मोक्षोपायटीका/वैराग्यप्रकरणम्/सर्गः ५

विकिस्रोतः तः
← सर्गः ४ मोक्षोपायटीका/वैराग्यप्रकरणम्
भास्करकण्ठः
सर्गः ६ →
मोक्षोपायटीका/वैराग्यप्रकरणम्



श्रीवाल्मीकिर्भरद्वाजं प्रति कथयति

इत्युक्ते मुनिनाथेन सन्देहवति पार्थिवे ।

खेदवत्यास्थिते मौनं कञ्चित्कालं प्रतीक्षिणि ॥ ंो_१,५.१ ॥

परिखिन्नासु सर्वासु राज्ञीषु नृपसद्मसु ।

स्थितासु सावधानासु रामचेष्टासु सर्वतः ॥ ंो_१,५.२ ॥

एतस्मिन्नेव काले तु विश्वामित्र इति श्रुतः ।

महर्षिरागमद्द्रष्टुं तमयोध्यां नराधिपम् ॥ ंो_१,५.३ ॥

"आगमत्" आगच्छति स्म ॥ ंोट्_१,५.१३ ॥

 

 

 

ननु किमर्थमसौ आगत इत्य् । अत्राह

तस्य यज्ञोऽथ रक्षोभिस्तदा विलुलुपे किल ।

मायावीर्यबलोन्मत्तैर्धर्मकामस्य धीमतः ॥ ंो_१,५.४ ॥

रक्षार्थं तस्य यज्ञस्य द्रष्टुमैच्छत्स पार्थिवम् ।

न हि शक्तो ह्यविघ्नेन तमाप्तुं स मुनिः क्रतुम् ॥ ंो_१,५.५ ॥

ननु किमर्थं तं "रक्षार्थं" "द्रष्टुमैच्छद्" इत्य् । अत्राह "न ही"ति ॥ ंोट्_१,५.४५ ॥

 

 

 

ततस्तेषां विनाशार्थमुद्यतस्तपसां निधिः ।

विश्वामित्रो महातेजा अयोध्यामभ्ययात्पुरीम् ॥ ंो_१,५.६ ॥

[ऋआमी १७, २३]

"अभ्ययात्" अभिगच्छति स्म ॥ ंोट्_१,५.६ ॥

 

 

 

स राज्ञो दर्शनाकाङ्क्षी द्वाराध्यक्षानुवाच ह ।

शीघ्रमाख्यात मां प्राप्तं कौशिकं गाधिनः सुतम् ॥ ंो_१,५.७ ॥

[ऋआमी १७, २४]

"ह"शब्दः निपातः । किम् "उवाचे"ति कर्मापेक्षायामुत्तरार्धं कर्मत्वेन कथयति "शीघ्रम्" इति । "आख्यात" कथयत । यूयमिति शेषः । "गाधिनः" गाधिराजस्य ॥ ंोट्_१,५.७ ॥

 

 

तस्य तद्वचनं श्रुत्वा द्वाःस्था राजगृहं ययुः ।

सम्भ्रान्तमनसः सर्वे तेन वाक्येन चोदिताः ॥ ंो_१,५.८ ॥

[ऋआमी १७, २५]

"तेन" "वाक्येन" विश्वामित्रोक्तेन वाक्येन ॥ ंोट्_१,५.८ ॥

 

 

ते गत्वा राजभवनं विश्वामित्रमृषिं ततः ।

प्राप्तमावेदयामासुः प्रतीहारपतिं तदा ॥ ंो_१,५.९ ॥

[ऋआमी १७, २६]

"प्रतीहारपतिं" द्वास्थाधिकारिणम् ॥ ंोट्_१,५.९ ॥

 

 

अथास्थानगतं भूपं राजमण्डलमास्थितम् ।

समुपेत्य त्वरायुक्तो याष्टीकोऽसौ व्यजिज्ञपत् ॥ ंो_१,५.१० ॥

"असौ याष्टीकः" प्रतीहारपतिः ॥ ंोट्_१,५.१० ॥

 

 

किं "व्यजिज्ञपद्" इत्य् । अत्राह

देव द्वारि महातेजा बालभास्करसन्निभः ।

ज्वालारुणजटाजूटः पुमाञ्श्रीमानवस्थितः ॥ ंो_१,५.११ ॥

स्पष्टम् ॥ ंोट्_१,५.११ ॥

 

 

स चामरपताकाढ्यं साश्वेभपुरुषायुधम् ।

कृतवांस्तं प्रदेशं यस्तेजोभिः कीर्णकाञ्चनम् ॥ ंो_१,५.१२ ॥

 

 

 

स्पष्टम् ॥ ंोट्_१,५.१२ ॥

 

 

वक्त्यस्मानाशु याष्टीका निवेदयत राजनि ।

विश्वामित्रो मुनिः प्राप्त इत्यनुद्धतया गिरा ॥ ंो_१,५.१३ ॥

असौ पुरुषः "अस्मान्" "अनुद्धतया" "गिरे"ति "वक्ती"ति सम्बन्धः ।

याष्टीका इत्यामन्त्रणम् । यूयमित्यध्याहार्यम् ॥ ंोट्_१,५.१३ ॥

 

 

 

इति याष्टीकवचनमाकर्ण्य नृपसत्तमः ।

स समन्त्री ससामन्तः प्रोत्तस्थे हेमविष्टरात् ॥ ंो_१,५.१४ ॥

"हेमविष्टरात्" सुवर्णपीठात् ॥ ंोट्_१,५.१४ ॥

 

 

पदातिरेव महतां राज्ञां वृन्देन पालितः ।

वसिष्ठवामदेवाभ्यां सह सामन्तसंस्तुतः ॥ ंो_१,५.१५ ॥

स्पष्टम् ॥ ंोट्_१,५.१५ ॥

 

 

 

जगाम तत्र यत्रासौ विश्वामित्रो महामुनिः ।

ददर्श मुनिशार्दूलं द्वारभूमावधिष्ठितम् ॥ ंो_१,५.१६ ॥

स्पष्टम् ॥ ंोट्_१,५.१६ ॥

 

 

कीदृशं ददर्शेत्यपेक्षायामाह

केनापि कारणेनोर्वीतलमर्कमिवागतम् ।

ब्राह्मेण तेजसाक्रान्तं क्षात्रेण च महौजसा ॥ ंो_१,५.१७ ॥

स्पष्टम् ॥ ंोट्_१,५.१७ ॥

 

 

जराजरढया नित्यं तपःप्रसररूक्षया  ।

जटावल्ल्या वृतस्कन्धं ससन्ध्याभ्रमिवाचलम् ॥ ंो_१,५.१८ ॥

स्पष्टम् ॥ ंोट्_१,५.१८ ॥

 

 

 

उपशान्तं च कान्तं च दीप्तमप्रतिघं तथा ।

निभृतं चोर्जिताकारं दधानं भास्वरं वपुः ॥ ंो_१,५.१९ ॥

"अप्रतिघम्" अप्रतिघाताकारम् । "निभृतं" कोमलम् ॥ ंोट्_१,५.१९ ॥

 

 

 

पेशलेनातिभीमेन प्रसन्नेनाकुलेन च ।

गम्भीरेणातिपूर्णेन तेजसा रञ्जितप्रजम् ॥ ंो_१,५.२० ॥

स्पष्टम् ॥ ंोट्_१,५.२० ॥

 

 

अनन्तजीवितदशासखीमेकामनिन्दिताम् ।

धारयन्तं करे श्लक्ष्णां वीणामम्लानमानसम् ॥ ंो_१,५.२१ ॥

"श्लक्ष्णाम्" पेशलाम् ॥ ंोट्_१,५.२१ ॥

 

 

करुणाक्रान्तचेतस्त्वात्प्रसन्नमधुरेक्षितैः ।

ईक्षणैरमृतेनेव संसिञ्चन्तमिमाः प्रजाः ॥ ंो_१,५.२२ ॥

स्पष्टम् ॥ ंोट्_१,५.२२ ॥

 

 

 

सितासितततापाङ्गं धवलप्रोन्नतभ्रुवम् ।

आनन्दं च भयं चान्तः प्रयच्छन्तमवेक्षितुः ॥ ंो_१,५.२३ ॥

"अवेक्षितुः" पश्यतः । अतिपेशलत्वात्"आनन्द"दानम् । सतेजस्कत्वात्"भय"दानम् ॥ ंोट्_१,५.२३ ॥

 

 

मुनिमालोक्य भूपालो दूरादेवानताकृतिः  ।

प्रणनाम गलन्मौलिमणिमालितभूतलम्  ॥ ंो_१,५.२४ ॥

"गलद्" इत्यादि क्रियाविशेषणम् ॥ ंोट्_१,५.२४ ॥

 

 

 

मुनिरप्यवनेरीशं भास्वानिव शतक्रतुम् ।

तत्राभिवादयां चक्रे मधुरोदारया गिरा ॥ ंो_१,५.२५ ॥

स्पष्टम् ॥ ंोट्_१,५.२५ ॥

 

 

ततो वसिष्ठप्रमुखाः सर्व एव द्विजातयः ।

स्वागतादिक्रमेणैनं पूजयामासुरादृताः ॥ ंो_१,५.२६ ॥

"एनं" विश्वामित्रम् ॥ ंोट्_१,५.२६ ॥

 

 

दशरथः कथयति

अशङ्कितोपनीतेन भास्वता दर्शनेन ते ।

साधो स्वनुगृहीताः स्मो रविणेवाम्बुजाकराः ॥ ंो_१,५.२७ ॥

"अशङ्कितम्" शङ्कराहितम् । "उपनीतेन" प्राप्तेन ॥ ंोट्_१,५.२७ ॥

 

 

यदनादि यदक्षुब्धं यदपायविवर्जितम् ।

तदानन्दसुखं प्राप्ता अद्य त्वद्दर्शनान्मुने ॥ ंो_१,५.२८ ॥

"त्वद्दर्शनेन" वयं ब्रह्मानन्दम् "प्राप्ता" इति भावः ॥ ंोट्_१,५.२८ ॥

 

 

 

अद्य वर्तामहे नूनं धर्म्याणां धुरि धर्मतः ।

भवदागमनस्येमे यद्वयं लक्ष्यतां गताः ॥ ंो_१,५.२९ ॥

"वर्तामहे" तिष्ठामः । "लक्ष्यताम्" आश्रयत्वम् । विषयत्वमिति यावत् ॥ ंोट्_१,५.२९ ॥

 

 

एवं प्रकथयन्तोऽत्र राजानोऽथ महर्षयः ।

आसनेषु सभास्थानमास्थाय समुपाविशन् ॥ ंो_१,५.३० ॥

"समुपाविशन्" उपविष्टाः ॥ ंोट्_१,५.३० ॥

 

 

स दृष्ट्वा ज्वलितं लक्ष्म्या भीतस्तमृषिमागतम् ।

प्रहृष्टवदनो राजा स्वयमर्घ्यं न्यवेदयत् ॥ ंो_१,५.३१ ॥

[ऋआमी १७, २८]

"न्यवेदयद्" अर्पितवान् ॥ ंोट्_१,५.३१ ॥

 

 

स राज्ञः प्रतिगृह्यार्घ्यं शास्त्रदृष्टेन कर्मणा ।

प्रदक्षिणं प्रकुर्वन्तं राजानं पर्यपूजयत् ॥ ंो_१,५.३२ ॥

[ऋआमी १७, २९ ब्(*५३९ द्)]

स्पष्टम् ॥ ंोट्_१,५.३२ ॥

 

 

स राज्ञा पूजितस्तेन प्रहृष्टवदनस्तदा ।

कुशलं चाव्ययं चैव पर्यपृच्छन्नराधिपम् ॥ ंो_१,५.३३ ॥

[ऋआमी १७, २९ द्]

स्पष्टम् ॥ ंोट्_१,५.३३ ॥

 

 

 

वसिष्ठेन समागम्य प्रहस्य मुनिपुङ्गवः ।

यथार्हं चार्चयित्वैनं पप्रच्छानामयं ततः ॥ ंो_१,५.३४ ॥

[ऋआमी १७, ३० ब्(*५४१ ब्)]

स्पष्टम् ॥ ंोट्_१,५.३४ ॥

 

 

क्षणं यथार्हमन्योऽन्यं पूजयित्वा समेत्य च ।

ते सर्वे हृष्टमनसो महाराजनिवेशने ॥ ंो_१,५.३५ ॥

[ऋआमी १७, ३१ ब्(*५४१ द्)]

स्पष्टम् ॥ ंोट्_१,५.३५ ॥

 

 

यथोचितासनगता मिथः संवृद्धतेजसः ।

परस्परेण पप्रच्छुः सर्वेऽनामयमादरात् ॥ ंो_१,५.३६ ॥

स्पष्टम् ॥ ंोट्_१,५.३६ ॥

 

 

उपविष्टाय तस्मै स विश्वामित्राय धीमते ।

पाद्यमर्घ्यं च गाश्चैव भूयो भूयो न्यवेदयत् ॥ ंो_१,५.३७ ॥

[ऋआमी *५४२ ब्॑ेf]

स्पष्टम् ॥ ंोट्_१,५.३७ ॥

 

 

 

अर्चयित्वा च विधिवद्विश्वामित्रमभाषत ।

प्राञ्जलिः प्रयतो वाक्यमिदं प्रीतमना नृपः ॥ ंो_१,५.३८ ॥

[ऋआमी *५४२ ज्]

स्पष्टम् ॥ ंोट्_१,५.३८ ॥

 

 

यथामृतस्य सम्प्राप्तिर्यथा वर्षमवर्षके ।

[ऋआमी १७, ३३ ब्]

यथान्धस्येक्षणप्राप्तिर्भवदागमनं तथा ॥ ंोट्_१,५.३९ ॥

 

 

 

स्पष्टम् ॥ ंोट्_१,५.३९ ॥

 

 

 

यथेष्टधनसम्पर्कः पुत्रजन्माप्रजावतः ।

[ऋआमी १७, ३३ द्]

स्वप्नदृष्टार्थलाभश्च भवदागमनं तथा ॥ ंोट्_१,५.४० ॥

 

 

[ऋआमी *५४५ ]

स्पष्टम् ॥ ंोट्_१,५.४० ॥

 

 

यथेप्सितेन संयोग इष्टस्यागमनं यथा ।

[ऋआमी *५४४]

प्रणष्टस्य यथा लाभो भवदागमनं तथा ॥ ंोट्_१,५.४१ ॥

 

 

[ऋआमी १७, ३३ ]

स्पष्टम् ॥ ंोट्_१,५.४१ ॥

 

 

 

यथा हर्षो नभोगत्या मृतस्य पुनरागमात् ।

तथा त्वदागमाद्ब्रह्मन् स्वागतं ते महामुने ॥ ंो_१,५.४२ ॥

[ऋआमी १७, ३३ ह्(*५४५ )]

"मृतस्य" "पुनरागमाद्" । इत्यत्र यथेति शेषः । हे महामुने । "ते" "स्वागतम्" अस्तु ॥ ंोट्_१,५.४२ ॥

 

 

 

ब्रह्मलोकनिवासो हि कस्य न प्रीतिमावहेत् ।

मुने तवागमस्तद्वत्सत्यमेव ब्रवीमि ते ॥ ंो_१,५.४३ ॥

[ऋआमी *५४५ f॑*५४६]

स्पष्टम् ॥ ंोट्_१,५.४३ ॥

 

 

 

कश्च ते परमः कामः किं च ते करवाण्यहम् ।

पात्रभूतोऽसि मे विप्र प्राप्तः परमधार्मिकः ॥ ंो_१,५.४४ ॥

[ऋआमी १७, ३४ द्]

हे "विप्र" । "असि" त्वम् । "मे पात्रभूतः प्राप्तः" ॥ ंोट्_१,५.४४ ॥

 

 

पूर्वं राजर्षिशब्देन तपसा द्योतितप्रजः ।

ब्रह्मर्षित्वमनु प्राप्तः पूज्योऽसि भगवन्मम ॥ ंो_१,५.४५ ॥

[ऋआमी १७, ३५]

हे "भगवन्" । "पूर्वं" "राजर्षिशब्देनै"व पूज्यः । "अनु" पश्चात् । "तपसा द्योतितप्रजः" सन् । "ब्रह्मर्षित्वम्" "प्राप्तः" त्वम् । "मम पूज्यः असि" ॥ ंोट्_१,५.४५ ॥

 

 

 

गङ्गाजलाभिषेकेण यथा प्रीतिर्भवेन्मम ।

तथा त्वद्दर्शनात्प्रीतिरन्तः शीतयतीव माम् ॥ ंो_१,५.४६ ॥

[ऋआमी *५५१ च्]

"अन्तः" मनसि ॥ ंोट्_१,५.४६ ॥

 

 

विगतेच्छाभयक्रोधो वीतरागो निरामयः ।

इदमत्यद्भुतं ब्रह्मन् यद्भवान्मामुपागतः ॥ ंो_१,५.४७ ॥

"माम्" उपागमानर्हमिति भावः ॥ ंोट्_१,५.४७ ॥

 

 

शुभक्षेत्रगतं चाहमात्मानमपकल्मषम् ।

[ऋआमी १७, ३६ ]

चन्द्रबिम्ब इवोन्मग्नं वेद्मि वेद्यविदां वर ॥ ंोट्_१,५.४८ ॥

 

 

"उन्मग्नम्" उदितम् ॥ ंोट्_१,५.४८ ॥

 

 

साक्षादिव ब्रह्मणो मे तवाभ्यागमनं मतम् ।

पूतोऽस्म्यनुगृहीतोऽस्मि तवाभ्यागमनान्मुने ॥ ंो_१,५.४९ ॥

[ऋआमी *५५५]

स्पष्टम् ॥ ंोट्_१,५.४९ ॥

 

 

त्वदागमनपुण्येन साधो यदनुरञ्जितम् ।

अद्य मे सफलं जन्म जीवितं तत्सुजीवितम् ॥ ंो_१,५.५० ॥

[ऋआमी १७, ३४ f]

"त्वदागमनात्" उत्पन्नेन "पुण्येन" । "मे जन्म मे जीवितं" च । "यत्" "अनुरञ्जितम्" स्वोपरक्तं कृतम् । "तत्" ततो हेतोः । "मे जन्म सफलम्" भवति । "मे जीवितं सुजीवितम्" भवति ॥ ंोट्_१,५.५० ॥

 

 

 

त्वामिहाभ्यागतं दृष्ट्वा प्रतिपूज्य प्रणम्य च ।

[ऋआमी *५५२]

आत्मन्येव नमाम्यन्तर्दृष्टेन्दुर्जलधिर्यथा ॥ ंोट्_१,५.५१ ॥

 

 

 

स्पष्टम् ॥ ंोट्_१,५.५१ ॥

 

 

यत्कार्यं येन चार्थेन प्राप्तोऽसि मुनिपुङ्गव ।

कृतमित्येव तद्विद्धि मान्योऽसि हि भृशं मम ॥ ंो_१,५.५२ ॥

[ऋआमी *५५७]

स्पष्टम् ॥ ंोट्_१,५.५२ ॥

 

 

स्वकार्येण विमर्शं त्वं कर्तुमर्हसि कौशिक ।

भगवन्नास्त्यदेयं हि त्वयि यत्प्रतिपद्यते  ॥ ंो_१,५.५३ ॥

[ऋआमी १७, ३८ ब्(*५५८)]

हे "कौशिक" । "त्वं" । "स्वकार्येण" सह "विमर्शं कर्तुमर्हसि" किं मम कार्यमस्तीति विचारं कर्तुमर्हसीति भावः । ननु किमर्थमहं "स्वकार्येण" सह "विमर्शं" करोमीत्य् । अत्राह "भगवन्न्" इति । "हि" यस्मात् । हे "भगवन्" । "त्वयि यत्प्रतिपद्यते" उपयुज्यते । तत्"अदेयं नास्ति" । तद्ददाम्येवेत्यर्थः ॥ ंोट्_१,५.५३ ॥

 

 

 

कार्यस्य च विचारं त्वं कर्तुमर्हसि धर्मतः ।

कर्ता चाहमशेषं ते दैवतं परमं भवान् ॥ ंो_१,५.५४ ॥

[ऋआमी १७, ३८]

स्पष्टम् ॥ ंोट्_१,५.५४ ॥

 

 

 

सर्गान्तश्लोकेन दशरथविनयोक्त्या मुनेर्हर्षगमनं कथयति

इदमतिमधुरं निशम्य वाक्यं

श्रुतिसुखमर्थविदा विनीतमुक्तम् ।

प्रथितगुणवशाद्गुणैर्विशिष्टं

मुनिवृषभः परमं जगाम हर्षम् ॥ ंो_१,५.५५ ॥

[ऋआमी १७, ३९]

"अतिमधुरम्" उत्कृष्टमधुराख्यगुणविशिष्टम् । "श्रुतिसुखं" कर्णसुखम् । "अर्थविदा" परमार्थज्ञेन दशरथेन । "विनीतं" सविनयं यथा भवति तथ्"ओक्तं" कथितम् । तथा "प्रथिताः" ये "गुणाः" वाक्यगुणास्। तद्"वशात्" "गुणैः विशिष्टम्" । प्रथितगुणविशिष्टमिति यावत् । ईदृशं "वाक्यं निशम्य" सः "मुनिवृषभः" मुनिश्रेष्ठः कौशिकः । "परमं हर्षं जगाम" । दातृविनयेन हि अर्थिनो महान् हर्षो जायते । इति शिवम् ॥ ंोट्_१,५.५५ ॥

 

 

 

 

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे पञ्चमः सर्गः ॥ १,५ ॥