मोक्षोपायटीका/वैराग्यप्रकरणम्/सर्गः १८

विकिस्रोतः तः
← सर्गः १७ मोक्षोपायटीका/वैराग्यप्रकरणम्
भास्करकण्ठः
सर्गः १९ →
मोक्षोपायटीका/वैराग्यप्रकरणम्



एवं शरीरनिन्दां कृत्वा तत्प्रथमावस्थारूपस्य बाल्यस्य निन्दां प्रस्तौति

लब्ध्वापि तरलाकारे कार्यभारतरङ्गिणि ।

संसारसागरे जन्म बाल्यं दुःकाय केवलम् ॥ १,१८.१ ॥

स्पष्टम् ॥ १,१८.१ ॥

 

 

 

तत्कृतं दुःखमेव विस्तरेण कथयति

अशक्तिरापदस्तृष्णा मूकता मूढबुद्धिता ।

गृध्नुता लोलता दैन्यं सर्वं बाल्ये प्रवर्तते ॥ १,१८.२ ॥

स्पष्टम् ॥ १,१८.२ ॥

 

 

रोषरोदनरौद्रीषु दैन्यजर्जरितासु च ।

दशासु बन्धनं बाल्यमालानं करिणीष्विव ॥ १,१८.३ ॥

 

 

"दशास्व्" इति वैषयिके आधारे सप्तमी । बध्यते अस्मिन्निति "बन्धनम्" ॥ १,१८.३ ॥

 

 

न मृतौ न जरारोगे न चापदि न यौवने ।

ताश्चिन्ता न निकृन्तन्ति हृदयं शैशवेषु याः ॥ १,१८.४ ॥

जरा एव रोगः "जरारोगस्" । तस्मिन् ॥ १,१८.४ ॥

 

 

 

तिर्यग्जातिसमारम्भः सर्वैरेवावधीरितः ।

लोलो बालजनाचारो मरणादपि दुःखदः ॥ १,१८.५ ॥

"तिर्यग्जाति"वत्"समारम्भः" यस्य । सः । पशुजातितुल्यसमारम्भ इत्यर्थः ॥ १,१८.५ ॥

 

 

प्रतिबिम्बं घनाज्ञानां नानासङ्कल्पपेलवम् ।

बाल्यमालूनसंशीर्णमनः कस्य सुखावहम् ॥ १,१८.६ ॥

"बाल्यं" कथम्भूतम् । "आलूनसंशीर्णम्" अत्यन्तचञ्चलम् । "मनः" यस्मिन् । तत्तादृशम् । "घनाज्ञानाम्" अत्यन्तजडानाम् । "प्रतिबिम्बं" दृष्टान्तः ॥ १,१८.६ ॥

 

 

 

जडश्यामलयाजस्रं जातभीत्या पदे पदे ।

यद्भयं शैशवे बुद्ध्या कस्यामापदि तद्भवेत् ॥ १,१८.७ ॥

"बुद्ध्या" "भयं" बुद्धिकृतं भयम् । न कस्यामपीति भवः ॥ १,१८.७ ॥

 

 

लीलासु दुर्विलासेषु दुरीहासु दुराशये ।

परमं मोहमादत्ते बालो बलवदापदम् ॥ १,१८.८ ॥

"दुराशये" कुत्सिते चित्ते । "मोहं" कथम्भूतम् "बलवती" "आपद्" यस्मात् । तत्तादृशम् ॥ १,१८.८ ॥

 

 

 

विकल्पकलिलारम्भं दुर्विलासं दुरास्पदम् ।

शैशवं शासनायैव पुरुषस्य न शान्तये ॥ १,१८.९ ॥

"शासनाय" मारणाय । "शान्तये" सुखाय ॥ १,१८.९ ॥

 

 

 

ये दोषा ये दुराचारा दुष्क्रमा ये दुराधयः ।

ते सर्वे संस्थिता बाल्ये दुर्गर्त इव कौशिकाः  ॥ १,१८.१० ॥

"कौशिकाः "घूकाः ॥ १,१८.१० ॥

 

 

 

बाल्यं रम्यमिति व्यर्थबुद्धयः कथयन्ति ये ।

तान्मूर्खपुरुषान् ब्रह्मन् धिगस्तु हतचेतसः ॥ १,१८.११ ॥

स्पष्टम् ॥ १,१८.११ ॥

 

 

यत्र लोलाकृति मनः परिस्फुरति वृत्तिषु ।

त्रैलोक्यराज्यमपि तत्कथं वहति तुष्टये ॥ १,१८.१२ ॥

"त्रैलोक्यराज्यम्" "अपि" त्रैलोक्यराज्यरूपमपि । "वहति" प्रभवति ॥ १,१८.१२ ॥

 

 

सर्वेषामेव सत्त्वानां सर्वावस्थासु चैव हि ।

मनश्चञ्चलतामेति बाल्ये दशगुणं मुने ॥ १,१८.१३ ॥

"तु"शब्दोऽध्याहार्यः । हे "मुने" । "बाल्ये" तु "मनः" "दशगुणं" "चञ्चलताम्" "एति" ॥ १,१८.१३ ॥

 

 

मनः प्रकृत्यैव चलं बाल्यं च चलतावरम् ।

तयोः संश्लिष्टयोः तात केनैवान्तः कुचापले ॥ १,१८.१४ ॥

"चलतायां वरम्" प्रधानम् । बहुचलमित्यर्थः । हे "तात" । "तयोः" मनोबालतयोः । "संश्लिष्टयोः" सत्योः । "कुचापले" "केनैव" प्रकारेण्"आन्तः" अवसानं स्यात् । न केनापीत्यर्थः ॥ १,१८.१४ ॥

 

 

स्त्रीलोचनैस्तडित्पुञ्जैर्ज्वालामालैस्तरङ्गकैः ।

चापलं शिक्षितं ब्रह्मञ्शैशवान्मनसोऽथ वा ॥ १,१८.१५ ॥

"स्त्रीलोचना"दिभ्योऽपि "शैशवं" चलमिति भावः ॥ १,१८.१५ ॥

 

 

शैशवं च मनश्चैव सर्वास्वेव हि वृत्तिषु ।

भ्रातराविव लक्ष्येते सततं भङ्गुरस्थिती ॥ १,१८.१६ ॥

"भङ्गुरस्थिती" चलस्थिती ॥ १,१८.१६ ॥

 

 

सर्वाणि दुष्टभूतानि सर्वे दोषा दुराशयाः ।

बाल्यमेवोपजीवन्ति श्रीमन्तमिव मानवाः ॥ १,१८.१७ ॥

"दुराशयाः" कठिनाः । "उपजीवन्ति" अपेक्षन्ते ॥ १,१८.१७ ॥

 

 

नवं नवं प्रीतिकरं न शिशुः प्रत्यहं यदि ।

प्राप्नोति तदसौ याति विषवेगस्य मूर्छनाम् ॥ १,१८.१८ ॥

"नवं नवं" नवीनं नवीनं वस्तु ॥ १,१८.१८ ॥

 

 

स्तोकेन वशमायाति स्तोकेनैति विकारिताम् ।

अमेध्य एव रमते बालः कौलेयको यथा ॥ १,१८.१९ ॥

स्पष्टम् ॥ १,१८.१९ ॥

 

 

अजस्रं बाष्पवदनः कर्दमान्तर्जडाशयः ।

वर्षोक्षितस्य तप्तस्य स्थलस्य सदृशः शिशुः ॥ १,१८.२० ॥

"कर्दमान्तः" कर्दममध्ये । "जडः आशयः" यस्य । सः तादृशः । "वर्षोक्षितं" "तप्तस्थलम्" अपीदृशमेव भवति ॥ १,१८.२० ॥

 

 

भयाहारपरं दीनं यथादृष्टाभिलाषि च ।

लोलबुद्धिः वपुर्धत्ते बालो दुःखाय केवलम् ॥ १,१८.२१ ॥

स्पष्टम् ॥ १,१८.२१ ॥

 

 

स्वसङ्कल्पाभिलषितान् भावानप्राप्य तप्तधीः ।

दुःखमेत्यबलो बालो विनिकृत्त इवाशये ॥ १,१८.२२ ॥

स्पष्टम् ॥ १,१८.२२ ॥

 

 

 

दुरीहालब्धलक्ष्याणि बहुपक्षोल्वणानि च ।

बालस्य यानि दुःखानि मुने तानि न कस्यचित् ॥ १,१८.२३ ॥

"दुरीहाभिस्" तत्कर्तृकाभिः दुश्चेष्टाभिः । "लब्धं लक्ष्यम्" आस्पदं यैः । तानि । "बहुः" यः "पक्षः" स्ववर्गः । तेन "उल्वणानि" कठिनानि । शराणामत्रोपमानत्वं व्यङ्ग्यम् ॥ १,१८.२३ ॥

 

 

 

बालो बलवताश्वेन मनोरथविलासिना ।

मनसा तप्यते नित्यं ग्रीष्मेणेव वनस्थलम् ॥ १,१८.२४ ॥

"अश्वेने"त्य् । अत्राश्वेवेति पाठः ॥ १,१८.२४ ॥

 

 

विद्यागृहगतो बालः परामेति कदर्थनाम् ।

आलान इव नागेन्द्रो विषवैषम्यभीषणम् ॥ १,१८.२५ ॥

स्पष्टम् ॥ १,१८.२५ ॥

 

 

नानामनोरथमयी मिथ्याकल्पितकल्पना ।

दुःखायात्यन्तदीर्घाय बालता पेलवाशया ॥ १,१८.२६ ॥

"पेलवः" जडः । "आशयः" यस्याम् । सा तादृशी ॥ १,१८.२६ ॥

 

 

 

सम्भृष्टं तुहिनं भोक्तुमिन्दुमादातुमम्बरात् ।

वाञ्छ्यते येन मौर्ख्येण तत्सुखाय कथं भवेत् ॥ १,१८.२७ ॥

"सम्भृष्टम्" भर्जितम् ॥ १,१८.२७ ॥

 

 

 

अन्तश्चितेरशक्तस्य शीतातपनिवारणे ।

को विशेषो महाबुद्धे बालस्योर्वीरुहस्य च ॥ १,१८.२८ ॥

"अन्तश्चितेः" न तु विकसितचितेः । "चितिः" शीतातपज्ञानम् ॥ १,१८.२८ ॥

 

 

 

उड्डीनमभिवाञ्छन्ति पक्षाभ्यां क्षुत्परायणाः ।

भयाहारपरा नित्यं बाला विहगधर्मिणः ॥ १,१८.२९ ॥

भयाहारयोः पराः "भयाहारपराः" ॥ १,१८.२९ ॥

 

 

शैशवे गुरुतो भीतिर्मातृतः पितृतस्तथा ।

जनतो ज्येष्ठबालाच्च शैशवं भयमन्दिरम् ॥ १,१८.३० ॥

ज्येष्ठबालो हि कनिष्ठबालं पराभवतीति "ज्येष्ठबालाच्" "चे"त्युक्तम् ॥ १,१८.३० ॥

 

 

 

सर्गान्तश्लोकेन बाल्यनिन्दां समापयति

सकलदोषदशाविहताशयं

शरणमप्यविवेकविलासिनः ।

इह न कस्यचिदेव महामुने

भवति बाल्यमलं परितुष्टिदम् ॥ १,१८.३१ ॥

"अविवेक" एव "विलासी" । तस्य "शरणं" गृहम् । अविवेकास्पदमित्यर्थः । "अपि"शब्दः पादपूरणार्थः । इति शिवम् ॥ १,१८.३१ ॥

 

 

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणेऽष्टादशः सर्गः ॥ १,१८ ॥