मोक्षोपायटीका/वैराग्यप्रकरणम्/सर्गः ८

विकिस्रोतः तः
← सर्गः ७ मोक्षोपायटीका/वैराग्यप्रकरणम्
भास्करकण्ठः
सर्गः ९ →
मोक्षोपायटीका/वैराग्यप्रकरणम्


तच्छ्रुत्वा वचनं तस्य स्नेहपर्याकुलाक्षरम् ।

समन्युः कौशिको वाक्यं प्रत्युवाच महीपतिम् ॥ ंो_१,८.१ ॥

[ऋआमी २०, १]

"तस्य" दशरथस्य ॥ ंोट्_१,८.१ ॥

विश्वामित्रः कथयति

करिष्यामीति संश्रुत्य प्रतिज्ञां हातुमिच्छसि ।

[ऋआमी २०, २ ब्]

सत्त्ववान् केसरी भूत्वा मृगतामभिवाञ्छसि ॥ ंोट्_१,८.२ ॥

स्पष्टम् ॥ ंोट्_१,८.२ ॥

राघवानामयुक्तोऽयं कुलस्यास्य विपर्ययः ।

[ऋआमी २०, २ द्]

न कदाचन जायन्ते शीतांशौ कृष्णरश्मयः ॥ ंोट्_१,८.३ ॥

ननु कथं "राघवानां कुलस्यायं विपर्ययः अयुक्तो" भवतीत्य् । अत्र दृष्टान्तमाह । "न कदाचने"ति ॥ ंोट्_१,८.३ ॥
 

यदि त्वं न क्षमो राजन् गमिष्यामि यथागतः ।

हीनप्रतिज्ञः काकुत्स्थ सुखी भव सबान्धवः ॥ ंो_१,८.४ ॥

[ऋआमी २०, ३]

स्पष्टम् ॥ ंोट्_१,८.४ ॥
 

श्रीवाल्मीकिः भरद्वाजं प्रति कथयति

तस्मिन् कोपपरीतेऽथ विश्वामित्रे महात्मनि ।

चचाल वसुधा कृत्स्ना सुराश्च भयमाविशन्  ॥ ंो_१,८.५ ॥

[ऋआमी २०, ४]

स्पष्टम् ॥ ंोट्_१,८.५ ॥
 

क्रोधाभिभूतं विज्ञाय जगन्मित्रं महामुनिम् ।

धृतिमान् सुव्रतो धीमान् वसिष्ठो वाक्यमब्रवीत् ॥ ंो_१,८.६ ॥

[ऋआमी २०, ५]

"जगन्मित्रं" विश्वामित्रम् ॥ ंोट्_१,८.६ ॥
 

श्रीवसिष्ठः कथयति

इक्ष्वाकूणां कुले जातः साक्षाद्धर्म इवापरः ।

[ऋआमी २०, ६ ब्]

भवान् दशरथः श्रीमांस्त्रैलोक्ये गुणभूषितः ॥ ंोट्_१,८.७ ॥
 

स्पष्टम् ॥ ंोट्_१,८.७ ॥
 

नीतिमान् सुव्रतो भूत्वा न धर्मं हातुमर्हसि ।

[ऋआमी २०, ६ द्]

मुनेस्त्रिभुवनेशस्य वचनं कर्तुमर्हसि ॥ ंोट्_१,८.८ ॥

स्पष्टम् । युग्मम् ॥ ंोट्_१,८.८ ॥

त्रिषु लोकेषु विख्यातो धर्मेण यशसा युतः ।

स्वधर्मं प्रतिपद्यस्व न धर्मं हातुमर्हसि ॥ ंो_१,८.९ ॥

[ऋआमी २०, ७]

"प्रतिपद्यस्व" स्वीकुरु ॥ ंोट्_१,८.९ ॥
 

करिष्यामीति संश्रुत्य तत्ते राजन्नकुर्वतः ।

इष्टापूर्तः पतेद्धर्मस्तस्माद्रामं विसर्जय ॥ ंो_१,८.१० ॥

[ऋआमी २०, ८]

"इष्टापूर्तः" इष्टापूर्तस्वरूपः । प्रतिज्ञाताकरणेन हि सर्वो धर्मः नश्यति ॥ ंोट्_१,८.१० ॥
 

गुप्तं पुरुषसिंहेन ज्वलनेनामृतं यथा ।

[ऋआमी २०, ९ द्]

कृतास्त्रमकृतास्त्रं वा नैनं द्रक्ष्यन्ति राक्षसाः ॥ ंोट्_१,८.११ ॥
 

[ऋआमी २०, ९ ब्]

"कृतास्त्रं" शिक्षितास्त्रम् ॥ ंोट्_१,८.११ ॥
 

इक्ष्वाकुवंशजातोऽपि स्वयं दशरथोऽपि सन् ।

न पालयसि चेद्वाक्यं कोऽपरः पालयिष्यति ॥ ंो_१,८.१२ ॥

स्पष्टम् ॥ ंोट्_१,८.१२ ॥
 

युष्मदादिप्रणीतेन व्यवहारेण जन्तवः ।

मर्यादां न विमुञ्चन्ति तां न हातुमिहार्हसि ॥ ंो_१,८.१३ ॥

"ताम्" मर्यादाम् ॥ ंोट्_१,८.१३ ॥
 

एष विग्रहवान् धर्म एष वीर्यवतां वरः ।

एष बुद्ध्याधिको लोके तपसां च परायणः ॥ ंो_१,८.१४ ॥

[ऋआमी २०, १०]

"परायणः" आश्रयः ॥ ंोट्_१,८.१४ ॥
 

एषोऽस्त्रं विविधं वेत्ति त्रैलोक्ये सचराचरे ।

नैतदन्यः पुमान् वेत्ति न च वेत्स्यति कश्चन ॥ ंो_१,८.१५ ॥

[ऋआमी २०, ११]

स्पष्टम् ॥ ंोट्_१,८.१५ ॥
 

न च देवर्षयः केचिन्नामरा न च राक्षसाः ।

न नागयक्षगन्धर्वा अनेन सदृशा नृप ॥ ंो_१,८.१६ ॥

[ऋआमी २०, १२]

स्पष्टम् ॥ ंोट्_१,८.१६ ॥
 

अस्त्रमस्मै कृशाश्वेन परैः परमदुर्जयम् ।

[ऋआमी २०, १३॑५९९*]

कौशिकाय पुरा दत्तं यदा राज्यं समन्वशात् ॥ ंोट्_१,८.१७ ॥
 

[ऋआमी २०, १३ द्]

"परैः" अन्यैः । "परमदुर्जयम्" अत्यन्तं जेतुमशक्यम् । "समन्वशात्" समपालयत् ॥ ंोट्_१,८.१७ ॥
 

ननु किमर्थं कृशाश्वेनास्मै अस्त्राणि दत्तानीत्य् । अत्राह

ते हि पुत्राः कृशाश्वस्य प्रजापतिसुतोपमाः ।

एनमन्वचरन् वीरा दीप्तिमन्तो महौजसः ॥ ंो_१,८.१८ ॥

[ऋआमी २०, १४]

"हि" यस्मात् । "प्रजापतिसुतोपमास्ते" प्रसिद्धाः । "कृशाश्वस्य पुत्राः" । "एनं" विश्वामित्रम् । "अन्वचरन्" अनुचरन्ति स्म । अतः पुत्रस्नेहेन दत्तवानिति भावः ॥ ंोट्_१,८.१८ ॥

 
ते पुत्राः के इत्यपेक्षायामाह

जया च सुप्रभा चैव दाक्षायण्यौ सुमध्यमे ।

तयोस्तु यान्यपत्यानि शतं परमदुर्जयम् ॥ ंो_१,८.१९ ॥

"जया च सुप्रभा चैवे"ति ये । "दाक्षायण्यौ" दक्षस्य स्त्रीरूपे अपत्ये । "सुमध्यमे" स्त्रियौ । आस्ताम् । "तयोः" "यानि" "परमदुर्जयं" "शतं" "अपत्यानि" आसन् । अत्र च पूर्वश्लोकापेक्षयोत्तरवाक्यगतत्वाद्यच्छब्दस्य तच्छब्दापेक्षा नास्ति ॥ ंोट्_१,८.१९ ॥
 

ननु कस्याः कत्यपत्यानि आसन्नित्यपेक्षायामाह

पञ्चाशतः सुताञ्जज्ञे जया लब्धवरा पुरा ।

वधायासुरसैन्यानां तेऽक्षयाः कामरूपिणः ॥ ंो_१,८.२० ॥

[ऋआमी २०, १६]

"अक्षयाः" नाशरहिताः ॥ ंोट्_१,८.२० ॥

सुप्रभा जनयामास पुत्रान् पञ्चाशतः परान् ।

सङ्घर्षान्नाम दुर्धर्षान् दुराक्रोशान् बलीयसः ॥ ंो_१,८.२१ ॥

[ऋआमी २०, १७]

"दुर्धर्षान्" पराभवितुमशक्यान् । "दुराक्रोशान्" शत्रुभिः समरे आह्वातुमशक्यान् ॥ ंोट्_१,८.२१ ॥

प्रासङ्गिकमुपसंहृत्य प्रकृतमनुसरति

एवंवीर्यो महातेजा विश्वामित्रो महामुनिः ।

न रामगमने बुद्धिं विक्लवां कर्तुमर्हसि ॥ ंो_१,८.२२ ॥

[ऋआमी २०, १९]

पूर्वार्धमुत्तरार्धस्य हेतुत्वेन योज्यम् ॥ ंोट्_१,८.२२ ॥


सर्गान्तश्लोकेन श्रीवसिष्ठो वाक्यं समापयति

अस्मिन्महासत्त्वमये मुनीन्द्रे

स्थिते समीपे पुरुषस्तु साधुः ।

प्राप्तेऽपि मृत्यावमरत्वमेति

मा दीनतां गच्छ यथा विमूढः ॥ ंो_१,८.२३ ॥

"यथा विमूढः" । मूढवदित्यर्थः । इति शिवम् ॥ ंोट्_१,८.२३ ॥
 

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे अष्टमः सर्गः ॥ १,८ ॥