मोक्षोपायटीका/वैराग्यप्रकरणम्/सर्गः २१

विकिस्रोतः तः
← सर्गः २० मोक्षोपायटीका/वैराग्यप्रकरणम्
भास्करकण्ठः
सर्गः २२ →
मोक्षोपायटीका/वैराग्यप्रकरणम्

<poem>


एवं प्रसङ्गायातां स्त्रीनिन्दां कृत्वा प्रकरणप्राप्तं जरानिन्दां प्रस्तौति

अपर्याप्तं हि बालत्वं बाल्यं पिबति यौवनम् ।

यौवनं च जरा पश्चात्पश्य कर्कशतां मिथः ॥ १,२१.१ ॥

"पिबति" ग्रसते ॥ १,२१.१ ॥




हिमाशनिरिवाम्भोजं वात्येव शरदम्बुदम् ।

देहं जरा जरयति सरित्तीरतरुं यथा ॥ १,२१.२ ॥

"जरयति" जीर्णतां नयति ॥ १,२१.२ ॥



शिथिलादीर्घसर्वाङ्गं जराजीर्णकलेवरम् ।

समं पश्यन्ति कामिन्यः पुरुषं करभं तथा ॥ १,२१.३ ॥

"तथा"शब्दः समुच्चये ॥ १,२१.३ ॥




श्वासायासकदर्थिन्या गृहीते जरसा जने ।

पलाय्य गच्छति प्रज्ञा सपत्न्येव हताङ्गना ॥ १,२१.४ ॥

"श्वासायासैः" "कदर्थयती"ति तादृश्या ॥ १,२१.४ ॥




दासाः पुत्राः स्त्रियश्चैव बान्धवाः सुहृदस्तथा ।

हसन्त्युन्मत्तकमिव नरं वार्धककम्पितम् ॥ १,२१.५ ॥

स्पष्टम् ॥ १,२१.५ ॥



दुष्प्रज्ञं जरढं दीनं हीनं गुणपराक्रमैः ।

गृध्रो वृक्षमिवादीर्घं गर्धो ह्यभ्येति वृद्धताम् ॥ १,२१.६ ॥

दैन्यदोषमयी दीर्घा हृदि दाहप्रदायिनी ।

सर्वापदामेकसखी वर्धते वार्धके स्पृहा ॥ १,२१.७ ॥

"आदीर्घं" समन्ताद्दीर्घम् । "गर्धः" लोभः । "अभ्येति" आश्रयति । "वृद्धताम्" वार्धकम् । युग्मम् ॥ १,२१.६७ ॥




कर्तव्यं किं मया कष्टं परत्रेत्यतिदारुणम् ।

अप्रतीकारयोग्यं हि वार्धके वर्धते भयम् ॥ १,२१.८ ॥

स्पष्टम् ॥ १,२१.८ ॥



कोऽहं वराकः किमिव करोमि कथमेव वा ।

तिष्ठामि मौनमेवेति दीनतोदेति वार्धके ॥ १,२१.९ ॥

स्पष्टम् ॥ १,२१.९ ॥



गर्धोऽभ्युदेति सोल्लासमुपभोक्तुं न शक्यते ।

हृदयं दह्यते नूनं शक्तिदौस्थ्येन वार्धके ॥ १,२१.१० ॥

"गर्धः" उपभोगलोभः । "सोल्लासम्" इति क्रियाविशेषणम् ॥ १,२१.१० ॥



जराजीर्णबकी यावत्कासक्रेङ्कारकारिणी ।

रौति रोगोरगाकीर्णा कायद्रुमशिरःस्थिता ॥ १,२१.११ ॥

तावदागत एवाशु कुतोऽपि परिदृश्यते ।

घनान्धतिमिराकाङ्क्षी मुने मरणकौशिकः ॥ १,२१.१२ ॥

"कासः" रोगविशेषः ॥ १,२१.१११२ ॥



सायंसन्ध्याप्रजातैव तमः समनुधावति ।

जरा वपुषि दृष्टैव मृतिं समनुधावति  ॥ १,२१.१३ ॥

स्पष्टम् ॥ १,२१.१३ ॥




जराकुसुमितं देहद्रुमं दृष्ट्वैव दूरतः ।

मृतिभृङ्गी द्रुतं ब्रह्मन्नरस्यायाति सूत्सुका ॥ १,२१.१४ ॥

सुष्ठु उत्सुका "सूत्सुका" ॥ १,२१.१४ ॥




शून्यं नगरमाभाति भाति च्छिन्नलतो द्रुमः ।

भात्यनावृष्टिमान् देशो न जराजर्जरं वपुः ॥ १,२१.१५ ॥

"शून्यनगरा"दिभ्योऽपि अशुभमेव वृद्धत्वमिति भावः ॥ १,२१.१५ ॥     क्षणान्निगिरणायैव कासक्वणितकारिणी ।

गृध्रीवामिषमादत्ते तरसैव नरं जरा ॥ १,२१.१६ ॥

स्पष्टम् ॥ १,२१.१६ ॥




दृष्ट्वैव सूत्सुकेवाशु प्रगृह्य शिरसि क्षणात् ।

प्रलुनाति जरा देहं कुमारी कैरवं यथा ॥ १,२१.१७ ॥

स्पष्टम् ॥ १,२१.१७ ॥



सीत्कारकारिणी पांसुपरुषा परिजर्जरम् ।

शरीरं शातयत्येषा वात्येव तरुपल्लवम् ॥ १,२१.१८ ॥

"एषा" जरा । जरागृहीतः "वात"गृहीतश्च पुरुषः "सीत्कारं करोति" ॥ १,२१.१८ ॥



जरसोपहतो देहो धत्ते जर्जरतां गतः ।

तुषारनिकराकीर्णपरिम्लानाम्बुजश्रियम्  ॥ १,२१.१९ ॥

स्पष्टम् ॥ १,२१.१९ ॥




जराज्योत्स्नोदितैवेयं शिरःशिखरिपृष्ठतः ।

विकासयति संरब्धवातां कासकुमुद्वतीम् ॥ १,२१.२० ॥

"संरब्धः" आरब्धः । "वातः" वातरोगः यया । सा । ताम् ॥ १,२१.२० ॥



परिपक्वं समालोक्य जराक्षारविधूसरम् ।

शिरःकुष्माण्डकं भुङ्क्ते पुंसः कालः किलेश्वरः ॥ १,२१.२१ ॥

"शिर" एव "कुष्माण्डकम्" फलविशेषः ॥ १,२१.२१ ॥




जराजह्नुसुतोद्युक्ता मूलान्यस्य निकृन्तति ।

शरीरतीरवृक्षस्य चलस्यायूंषि सत्वरम् ॥ १,२१.२२ ॥

"उद्युक्ता" प्रवृत्ता । "आयूंषि" "मूलानि" आयुराख्यानि मूलानि ॥ १,२१.२२ ॥



जरामार्जारिका भुक्तयौवनाखुतयेन्धिता  ।

परमुल्लासमायाति शरीरामिषगर्धिनी ॥ १,२१.२३ ॥

स्पष्टम् ॥ १,२१.२३ ॥




काचिदस्ति जगत्यस्मिन्नामङ्गलकरी तथा ।

यथा जराक्रोशकरी देहजङ्गलजम्बुकी ॥ १,२१.२४ ॥

स्पष्टम् ॥ १,२१.२४ ॥



कासश्वासससीत्कारा दुःखधूमतमोमयी ।

जराज्वाला ज्वलत्येषा ययासौ दग्ध एव हि ॥ १,२१.२५ ॥

"असौ" वृद्धः ॥ १,२१.२५ ॥



जरसा वक्रतामेति शुक्लावयवपल्लवा ।

तात तन्वी तनुर्नॄणां लता पुष्पानता यथा ॥ १,२१.२६ ॥

स्पष्टम् ॥ १,२१.२६ ॥




जराकर्पूरधवलं देहकर्पूरपादपम् ।

मुने मरणमातङ्गो नूनमुद्धरति क्षणात् ॥ १,२१.२७ ॥

स्पष्टम् ॥ १,२१.२७ ॥



मरणस्य मुने राज्ञो जराधवलचामरा ।

आगच्छतोऽग्रे निर्याति स्वाधिव्याधिपताकिनी ॥ १,२१.२८ ॥

स्पष्टम् ॥ १,२१.२८ ॥



न जिताः शत्रुभिः सङ्ख्ये ये निष्पिष्टाद्रिकोटयः ।

ते जराजीर्णराक्षस्या पश्याशु विजिता मुने ॥ १,२१.२९ ॥

स्पष्टम् ॥ १,२१.२९ ॥



जरातुषारधवले शरीरसदनान्तरे ।

शक्नुवन्त्यक्षशिशवः स्पन्दितुं न मनागपि ॥ १,२१.३० ॥

"अक्षशिशवः" इन्द्रियबालकाः ॥ १,२१.३० ॥



संसारसंसृतेरस्या गन्धकुट्याः शिरोगता ।

देहयष्ट्या जरानाम्नी चामरश्रीर्विराजते ॥ १,२१.३१ ॥

"गन्धकुट्याः" "शिरसि" "चामरं" स्थाप्यते । घटकुट्या इति वा पाठः ॥ १,२१.३१ ॥



जराचन्द्रोदयसिते शरीरनगरे स्थिते ।

क्षणाद्विकासमायाति मुने मरणकैरवम् ॥ १,२१.३२ ॥

स्पष्टम् ॥ १,२१.३२ ॥



जरासुधालेपसिते शरीरान्तःपुरान्तरे ।

अशक्तिराधिरार्तिश्च तिष्ठन्ति सुखमङ्गनाः ॥ १,२१.३३ ॥

स्पष्टम् ॥ १,२१.३३ ॥



अभावाग्रे सरा यत्र जरा जयति जन्तुषु ।

कस्तत्रेह समाश्वासो मम मन्दमतेर्मुने ॥ १,२१.३४ ॥

"अभावस्य" मरणस्य्"आग्रे सरा" ॥ १,२१.३४ ॥



सर्गान्तश्लोकेन जरानिन्दां समापयति

किं तेन दुर्जीवितदुर्ग्रहेण

जरां गतेनापि हि जीव्यते यत् ।

जरा जगत्यामजिता नराणां

सर्वैषणास्तात तिरस्करोति ॥ १,२१.३५ ॥

"तेन" प्रसिद्धेन । "दुर्जीवितदुर्ग्रहेण" कुत्सितजीविताख्येन दुष्टग्रहेण । "जरागतेनापि" सता "किं" "जीव्यते" किमर्थं जीव्यते । व्यर्थं जीव्यते इति यावत् । "हि" निश्चये । हे "तात" । "यद्" यस्मात्कारणात् । "जगत्यां" जगति । "अजिता" "जरा नराणां" "सर्वैषणाः" समस्ताः चेष्टाः । "तिरस्करोति" नयति । इति शिवम् ॥ १,२१.३५ ॥





इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे एकविंशः सर्गः ॥ १,२१ ॥