मोक्षोपायटीका/वैराग्यप्रकरणम्/सर्गः ३२

विकिस्रोतः तः
← सर्गः ३१ मोक्षोपायटीका/वैराग्यप्रकरणम्
भास्करकण्ठः
मोक्षोपायटीका/वैराग्यप्रकरणम्



सिद्धा एव परस्परं कथयन्ति

पावनस्यास्य वचसः प्रोक्तस्य रघुकेतुना ।

निर्णयं श्रोतुमुचितं वक्ष्यमाणं महर्षिभिः ॥ १,३२.१ ॥

नारदव्यासपुलहप्रमुखा मुनिपुङ्गवाः ।

आगच्छताश्वविघ्नेन सर्व एव महर्षयः ॥ १,३२.२ ॥

पतामः परितः पुण्यामेतां दाशरथीं सभाम् ।

नीरन्ध्रकनकाम्भोजां पद्मिनीमिव षट्पदाः ॥ १,३२.३ ॥

स्पष्टम् ॥ १,३२.१३ ॥

 

 

 

श्रीवाल्मीकिः श्रीभरद्वाजं प्रति कथयति

इत्युक्त्वा सा समस्तैव व्योमावासनिवासिनी ।

तां पपात सभां तत्र दिव्या मुनिपरम्परा ॥ १,३२.४ ॥

"व्योम्नि" यः "आवासः" । तत्र "निवस"तीति तादृशी ॥ १,३२.४ ॥

 

 

मुनिपरम्परां विशिनष्टि

अग्रस्थितमरुत्पृष्ठरणद्वीणमुनीश्वरा ।

पयःपीनघनश्यामव्यासमेचकिताम्बरा ॥ १,३२.५ ॥

"अग्रे स्थिताः" "मरुतः" यस्याम् । सा । तादृशी चासौ "पृष्ठे" च "रणद्वीणाः" "मुनीश्वराः" यस्याम् । सा । तादृशी ॥ १,३२.५ ॥

 

 

 

भृग्वङ्गिरःपुलस्त्यादिमुनिनायकमण्डिता  ।

च्यवनोद्दालकोशीरशरलोमादिपालिता ॥ १,३२.६ ॥

स्पष्टम् ॥ १,३२.६ ॥

 

 

 

परस्परपरामर्शाद्दुःसंस्थानमृगाजिना ।

लोलाक्षमालावलया सुकमण्डलुधारिणी ॥ १,३२.७ ॥

"परामर्शात्" सङ्घट्टात् ॥ १,३२.७ ॥

 

 

 

तारावलिरिवान्योन्यकृतशोभातिशायिनी ।

कौसुमी वृष्टिरन्येव द्वितीयेवार्कमण्डली ॥ १,३२.८ ॥

स्पष्टम् ॥ १,३२.८ ॥

 

 

ताराजाल इवाम्भोदो व्यासो ह्यत्र व्यराजत  ।

तारौघ इव शीतांशुर्नारदोऽत्र व्यराजत ॥ १,३२.९ ॥

स्पष्टम् ॥ १,३२.९ ॥

 

 

 

देवेष्विव स्वराधीशः पुलस्त्योऽत्र व्यराजत ।

आदित्य इव देवानामङ्गिराश्च व्यराजत ॥ १,३२.१० ॥

स्पष्टम् ॥ १,३२.१० ॥

 

 

अथास्यां सिद्धसेनायां पतन्त्यां नभसो रसात् ।

उत्तस्थौ मुनिसम्पूर्णा तदा दाशरथी सभा ॥ १,३२.११ ॥

स्पष्टम् ॥ १,३२.११ ॥

 

 

मिश्रीभूता विरेजुस्ते नभश्चरमहीचराः ।

परस्परवृताङ्गाभा भासयन्तो दिशो दश ॥ १,३२.१२ ॥

"परस्परं वृता" "अङ्गानाम्" "आभा" यैः । ते ॥ १,३२.१२ ॥

 

 

 

नभश्चरमहीचरान् विशिनष्टि

वेणुघण्टावृतकरा लीलाकमलधारिणः ।

दूर्वाङ्कुराक्रान्तशिखाः सचुडामणिमूर्धजाः ॥ १,३२.१३ ॥

स्पष्टम् ॥ १,३२.१३ ॥

 

 

 

जटाकटप्रकपिला मौलिमालितमस्तकाः ।

प्रकोष्ठगाक्षवलया माणिक्यवलयान्विताः  ॥ १,३२.१४ ॥

"जटाकटप्रेण" जटासमूहेन । "कपिलाः" ॥ १,३२.१४ ॥

 

 

 

चीरवल्कलसंवीताः स्रक्कौशेयावलुण्ठिताः ।

विलोलमेखलापाशाश्चलन्मुक्ताकलापिनः ॥ १,३२.१५ ॥

स्पष्टम् ॥ १,३२.१५ ॥

 

 

वसिष्ठविश्वामित्रौ तान् पूजयामासतुः क्षणात् ।

अर्घ्यैः पाद्यैर्वचोभिश्च नभश्चरमहागणान् ॥ १,३२.१६ ॥

स्पष्टम् ॥ १,३२.१६ ॥

 

 

सर्वाचारेण सिद्धौघं पूजयामास भूपतिः ।

सिद्धौघो भूपतिं चैव कुशलप्रश्नवार्तया ॥ १,३२.१७ ॥

स्पष्टम् ॥ १,३२.१७ ॥

 

 

 

तैस्तैः प्रणयसंरम्भैरन्योऽन्यं प्राप्तसत्क्रियाः ।

उपाविशन् विष्टरेषु नभश्चरमहीचराः ॥ १,३२.१८ ॥

"प्रणयसंरम्भैः" स्नेहसंरम्भैः ॥ १,३२.१८ ॥

 

 

 

वचोभिः पुष्पवर्षेण साधुवादेन चाभितः ।

रामं तं पूजयामासुः पुरः प्रणतमास्थितम् ॥ १,३२.१९ ॥

स्पष्टम् ॥ १,३२.१९ ॥

 

 

आसां चक्रे च तत्रासौ राजलक्ष्म्या विराजितः ।

विश्वामित्रो वसिष्ठश्च वामदेवश्च मन्त्रिणः ॥ १,३२.२० ॥

"असौ" श्रीरामः ॥ १,३२.२० ॥

 

 

 

नारदो देवपुत्रश्च व्यासश्च मुनिपुङ्गवः ।

मरीचिरथ दुर्वासा मुनिराङ्गिरसस्तथा ॥ १,३२.२१ ॥

स्पष्टम् ॥ १,३२.२१ ॥

 

 

क्रतुः पुलस्त्यः पुलहः शरलोमा मुनीश्वरः ।

वात्स्यायनो भरद्वाजो वाल्मीकिर्मुनिपुङ्गवः ॥ १,३२.२२ ॥

स्पष्टम् ॥ १,३२.२२ ॥

 

 

उद्दालक ऋचीकश्च शर्यातिश्च्यवनस्तथा ।

ऊष्मपाश्च घृतार्चिश्च शालुडिर्वालुडिस्तथा ॥ १,३२.२३ ॥

स्पष्टम् ॥ १,३२.२३ ॥

 

 

 

एते चान्ये च बहवो वेदवेदाङ्गपारगाः ।

ज्ञातज्ञेया महात्मानः संस्थितास्तत्र नायकाः ॥ १,३२.२४ ॥

"नायकाः" श्रेष्ठाः ॥ १,३२.२४ ॥

 

 

वसिष्ठविश्वामित्राभ्यां सह ते नारदादयः ।

इदमूचुरनूचाना राममानमिताननम् ॥ १,३२.२५ ॥

"अनूचानाः" साङ्गवेदज्ञाः ॥ १,३२.२५ ॥

 

 

अहो वत कुमारेण कल्याणगुणशालिनी ।

वागुक्ता परमोदारविरागरसगर्भिणी ॥ १,३२.२६ ॥

स्पष्टम् ॥ १,३२.२६ ॥

 

 

परिनिष्ठितवाक्यार्थसुबोधमुचितं स्फुटम् ।

उदारं प्रियचर्यार्हमविह्वलमविप्लुतम् ॥ १,३२.२७ ॥

अभिव्यक्तपदं चैव निष्ठं स्पष्टं च तुष्टिमत् ।

करोति राघवप्रोक्तं वचः कस्य न विस्मयम् ॥ १,३२.२८ ॥

"परिनिष्ठितः" आकाङ्क्षारहितः । "वाक्यार्थः" यस्मिन् । तत्"परिनिष्ठितवाक्यार्थं" । तादृशं च तत्"सुबोधं" च तत् । "स्फुटम्" प्रकटार्थम् । "प्रियचर्याम्" प्रियव्यवहारम् "अर्हती"ति तादृशम् । "अविह्वलं" व्याकुलतारहितम् । "अविप्लुतं" केनापि बाधितुमशक्यम् । "तुष्टिमत्" श्रोतुः तुष्टिकारित्वेन तुष्टिमत् ॥ १,३२.२७२८ ॥

 

 

 

शतादेकतमस्यैव सर्वोदारचमत्कृतेः ।

ईप्सितार्थार्पणैकान्तदक्षा भवति भारती ॥ १,३२.२९ ॥

"सर्वेभ्यः उदारा" उद्भटा । "चमत्कृतिः" चमत्कारो । यस्य । तादृशस्य । न तु सर्वे एतादृशाः भवन्तीति भावः ॥ १,३२.२९ ॥

 

 

 

श्रीरामं प्रति कथयति

कुमार त्वां विना कस्य विवेकफलशालिनी  ।

एवं विकासमायाति प्रज्ञा वनलता यथा ॥ १,३२.३० ॥

स्पष्टम् ॥ १,३२.३० ॥

 

 

 

प्रज्ञादीपशिखा यस्य रामस्येव हृदि स्थिता ।

प्रज्वलत्यलमालोककारिणी स पुमान् स्मृतः ॥ १,३२.३१ ॥

स्पष्टम् ॥ १,३२.३१ ॥

 

 

रक्तमांसास्थियन्त्राणि बहून्यतिततानि च ।

पदार्थानपकर्षन्ति नास्ति तेषु सचेतनम् ॥ १,३२.३२ ॥

"अतिततानि बहूनि रक्तमांसास्थियन्त्राणि" देहनिष्ठाः पुरुषा इति यावत् । सन्ति कथम्भूतानि । "पदार्थान्" "अपकर्षन्ति" जाड्येन जेतॄणि । किं तु "तेषु" किञ्चिदपि "रक्तमांसास्थियन्त्रम्" "सचेतनं" विचारयुक्तम् । "नास्ति" । कश्चिदपि पुरुषः सचेतनो नास्तीत्यर्थः ॥ १,३२.३२ ॥

 

 

 

जन्ममृत्युजरादुःखमनुयान्ति पुनः पुनः ।

विमृशन्ति न संसारपशवः परिमोहिताः ॥ १,३२.३३ ॥

"विमृशन्ती"त्यत्रापि "जन्ममृत्युजरादुःखम्" इत्येतदेव कर्म । "संसारपशवः" अज्ञानिनः ॥ १,३२.३३ ॥

 

 

कथञ्चित्क्वचिदेवैको दृश्यते विमलाशयः ।

पूर्वापरविचारार्हो यथायमरिसूदनः ॥ १,३२.३४ ॥

"पूर्वापरविचारार्हः" सम्यग्विचारयोग्यः ॥ १,३२.३४ ॥

 

 

अनुत्तमचमत्कारफलाः सुभगमूर्तयः ।

भव्या हि विरला लोके सहकारद्रुमा इव ॥ १,३२.३५ ॥

"भव्याः" विवेकयुक्ताः ॥ १,३२.३५ ॥

 

 

सम्यग्दृष्टिर्जगज्जातौ स्वविवेकचमत्कृतिः ।

अस्मिन् भव्यमतावन्तरियमन्येव दृश्यते ॥ १,३२.३६ ॥

अस्माभिः । "भव्यमतौ" "अस्मिन्" गर्भरूपे श्रीरामे । "सम्यग्दृष्टिः" सम्यग्दृष्टिस्वरूपा । "इयं" "स्वविवेकचमत्कृतिः" आत्मविवेकचमत्कारः । "जगज्जातौ" जगत्स्थितौ । "अन्या इव" नवीना इव । "दृश्यते" ॥ १,३२.३६ ॥

 

 

 

सुलभाः सुभगा लोकाः फलपल्लवशालिनः ।

जायन्ते तरवो देशे न तु चन्दनपादपाः ॥ १,३२.३७ ॥

"सुभगाः" आकारमात्रेण मनोहराः ॥ १,३२.३७ ॥

 

 

वृक्षाः प्रतिवने सन्ति सत्यं सुफलपल्लवाः ।

न त्वपूर्वचमत्कारो लवङ्गः सुलभः सदा ॥ १,३२.३८ ॥

स्पष्टम् ॥ १,३२.३८ ॥

 

 

ज्योत्स्नेव शीता शशिनः सुतरोरिव मञ्जरी ।

पुष्पादामोदलेखेव दृष्टा रामाच्चमत्कृतिः ॥ १,३२.३९ ॥

"चमत्कृतिः" वैराग्यरूपेत्यर्थः ॥ १,३२.३९ ॥

 

 

 

अस्मादुद्दामदौरात्म्यदैवनिर्माणनिर्मितेः ।

द्विजेन्द्रा दग्धसंसारात्सारो ह्यत्यन्तदुर्लभः ॥ १,३२.४० ॥

हे "द्विजेन्द्राः" । "दग्धसंसारात्" कथम्भूतात् । अत्यन्तवैषम्यकारित्वेन "उद्दामदौरात्म्यं" यद्"दैवं" विधिः । तस्य यत्"निर्माणं" रचनम् । ततः "निर्मितिः" सम्पत्तिर् । यस्य । सः । तादृशात् । निर्माणनिर्मित्योः सामान्यविशेषभावेन भेदो द्रष्टव्यः । अत्र वैराग्योत्कर्षात्दैवं प्रति असूया न युक्तेति नान्यथा शङ्कितव्यम् ॥ १,३२.४० ॥

 

 

 

यतन्ते सारसम्प्राप्तौ ये यशोनिधयो धिया ।

धन्या धुरि सतां गण्यास्ता एव पुरुषोत्तमाः ॥ १,३२.४१ ॥

स्पष्टम् ॥ १,३२.४१ ॥

 

 

 

न रामेण समोऽस्तीह त्रिषु लोकेषु कश्चन ।

विवेकवानुदारात्मा महात्मा चेति नो मतिः ॥ १,३२.४२ ॥

स्पष्टम् ॥ १,३२.४२ ॥

 

 

 

सर्गान्तश्लोकेन वैराग्यप्रकरणं समापयति

सकललोकचमत्कृतिकारिणो

ऽप्यभिमतं यदि राघवचेतसः ।

फलति नो तदिमे वयमेव हि

स्फुटतरं मुनयो हतबुद्धयः ॥ १,३२.४३ ॥

"अभिमतं" समनन्तरोक्तस्य प्रश्नस्योत्तरम् । इति शिवम् ॥ १,३२.४३ ॥

 

 

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे द्वात्रिंशः सर्गः ॥ १,३२ ॥

 

 



 

 

श्रोतॄणां भावनावेशसत्कृतस्वान्तशालिनाम् *

वैराग्याख्यप्रकरणव्याख्या सत्फलदास्त्वियम् ** १५ **

यच्छक्त्यावेशवशतः सामर्थ्यं कार्यगोचरम् *

भावानामस्तु यत्नोऽयं तत्कार्यत्वेन निश्चितः ** १६ **

वासनाबीजरागाख्यद्रुमोन्मूलनपण्डितः *

वैराग्याख्यः पयःपूरः स्फुरतान्मम मानसे ** १७ **

 

इति शिवम् ॥

 

 

इति श्रीकाश्मीरमण्डलान्तर्वर्त्याराध्यपादमहामाहेश्वरवैडूर्यकण्ठात्मजश्रीमदवतारकण्ठपुत्रश्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्याख्यं प्रकरणं समाप्तम् ॥