मोक्षोपायटीका/वैराग्यप्रकरणम्/सर्गः ४

विकिस्रोतः तः
← सर्गः ३ मोक्षोपायटीका/वैराग्यप्रकरणम्
भास्करकण्ठः
सर्गः ५ →
मोक्षोपायटीका/वैराग्यप्रकरणम्



अथोनषोडशे वर्षे वर्तमाने रघूद्वहे ।

रामानुयायिनि तथा शत्रुघ्ने लक्ष्मणेऽपि च ॥ ंो_१,४.१ ॥

भरते संस्थिते नित्यं मातामहगृहे सुखम् ।

पालयत्यवनिं राज्ञि यथावदखिलामिमाम् ॥ ंो_१,४.२ ॥

जन्यत्रार्थं च पुत्राणां प्रत्यहं सह मन्त्रिभिः ।

कृतमन्त्रे महाप्राज्ञे तज्ज्ञे दशरथे नृपे ॥ ंो_१,४.३ ॥

कृतायां तीर्थयात्रायां रामो निजगृहस्थितः ।

जगामानुदिनं कार्श्यं शरदीवामलं सरः ॥ ंो_१,४.४ ॥

"तथा" ऊनषोडशवर्षे सतीत्यर्थः । "जन्यत्रार्थं" विवाहार्थम् । "कार्श्यं" क्षीणताम् ॥ ंोट्_१,४.१४ ॥

 

 

 

कार्श्यमेव कथयति

क्रमादस्य विशालाक्षं पाण्डुतां मुखमादधे ।

पाकफुल्लदलं शुक्लं सालिमालमिवाम्बुजम् ॥ ंो_१,४.५ ॥

कृशतायां हि मुखस्य पाण्डिमा जायते ॥ ंोट्_१,४.५ ॥

 

 

कपोलतलसंलीनपाणिः पद्मासनस्थितः ।

चिन्तापरवशस्तूष्णीमव्यापारो बभूव सः ॥ ंो_१,४.६ ॥

"सः" श्रीरामः ॥ ंोट्_१,४.६ ॥

 

 

कृशाङ्गश्चिन्तया युक्तः खेदी परमदुर्मनाः ।

नोवाच कस्यचित्किञ्चिल्लिपिकर्मार्पितोपमः ॥ ंो_१,४.७ ॥

स्पष्टम् ॥ ंोट्_१,४.७ ॥

 

 

खेदात्परिजनेनासौ प्रार्थ्यमानः पुनः पुनः ।

चकाराह्निकमाचारं परिम्लानमुखाम्बुजः ॥ ंो_१,४.८ ॥

स्पष्टम् ॥ ंोट्_१,४.८ ॥

 

 

एवं मुनिविशिष्टं तं रामं गुणगणाकरम् ।

आलोक्य भ्रातरावस्य तामेवाययतुर्दशाम् ॥ ंो_१,४.९ ॥

"मुनिविशिष्टम्" उत्कृष्टं मुनिम् । वैराग्यवत्त्वात् । "अस्य ताम्" "एव" "दशां" रामसम्बन्धिनीं कार्श्यादिरूपामेवावस्थाम् ॥ ंोट्_१,४.९ ॥

 

 

तथा तेषु तनूजेषु खेदवत्सु कृशेषु च ।

सपत्नीको महीपालश्चिन्ताविवशतां ययौ ॥ ंो_१,४.१० ॥

स्पष्टम् ॥ ंोट्_१,४.१० ॥

 

 

का ते पुत्र घना चिन्तेत्येवं रामं पुनः पुनः ।

अपृच्छत्स्निग्धया वाचा न चाकथयदस्य सः ॥ ंो_१,४.११ ॥

"सः" रामः । "अस्य" पितुः ॥ ंोट्_१,४.११ ॥

 

 

न किञ्चित्तात मे दुःकमित्युक्त्वा पितुरङ्कगः ।

रामो राजीवपत्राक्षस्तूष्णीमेव स्म तिष्ठति ॥ ंो_१,४.१२ ॥

स्पष्टम् ॥ ंोट्_१,४.१२ ॥

 

 

ततो दशरथो राजा रामः किं खेदवानिति ।

अपृच्छत्सर्वकार्यज्ञं वसिष्ठं वदतां वरम् ॥ ंो_१,४.१३ ॥

"सर्वकार्यज्ञं" सर्वेषु कार्येषु निपुणम् । अन्यथा पृच्छनमयुक्तमेव स्यादिति भावः ॥ ंोट्_१,४.१३ ॥

 

 

अस्त्यत्र कारणं श्रीमन्मा राजन् दुःखमस्तु ते ।

इत्युक्तश्चिन्तया युक्तो वसिष्ठमुनिना नृपः ॥ ंो_१,४.१४ ॥

"श्रीमत्" ज्ञानाख्यफलकारित्वात् । "कारणं" वैराग्याख्यं किञ्चिद् । अस्मिन् समये वक्तुमयुक्तमिति भावः ॥ ंोट्_१,४.१४ ॥

 

 

उपसंहृतमपि वसिष्ठवाक्यं सर्गान्तश्लोकेन पुनः कथयति

कोपं विषादकलनां विततं च हर्षं

नाल्पेन कारणवशेन वहन्ति सन्तः ।

सर्गेण संहतिजवेन विना जगत्याम्

भूतानि भूप न महान्ति विकारयन्ति ॥ ंोट्_१,४.१५ ॥

 

 

 

"सन्तः" साधवः । "अल्पेन" स्तोकेन । "कारणवशेन" विततं "कोपं" विततां "विषादकलनां" "विततं" "हर्षं" "च" । "न" "वहन्ति" न धारयन्ति । "अल्पेने"ति विशेषणस्य "कारणे"त्यनेनार्थिकः सम्बन्धः । अत्र व्यतिरेकेण दृष्टान्तमाह "सर्गेणे"ति । हे "भूप" । "महान्ति भूतानि" महाभूतानि । "जगत्यां" जगति । "सर्गेण विना" महासृष्टिं "विना" । तथा "संहतिजवेन विना" संहाराख्यवेगेन विना । "न विकारयन्ति" कार्योत्पत्त्याख्यविकारयुक्तानि तथा नाशाख्यविकारयुक्तानि च न भवन्ति । तत्करोति तदाचष्टे इति णिच् । "विकारवन्ती"ति वा पाठः । स्थित्यवस्थायामवान्तरसर्गसंहतिरूपेणाल्पेन कारणेन न भवन्तीति भावः । इति शिवम् ॥ ंोट्_१,४.१५ ॥

 

 

 

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे चतुर्थः सर्गः ॥ १,४ ॥