"तस्य" दैवस्य ॥ १,२४.४ ॥

 

 

अस्य नामान्तरकथनाभिप्रायेणाह

तृतीयं च कृतान्तेति नाम बिभ्रत्सुदारुणम् ।

कापालिकवपुर्मत्तं दैवं जगति नृत्यति ॥ १,२४.५ ॥

"कापालिकवपुः" कापालिकतुल्यः ॥ १,२४.५ ॥

 

 

अस्यैव सर्वाधारत्वं कथयति

नृत्यतो हि कृतान्तस्य नितान्तमविरागिणः ।

नित्यं नियतिकान्ताया मुने परमकामिनः ॥ १,२४.६ ॥

शेषः शशिकलाशुभ्रो गङ्गावाहश्च तौ त्रिधा ।

उपवीते अवीताभे उभे संसारवक्षसि ॥ १,२४.७ ॥

"तौ" कौ । "शेषः गङ्गावाहश्" च । "अवीताभे" शोभायुक्ते । "संसार" एव "वक्षस्" । तत्र ॥ १,२४.६७ ॥

 

 

 

चन्द्रार्कमण्डले हेमकटके करमूलयोः ।

लीलासरसिजं हस्ते ब्राह्मं ब्रह्माण्डकर्णिकम्  ॥ १,२४.८ ॥

"ब्राह्मम्" ब्रह्मणः आसनभूतं पद्मम् । "ब्रह्माण्डस्य कर्णिकम्" कर्निकाभूतम् । तन्मध्यवर्तित्वात् ॥ १,२४.८ ॥

 

 

 

ताराबिन्दुचितं लोलपुष्करावर्तपल्लवम् ।

एकार्णवपयोधौतमेकमम्बरमम्बरम् ॥ १,२४.९ ॥

"अम्बरम्" आकाशम् । "अम्बरं" वस्त्रम् ॥ १,२४.९ ॥

 

 

 

एवंरूपस्य तस्याग्रे नियतिर्नित्यकामिनी ।

अनस्तमितसंरम्भमारम्भैः परिनृत्यति ॥ १,२४.१० ॥

"आरम्भैः" यमनियमरूपैः । नर्तकस्य समीपे हि नर्तकी अपि नृत्यति ॥ १,२४.१० ॥

 

 

 

तस्या नर्तनलोलाया जगन्मण्डपकोटरे ।

अरुद्धस्पन्दरूपाया आगमापायचञ्चुरे ॥ १,२४.११ ॥

चारुभूषणमङ्गेषु देवलोकान्तरावली ।

आपातालं नभो लम्बं कवरीमण्डलं बृहत् ॥ १,२४.१२ ॥

"देवानाम्" यानि "लोकान्तराणि" । तेषाम् "आवली" "अङ्गेषु" "चारुभूषणम्" भवति । "नभः" कथम्भूतम् । "आपातालम्" पातालं तावत् । "लम्बं" व्यापकम् । नृत्यन्त्याश्च "कवरी" लम्बा भवति ॥ १,२४.१११२ ॥

 

 

नरकाली च मञ्जीरमाला कलकलाकुला ।

प्रोता दुष्कृतसूत्रेण पातालचरणे चला ॥ १,२४.१३ ॥

"मञ्जीरमाला" किङ्किणीमाला ॥ १,२४.१३ ॥

 

 

कस्तूरिकातिलककं क्रियासख्योपकल्पितम् ।

चित्रितं चित्रगुप्तेन यामे वदनपट्टके ॥ १,२४.१४ ॥

"यामे" यमसम्बन्धिनि । "वदनपट्टके" मुखपट्टके ।ऽर्थात्यमशासनपट्टरूपके मुखे । "चित्रगुप्तेन चित्रितं" चित्रगुप्तकर्तृकं चित्रितम् । चित्रगुप्तलिखिता लिपिरिति यावत् । "कस्तूरिकातिलकम्" भवति । कथम्भूतम् । "क्रियासख्या" क्रियाशक्तिरूपया सख्या । "उपकल्पितम्" चित्रगुप्तमाविश्य रचितम् । "सखी" हि सख्यास्तिलकं करोति ॥ १,२४.१४ ॥

 

 

 

कालीरूपमुपस्थाय कल्पान्तेषु क्रियाकुलम् ।

नृत्यत्येषा पुनर्देवी स्फुटच्छैलघनारवम् ॥ १,२४.१५ ॥

"काली" कालशक्तिः । तस्या "रूपमुपस्थाय" आश्रित्य । पूर्ववृत्तापेक्षया "पुनर्" इति प्रयोगः ॥ १,२४.१५ ॥

 

 

पश्चात्प्रलम्बविभ्रान्तकौमाररथबर्हिभिः ।

नेत्रत्रयबृहद्रन्ध्रभूरिभाङ्कारभीषणैः ॥ १,२४.१६ ॥

लम्बलोलशरच्चन्द्रवितीर्णहरमूर्धजैः ।

उच्चरच्चारुमन्दारगौरीकवरिचामरैः ॥ १,२४.१७ ॥

उत्ताण्डवाचलाकारभैरवादरतुम्बकैः ।

रणत्सहस्ररन्ध्रेन्द्रदेहभिक्षाकपालकैः ॥ १,२४.१८ ॥

शुष्का शरीरखट्वाङ्गभङ्गैरापूरिताम्बरम् ।

भाययत्यात्मनात्मानमपि कृष्णैर्घनासितम् ॥ १,२४.१९ ॥

कुलकम् । "शुष्का" शोषणधर्मयुक्ता । प्रकृतत्वातियं नियतिः । "आत्मना" "घनासितम्" अत्यन्तकृष्णम् । "आत्मानमपि भाययति" भयाविष्टं करोति । अन्येषां तु का कथेति भावः । "आत्मानम्" कथम्भूतम् । "शरीरस्य" ये "खट्वाङ्गभङ्गाः" अर्थात्खट्वाङ्गभङ्गरूपाः अवयवाः । तैः "आपूरिताम्बरम्" । "शरीरखट्वाङ्गैः" कथम्भूतैः । "पश्चाद्" इत्यादि । "पश्चात्प्रलम्बः" अत एव "विभ्रान्तः" भ्रमन् । "कौमारः" कुमारसम्बन्धी । "रथबर्ही" येषाम् । तैः । "भाङ्काराः" वातकृताः ज्ञेयाः । "लम्बश्" चासौ "लोलश्"च यः "शरच्चन्द्रस्" । तेन "वितीर्णाः" दत्ताः । कृता इति यावत् । "हर"वत्"मूर्धजाः" येषाम् । तैः । यथा हरस्य केशाः चन्द्रकलया भासिताः भवन्ति । तथास्याः पूर्णेन शरच्चन्द्रेणेति भावः । "उच्चरच्चारुमन्दारा" विलसच्चारुमन्दारा । या "गौरीकवरी" । सा एव "चामरं" येषाम् । तैः । "उत्ताण्डवः" चासौ "अचलाकारः "। "भैरवः" महाभैरवः । स एव्"आदरतुम्बकः" आदरविषयः वाद्यभाण्डविशेषः येषाम् । तैः । "रणन्ति सहस्ररन्ध्राणि" नेत्ररूपाणि रन्ध्रसहस्राणि यस्य । तादृशः यः "इन्द्रदेहः" । स एव "भिक्षाकपालकं" येषाम् । तैः । तथा "कृष्णैः" । इदं च स्थूलदृष्ट्यर्थं बाह्यध्यानमुक्तम् । सूक्ष्मदृष्टीन् प्रति तु भङ्ग्या कुमारादिष्वपि नियतिस्पर्शः

उक्तः ॥ १,२४.१६१९ ॥

 

 

 

विश्वरूपशिरश्चक्रचारुपुष्करमालया  ।

ताण्डवेषु विवल्गन्ती महाकल्पेषु राजते ॥ १,२४.२० ॥

"विश्वरूपस्य" विराजो । यत्"शिरश्चक्रं" । तदेव "चारुपुष्करमाला" । तया ॥ १,२४.२० ॥

 

 

 

प्रमत्तपुष्करावर्तडमरूड्डामरारवैः ।

तस्याः किल पलायन्ते कल्पान्ते तुम्बुरादयः ॥ १,२४.२१ ॥

"डमरवः" वाद्यभाण्डविशेषाः । "उड्डामराः" उद्भटाः । "तुम्बुरे"ति गन्धर्वनाम ॥ १,२४.२१ ॥

 

 

नृत्यतोऽन्ते कृतान्तस्य चन्द्रमण्डलहासिनः ।

तारकाचन्द्रकाचारुव्योमपिञ्छावचूलिनः  ॥ १,२४.२२ ॥

एकस्मिञ्श्रवणे दीर्घा हिमवानस्ति मुद्रिका ।

अपरेऽपि महामेरुः कान्ता काञ्चनकर्णिका ॥ १,२४.२३ ॥

"अन्ते" कल्पान्ते । "चन्द्रमण्डलम्" एव "हासः" । तद्युक्तस्य । "चन्द्रकाणि" [...] । ताभिः "चारु" यत् । "व्योमै"व "पिञ्छं" । तद्"अवचूलं" शिरोभूषणं यस्य । तादृशस्य । "मुद्रिका" श्वेतः कर्णाभरणविशेषः ॥ १,२४.२२२३ ॥

 

 

 

अत्रैव कुण्डले लोले चन्द्रार्कौ गण्डमण्डले ।

लोकालोकाचलश्रेणी सर्वतः कटिमेखला ॥ १,२४.२४ ॥

"गण्डमण्डले" गण्डभित्तौ । कटिस्था मेखला "कटिमेखला" ॥ १,२४.२४ ॥

 

 

 

इतश्चेतश्च गच्छन्ती विद्युद्वलयवर्णिका ।

अनिलान्दोलिता भाति नीरदांशुकपट्टिका ॥ १,२४.२५ ॥

"विद्युद्वलय" एव "वर्णिका" भूषणविशेषः यस्यास्। तादृशी "विद्युद्वलयवर्णिका" ॥ १,२४.२५ ॥

 

 

 

मुसुलैः पट्टिसैः शूलैः प्रासैस्तोमरमुद्गरैः ।

तीक्ष्णैः क्षीणजगद्व्रातकृतान्तैरिव सम्भृतैः ॥ १,२४.२६ ॥

संसारबन्धनादीर्घे पाशे कालकरच्युते ।

शेषभोगमहासूत्रे प्रोतैर्मालास्य शोभते ॥ १,२४.२७ ॥

"संसारबन्धना"र्थम् । "आ" समन्ताद् । "दीर्घे" । "अस्य" समनन्तरोक्तस्य । दैवापरपर्यायस्य कृतान्तस्य ॥ १,२४.२६२७ ॥

 

 

 

जीवोल्लसन्मकरिकारत्नतेजोभिरुज्ज्वला ।

सप्ताब्धिकङ्कणश्रेणी भुजयोरस्य भूषणम् ॥ १,२४.२८ ॥

"जीवेन उल्लसन्तः" । सजीवा इति यावत् । "मकराः" यासाम् । ताः । "कङ्कणेष्व्" अपि मकरिकाः भवन्ति । किं तु निर्जीवाः ॥ १,२४.२८ ॥

 

 

व्यवहारमहावर्ता सुखदुःखपरम्परा ।

रजःपूर्णा तमःश्यामा रोमाली तस्य राजते ॥ १,२४.२९ ॥

"व्यवहाराणां महावर्ताः" पुनः पुनरागमनानि यस्याम् । सा । तादृशी "सुखदुःखपरम्परा" "तस्य" "रोमाली" "राजते" । कथम्भूता । "रजःपूर्णा" रजोगुणभरिता । तथा "तमःश्यामा" तमोगुणमलिना । "रोमाली" अपि आवर्तयुक्ता रजःपूर्णा तमःश्यामा च भवति ॥ १,२४.२९ ॥

 

 

 

एवम्प्रायां स कल्पान्ते कृतान्तस्ताण्डवोद्भटाम् ।

उपसंहृत्य नृत्येहां सृष्ट्या सह महेश्वरः ॥ १,२४.३० ॥

पुनर्हास्यमयीं नृत्तलीलां सर्वस्वरूपिणीम् ।

तनोतीमां जरादुःखशोकाभिनयभूषिताम् ॥ १,२४.३१ ॥

"सृष्ट्या सह" नियत्या सह । "पुनः" सर्गारम्भे । "इमां" जगद्रूपाम् ॥ १,२४.३०३१ ॥

 

 

 

सर्गान्तश्लोकेनैतत्समापयति

भूयः करोति भुवनानि वनान्तराणि

लोकान्तराणि जनजालककल्पनां च ।

आचारचारुकलनां च चलाचलां च

पङ्काद्यथार्भकजनो रचनामखिन्नः ॥ १,२४.३२ ॥

"चलाचलाम्" अत्यन्तचलाम् । इति शिवम् ॥ १,२४.३२ ॥

 

 

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे चतुर्विंशः सर्गः ॥ १,२४ ॥