मोक्षोपायटीका/वैराग्यप्रकरणम्/सर्गः २३

विकिस्रोतः तः
← सर्गः २२ मोक्षोपायटीका/वैराग्यप्रकरणम्
भास्करकण्ठः
सर्गः २४ →
मोक्षोपायटीका/वैराग्यप्रकरणम्



एवं कालनिन्दां कृत्वा कालविलासं कथयति

अस्योड्डामरलीलस्य दूरास्तसकलापदः ।

संसारे राजपुत्रस्य कालस्याकलितौजसः  ॥ १,२३.१ ॥

अस्मिन्नाचरतो दीनैर्मुग्धैर्भूतमृगव्रजैः ।

आखेटकं जर्जरिते जगज्जङ्गलजालके  ॥ १,२३.२ ॥

एकदेशोल्लसच्चारुवडवानलपङ्कजा ।

क्रीडापुष्करिणी रम्या कल्पकालमहार्णवः ॥ १,२३.३ ॥

स्पष्टम् ॥ १,२३.१३ ॥

 

 

 

कटुतिक्ताम्लभूताढ्यैः सदधिक्षीरसागरैः ।

तैरेव तैः पर्युषितैर्जगद्भिः काल्यवर्तनम् ॥ १,२३.४ ॥

"कटुतिक्ताम्लाः" अत्यन्ततामसिकतामसिकराजसिकाः । कट्वादिरसविशेषयुक्ताश्च ये "भूताः" चराचराः भूताः सिद्धद्रव्याणि च । तैः "आढ्यैः" युक्तैः । परेद्युः उषितैः "पर्युषितैः" । न तु नवैरित्यर्थः । "काल्यवर्तनम्" प्राभातिकभोजनम् । "अस्ये"ति सर्गाद्यश्लोकस्थं सर्वत्र योज्यम् ॥ १,२३.४ ॥

 

 

चण्डी चतुरसञ्चारा सर्वमातृगणान्विता ।

संसारवनविन्यस्तनरैणाकर्षणी वृकी ॥ १,२३.५ ॥

अस्य कालस्य "चण्डी"ति नामधेया शक्तिः । "वृकी" भवतीति सम्बन्धः । "मातृगणः" प्रसिद्धः । राजपुत्रोऽपि आखेटकार्थं वृकीं पालयति ॥ १,२३.५ ॥

 

 

पृथ्वी करतले पृथ्वी पानपात्री रसान्विता ।

कमलोत्पलकल्हारलोलजालकमालिता ॥ १,२३.६ ॥

"पृथ्वी" विस्तीर्णा ॥ १,२३.६ ॥

 

 

विरावी विकटास्फालो नृसिंहो भुजपञ्जरे ।

सटाविकटपीनांसः कान्तः क्रीडाशकुन्तकः ॥ १,२३.७ ॥

"नृसिंहः" नरसिंहः । राजपुत्रस्यापि विलासार्थं पञ्जरे सिंहो भवति ॥ १,२३.७ ॥

 

 

अलाबुवीणामधुरः शरद्व्योमामलच्छविः ।

देवः किल महाकालो लीलाकोकिलबालकः ॥ १,२३.८ ॥

"महाकालः" संहाराधिकारी "देव"विशेषः ॥ १,२३.८ ॥

 

 

अजस्रस्फूर्जिताकारो वान्तदुःखशराशनिः ।

अभावनामकोदण्डः परिस्फुरति सर्वतः ॥ १,२३.९ ॥

"वान्ताः" उद्गीर्णाः । "दुःखान्य्" एव "शराशनयः" । येन । सः । अभावनामा चासौ कोदण्डः "अभावनामकोदण्डः" ॥ १,२३.९ ॥

 

 

 

सर्गान्तश्लोकेन कालविलासवर्णनं समापयति

अनुत्तमस्फुरितविलासवर्धितो

भ्रमन् हरन् परिविलसन् विदारयन् ।

जरज्जगज्जरढविलोलमर्कटः

परिस्फुरद्वपुरिह काल ईहते ॥ १,२३.१० ॥

"ईहते" नानाविधाः चेष्टाः करोति । इति शिवम् ॥ १,२३.१० ॥

 

 

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे त्रयोविंशः सर्गः ॥ १,२३ ॥