मोक्षोपायटीका/वैराग्यप्रकरणम्/सर्गः २२

विकिस्रोतः तः
← सर्गः २१ मोक्षोपायटीका/वैराग्यप्रकरणम्
भास्करकण्ठः
सर्गः २३ →
मोक्षोपायटीका/वैराग्यप्रकरणम्



एवं जरानिन्दां कृत्वा कालनिन्दां प्रस्तौति

विकल्पकल्पनानल्पकल्पितैरल्पबुद्धिभिः ।

भेदैरुद्धरतां नीतः संसारकुहकभ्रमः ॥ १,२२.१ ॥

"भेदैः" कथम्भूतैः । विकल्पकल्पनाभिः "अनल्पम्" अत्यन्तम् । "कल्पितैः" । असत्यभूतैरित्यर्थः । "संसार "एव "कुहकभ्रमः" मिथ्याभ्रमः ॥ १,२२.१ ॥

 

 

 

सतां कथमिवास्थेह जायते जालपञ्जरे ।

बाला एवात्तुमिच्छन्ति फलं मकुरबिम्बितम् ॥ १,२२.२ ॥

"इह" "जालपञ्जरे" इन्द्रजालपञ्जररूपे संसारे इत्यर्थः । भामेतिवत्प्रयोगः । "अत्तुम्" भक्षितुम् ॥ १,२२.२ ॥

 

 

 

इहापि विद्यते यैषा पेलवा सुखभावना ।

आखुस्तन्तुमिवाशेषं कालस्तामपि कृन्तति ॥ १,२२.३ ॥

"अशेषम्" इति क्रियाविशेषणम् । "तां" सुखभावनाम् ॥ १,२२.३ ॥

 

 

न तदस्तीह यदयं कालस्सकलघस्मरः ।

ग्रसते न जगज्जातं महाब्धिमिव वाडवः ॥ १,२२.४ ॥

स्पष्टम् ॥ १,२२.४ ॥

 

 

समस्तसामान्यतया भीमः कालो महेश्वरः ।

दृश्यसत्तामिमां सर्वां कवलीकर्तुमुद्यतः ॥ १,२२.५ ॥

स्पष्टम् ॥ १,२२.५ ॥

 

 

महतामपि नो देवः प्रतिपालयति क्षणात् ।

कालः कवलितानन्तविश्वो विश्वात्मतां गतः ॥ १,२२.६ ॥

"नो" "प्रतिपालयति" न प्रतीक्षते । "विश्वात्मतां" व्यापकताम् ॥ १,२२.६ ॥

 

 

युगवत्सरकल्पाख्यैः किञ्चित्प्रकटतां गतः ।

रूपैरलक्ष्यरूपात्मा सर्वमाक्रम्य तिष्ठति ॥ १,२२.७ ॥

सूर्यवारादिवशेन ज्ञातैरिति शेषः ॥ १,२२.७ ॥

 

 

ये रम्या ये शुभारम्भाः सुमेरुगुरवोऽपि ये ।

कालेन विनिगीर्णास्ते करभेणेव पल्लवाः ॥ १,२२.८ ॥

स्पष्टम् ॥ १,२२.८ ॥

 

 

 

निर्दयः कठिनः क्रूरः कर्कशः कृपणोऽधमः ।

न तदस्ति यदद्यापि न कालो निगिरत्ययम् ॥ १,२२.९ ॥

पौनरुक्त्यप्रयोगः क्रोधावेशबाहुल्यं सूचयति ॥ १,२२.९ ॥

 

 

 

कालः कवलनैकान्तमतिरत्ति गिरीनपि ।

अनन्तैरपि भोगौघैर्नायं तृप्तो महाशनः ॥ १,२२.१० ॥

"महाशनः" बह्वाशी ॥ १,२२.१० ॥

 

 

 

हरत्ययं नाशयति करोत्यत्ति निहन्ति च ।

कालः संसारनृत्ये हि नानारूपैर्यथा नटः ॥ १,२२.११ ॥

स्पष्टम् ॥ १,२२.११ ॥

 

 

 

भिनत्ति प्रविभागस्थो भूतबीजान्यनारतम् ।

जगत्यसत्तया चञ्च्वा दाडिमानि यथा शुकः ॥ १,२२.१२ ॥

"प्रविभागे" ति"ष्ठ"तीति तादृशः । प्रविभागकारीत्यर्थः ॥ १,२२.१२ ॥

 

 

शुभाशुभविषाणाग्रविलूनजनपल्लवः ।

स्फूर्जति स्फीतजनताजीवराजीविनीगजः ॥ १,२२.१३ ॥

"स्फीता" स्फारत्वं गता । "जीवराजीविनी" जीवयुक्ता पद्मिनी ॥ १,२२.१३ ॥

 

 

 

विरिञ्चमज्जब्रह्माण्डबृहद्विल्वफलद्रुमम् ।

ब्रह्मकाननमाभोगि परमावृत्य तिष्ठति ॥ १,२२.१४ ॥

"ब्रह्माण्डे" हि "विरिञ्च" एव सारभूतो भवतीति "विरिञ्चमज्जे"त्युक्तम् । "आवृत्य" आच्छाद्य । एतेन ब्रह्मण्यपि कालस्पर्श उक्तः ॥ १,२२.१४ ॥

 

 

यामिनीभ्रमरीपूर्णा रचयन् दिनमञ्जरीः ।

वर्षकल्पकलावल्लीर्न कदाचन खिद्यते ॥ १,२२.१५ ॥

काल इति शेषः । कालः किं कुर्वन् । "वर्षकल्पकलावल्ली" "रचयन्न्" इति योज्यम् ॥ १,२२.१५ ॥

 

 

भिद्यते नावभग्नोऽपि दग्धोऽपि हि न दह्यते ।

दृश्यते नातिदृश्योऽपि धूर्तचूडामणिर्मुने ॥ १,२२.१६ ॥

"अतिदृश्य"त्वं कालस्य ऋतुगुणादिदर्शनेन ज्ञेयम् । "न दृश्यते" आकाराभावात् । "धूर्तोऽपि" एवंविधो भवतीति "धूर्तचूडामणिर्" इत्युक्तम् ॥ १,२२.१६ ॥

 

 

 

एकेनैव निमेषेण किञ्चिदुत्थापयत्यलम् ।

किञ्चिद्विनाशयत्युच्चैर्मनोराज्यवदाततः ॥ १,२२.१७ ॥

स्पष्टम् ॥ १,२२.१७ ॥

 

 

दुर्विलासविलासिन्या चेष्टया परिपुष्टया ।

दर्व्येव सूपकृत्सूपं जनमावर्तयन् स्थितः ॥ १,२२.१८ ॥

"आवर्तयन्" भ्रमयन् ॥ १,२२.१८ ॥

 

 

 

तृणं पांसुं महेन्द्रं च सुमेरुं पर्णमर्णवम्  ।

आत्मस्फारतया सर्वमात्मसात्कर्तुमुद्यतः ॥ १,२२.१९ ॥

"आत्मनः" या "स्फारता" व्यापकता । तया । "आत्मसात्कर्तुम्" स्वाधीनं कर्तुम् ॥ १,२२.१९ ॥

 

 

 

क्रौर्यमत्रैव पर्याप्तं लुब्धतात्रैव संस्थिता ।

सर्वं दौर्भाग्यमत्रैव सर्वमत्रैव चापलम् ॥ १,२२.२० ॥

"अत्रैव" अस्मिन् काले एव । "पर्याप्तम्" पूर्णम् ॥ १,२२.२० ॥

 

 

प्रेरयंल्लीलयार्केन्दू क्रीडतीह नभस्तले ।

निक्षिप्तवीटायुगलो निजे बाल इवाङ्गने ॥ १,२२.२१ ॥

"वीटा" कन्दुकम् ॥ १,२२.२१ ॥

 

 

सर्वभूतास्थिमालाभिरापादवलिताकृतिः ।

विलसत्येष कल्पान्ते कालः कल्पितकल्पनः ॥ १,२२.२२ ॥

"कल्पिताः" "कल्पनाः" जगद्रूपाः कल्पनाः । येन । सः ॥ १,२२.२२ ॥

 

 

अस्योड्डामरनृत्तस्य कल्पान्तेऽङ्गविनिर्गतैः ।

प्रस्फुरत्यम्बरे मेरुर्भूर्जत्वगिव वायुभिः ॥ १,२२.२३ ॥

"स्फुरति" आकाशे भ्रमति ॥ १,२२.२३ ॥

 

 

रुद्रो भूत्वा भवत्येष महेन्द्रोऽथ पितामहः ।

शुक्रो वैश्रवणश्चापि पुनरेव न किञ्चन ॥ १,२२.२४ ॥

स्पष्टम् ॥ १,२२.२४ ॥

 

 

धत्तेऽजस्रोत्थितध्वस्तान् सर्गानमितभासुरान् ।

अन्यानन्यानप्यनन्यान् वीचीनब्धिरिवात्मनि ॥ १,२२.२५ ॥

"अजस्रम्" "उत्थितांश्" च तान् "ध्वस्तांश्" च "सर्गान्" सृष्टीन् । "अन्यानन्यान्" इति वीप्सा । "अपि"शब्दः "अनन्यान्" इत्यनेन सम्बध्यते ॥ १,२२.२५ ॥

 

 

 

महाकल्पाभिधानेभ्यो वृक्षेभ्यः परिशातयन् ।

देवासुरगणान् पक्वान् फलभारानवस्थितः ॥ १,२२.२६ ॥

"परिशातयन्" छेदयन् ॥ १,२२.२६ ॥

 

 

आलोलभूतमषकघुङ्घुमानां प्रपातिनाम् ।

ब्रह्माण्डोडुम्बरौघानां बृहत्पादपतां गतः ॥ १,२२.२७ ॥

"घुङ्घुमे"ति शब्दानुकरणम् । "उडुम्बरः" फलविशेषः । तत्र हि मषकाः बाहुल्येन तिष्ठन्ति ॥ १,२२.२७ ॥

 

 

सत्तामात्रकुमुद्वत्या चिज्ज्योत्स्नापरिफुल्लया ।

वपुर्विनोदयत्येषः क्रियाप्रियतमान्वितः ॥ १,२२.२८ ॥

"क्रियाप्रियतमान्वितः" "सः" कालः । "चिद्" एव प्रकाशरूपत्वात्"ज्योत्स्ना" । तया "परिफुल्लया" प्रकटीभूतया । "सत्तामात्रकुमुद्वत्या" । "वपुः" आत्मानम् । "विनोदयति" सदासत्तया क्रियया युतो भवतीति ॥ १,२२.२८ ॥

 

 

 

अनन्तापायपर्यन्तं बद्धपीठं निजं वपुः ।

महाशैलवदुत्तुङ्गमवलम्ब्य व्यवस्थितः ॥ १,२२.२९ ॥

"अनन्तापायपर्यन्तम्" अन्तापायपर्यन्तरहितम् । नाशरहितमित्यर्थः ॥ १,२२.२९ ॥     क्वचिच्छ्यामतमःश्यामं क्वचित्कान्तियुतं ततम् ।

द्वयेनापि क्रमाद्रिक्तं स्वभावं भावयन् स्थितः ॥ १,२२.३० ॥

"श्यामं" यत्"तमः" । तेन "श्यामं" । ["स्वभावम्" "भावयन्"] स्वरूपं सम्पादयन्निति यावत् । एतेन रात्रिदिवसे सन्ध्या चेति त्रयमुक्तम् ॥ १,२२.३० ॥

 

 

 

संलीनासङ्ख्यसंसारसारया स्वात्मसत्तया ।

गुर्वीव भारघनया निबद्धपदतां गतः ॥ १,२२.३१ ॥

"संलीनः" "असङ्ख्यसंसाराणां" "सारो" यस्याम् । सा । तया । गुर्वी हि "निबद्धपदतां" गच्छति इति "गुर्वी"त्युक्तम् ॥ १,२२.३१ ॥

 

 

 

न खिद्यते न म्रियते न तिष्ठति न गच्छति ।

नास्तमेति न चोदेति महाकल्पशतैरपि ॥ १,२२.३२ ॥

स्पष्टम् ॥ १,२२.३२ ॥

 

 

केवलं जगदारम्भलीलया घनहेलया ।

यापयत्यात्मनात्मानमनहङ्कारमानतम्  ॥ १,२२.३३ ॥

"घना" "हेला" यस्याम् । तादृश्या । "यापयति" समापयति । अहङ्काराभवे हि कालो नश्यति । स्वनाशक्रीडामपि स्वयमेव करोतीति भावः ॥ १,२२.३३ ॥

 

 

 

यामिनीपङ्ककलिलां दिनकोकनदावलीम् ।

क्रियाभ्रमरिकां मन्दं सरःसु आरोपयन् स्थितः ॥ १,२२.३४ ॥

"सरःसु" अर्थात्भुवनरूपेषु । "आरोपयन्" कल्पयन् । सूर्यरूपेणेति शेषः ॥ १,२२.३४ ॥

 

 

गृहीत्वा भीषणः कृष्णां रजनीं जीर्णमार्जनीम् ।

आलोककनकक्षोदमाहरत्यभितोऽवनिम् ॥ १,२२.३५ ॥

"आहरति" सम्मार्जयति । रात्रिं विधाय प्रकाशमुपसंहरतीति भावः ॥ १,२२.३५ ॥

 

 

 

सञ्चारयन् क्रियाङ्गुल्या कोणकेष्वर्कदीपिकाम् ।

जगत्सद्मनि कारुण्यात्क्व किमस्तीति वीक्षते ॥ १,२२.३६ ॥

"कोणकेषु" दिक्कोणेषु । अन्योऽपि हि दीपिकां प्रज्वाल्य सद्मनि क्व किमस्तीति पश्यति ॥ १,२२.३६ ॥

 

 

 

प्रेक्ष्याहानि निमेषेण सूर्याक्ष्णा पाकवन्त्यलम् ।

लोकपालफलान्यत्ति जगज्जीर्णवनादयम् ॥ १,२२.३७ ॥

"सूर्याक्ष्णा" सूर्याख्येन चक्षुषा । "अहानि" "प्रेक्ष्य" कञ्चित्कालं प्रतीक्ष्येत्यर्थः ॥ १,२२.३७ ॥

 

 

जगज्जीर्णकुटीकीर्णानर्पयत्युग्रकोटरे  ।

क्रमेण गुणवल्लोकमणीन्मृत्युसमुद्गके ॥ १,२२.३८ ॥

"जगज्जीर्णकुट्यां कीर्णान्" विक्षिप्तान् । अन्योऽपि हि कुट्यां विक्षिप्तान्मणीन् समुद्गकेऽर्पयति ॥ १,२२.३८ ॥

 

 

 

गुणैरापूर्यते यैव लोकरत्नावली भृशम् ।

भूषार्थमिव तामङ्गे कृत्वा भूयो निकृन्तति ॥ १,२२.३९ ॥

अन्योऽपि राजादिः रत्नावलीमङ्गे कृत्वा लीलया कृन्तति ॥ १,२२.३९ ॥

 

 

 

दिनहंसानुसृतया निशेन्दीवरमालया  ।

ताराकेसरयाजस्रं चपलो वलयत्यलम् ॥ १,२२.४० ॥

"वलयति" आवृत्तं सम्पादयति । भुवनमिति शेषः ॥ १,२२.४० ॥

 

 

 

शैलोर्णद्युधराशृङ्गजगदूर्णायुसौनिकः ।

प्रत्यहं पिबति प्रेक्ष्य तारारक्तकणानपि ॥ १,२२.४१ ॥

"शैला" एव "ऊर्णा" यस्य । तत् । तादृशम् । "द्युधरे" द्यावापृथिव्यौ एव "शृङ्गे" यस्य । तत् । तादृशं च । ईदृशं च यत्"जगत्" तदेव "ऊर्णायुः" मेषः । तस्य "सौनिकः" हिंसकः ॥ १,२२.४१ ॥

 

 

 

तारुण्यनलिनीसोम आयुर्मातङ्गकेसरी ।

न तदस्ति न यस्यायं तुच्छातुच्छस्य तस्करः ॥ १,२२.४२ ॥

स्पष्टम् ॥ १,२२.४२ ॥

 

 

कल्पकेलिविलासेन पिष्टपातितजन्तुना ।

न्यग्भावोद्भवहासेन रमते स्वात्मनात्मनि ॥ १,२२.४३ ॥

"पिष्टाः" चूर्णीकृताः । अत एव "पातिताः" "जन्तवो" येन । सः । तादृशेन । काल इति शेषः । तृतीयान्तत्रयं "स्वात्मने"त्यस्य विशेषणत्वेन योज्यम् ॥ १,२२.४३ ॥

 

 

 

कर्ता भोक्ताथ संहर्ता स्मर्ता सर्वं पदं गतः ।

सर्वमेव करोतीदं न करोति च किञ्चन ॥ १,२२.४४ ॥

नकिञ्चिद्रूपत्वात्न किञ्चित्करणं ज्ञेयम् ॥ १,२२.४४ ॥

 

 

 

सर्गान्तश्लोकेन कालनिन्दां समापयति

सकलमप्यकलाकलितान्तरं

सुभगदुर्भगरूपधरं वपुः ।

प्रकटयन् सहसैव च गोपयन्

विलसतीह हि कालबलं नृषु ॥ १,२२.४५ ॥

"सकलत्वाकल"त्वादिकं विषयविभागेन ज्ञेयम् । "प्रकटयन्" "गोपयन्" इत्यत्र सर्वनामस्थानाभावेऽपि नुमागम आर्षः । इति शिवम् ॥ १,२२.४५ ॥

 

 

 

 

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे द्वाविंशः सर्गः ॥ १,२२ ॥