मोक्षोपायटीका/वैराग्यप्रकरणम्/सर्गः २५

विकिस्रोतः तः
← सर्गः २४ मोक्षोपायटीका/वैराग्यप्रकरणम्
भास्करकण्ठः
सर्गः २६ →
मोक्षोपायटीका/वैराग्यप्रकरणम्



एवं दैवविलासमुक्त्वा फलितमाह

वृत्तेऽस्मिन्नेव चैतेषां कालादीनां महामुने ।

संसारनाम्नि कैवास्था मादृशानां भवत्विह ॥ १,२५.१ ॥

अत इति शेषः । "वृत्ते" चरिते । "आदि"शब्देन दैवादीनां ग्रहणम् ॥ १,२५.१ ॥

 

 

 

विक्रीता इव तिष्ठाम एतैर्दैवादिभिर्वयम् ।

धूर्तैः प्रपञ्चचतुरैर्मुग्धा वनमृगा इव  ॥ १,२५.२ ॥

स्पष्टम् ॥ १,२५.२ ॥

 

 

 

एषोऽनार्यसमाचारः कालः कवलनोन्मुखः  ।

जगत्यविरतं लोकं पातयत्यापदर्णवे ॥ १,२५.३ ॥

स्पष्टम् ॥ १,२५.३ ॥

 

 

 

दहत्यन्ते दुराशाभिर्दैवो दारुणचेष्टया ।

लोकं पुष्पनिकाशाभिर्ज्वालाभिर्दहनो यथा ॥ १,२५.४ ॥

स्पष्टम् ॥ १,२५.४ ॥

 

 

धृतिं विधुरयत्येकामयदारूपवल्लभा ।

स्त्रीत्वात्स्वभावचपला नियतिर्नियमोन्मुखी ॥ १,२५.५ ॥

"आमयदा" रोगदायिनी । न रूपेण वल्लभा "अरूपवल्लभा" ॥ १,२५.५ ॥

 

 

ग्रसतेऽविरतं भूतजालं सर्प इवानिलम् ।

कृतान्तः कर्कशाचारो जरां नीत्वा जगद्वपुः ॥ १,२५.६ ॥

"जगद्" एव "वपुः" यस्य । तादृशः ॥ १,२५.६ ॥

 

 

यमनिर्घृणराजेन्द्रो नार्तं नामानुकम्पते ।

सर्वभूतदयाचारो जनो दुर्लभतां गतः ॥ १,२५.७ ॥

"आर्तं" दीनम् ॥ १,२५.७ ॥

 

 

सर्वा एव मुने फल्गुविभवा भूतजातयः ।

दुःखायैव दुरन्ताय दारुणा लोभभूमयः ॥ १,२५.८ ॥

"फल्गुविभवाः" निस्सारविभवयुक्ताः ॥ १,२५.८ ॥

 

 

आयुरत्यन्ततरलं मृत्युरेकस्तु निष्ठुरः ।

तारुण्यं चातितरलं बाल्यं जडतया हृतम् ॥ १,२५.९ ॥

स्पष्टम् ॥ १,२५.९ ॥

 

 

कलाकलङ्कितो लोको बन्धवो भवबन्धनम् ।

भोगा भवमहारोगास्तृष्णा च मृगतृष्णिका ॥ १,२५.१० ॥

"कलाभिः" परवञ्चनाख्याभिः कलाभिः । "कलङ्कितः" ॥ १,२५.१० ॥

 

 

 

शत्रवश्चेन्द्रियाण्येव सत्यं यातमसत्यताम् ।

प्रहरत्यात्मनैवात्मा मन एव मनोरिपुः ॥ १,२५.११ ॥

"आत्मा" । "आत्मना" स्वयम् । "प्रहरत्य्" आत्मानम् । दुर्विकल्पैरिति शेषः । "मन" "एव" अशुद्धमनः एव । न त्वन्यः । "मनोरिपुः" शुद्धस्य मनसो रिपुः भवति ॥ १,२५.११ ॥

 

 

 

अहङ्कारः कलङ्काय बुद्धयः परिपेलवाः ।

क्रिया दुष्फलदायिन्यो लीलाः स्त्रीनिष्ठतां गताः ॥ १,२५.१२ ॥

"परिपेलवा" अतीक्ष्णाः ॥ १,२५.१२ ॥

 

वाञ्छाविषयशालिन्यः सचमत्कृतयः कृताः ।

नार्यो दोषपताकिन्यो रसा नीरसतां गताः ॥ १,२५.१३ ॥

"वाञ्छाविषयाश्" च ताः "शालिन्यश्" च आपातरमणीयाश्च । तादृश्यः "नार्यः" । "सचमत्कृतयः" चमत्कारयुक्ताः । "कृताः" कल्पिताः । भाविता इति यावत् । कीदृश्यः "नार्यः" । "दोषपताकिन्यः" । रागादिदोषमयत्वात्रागादि"दोषपताकिन्यः" । "रसाः" शास्त्रादिविषयाः अभिलाषाः । "नीरसतां" शुष्कतां "गताः" ॥ १,२५.१३ ॥

 

 

वस्त्ववस्तुतया चात्तं दत्तं चित्तमहङ्कृतौ ।

अभावरोधिता भावा भवान्तो नाधिगम्यते ॥ १,२५.१४ ॥

अस्माभिः । "वस्तु" सत्यं वस्तु । "अवस्तुतया" देहोऽहमित्येवंरूपेण अवस्तुभावेन्"आत्तं" गृहीतम् । तथा "चित्तम्" "अहङ्कृतौ" "दत्तम्" अहङ्कारग्रस्तं कृतमित्यर्थः । "भावाः" "अभावरोधिताः" नाशगृहीताः । न ज्ञाता इति शेषः । अतः "भवान्तः" "नाधिगम्यते" न प्राप्यते ॥ १,२५.१४ ॥

 

 

 

तप्यते केवलं साधो मतिराकुलितान्तरा ।

रागोरगो विलसति विरागं नोपगच्छति ॥ १,२५.१५ ॥

"विरागं" रागाभावः । "नोपगच्छति" नागच्छति ॥ १,२५.१५ ॥

 

 

 

रजोगुणहता दृष्टिस्तमः सम्परिवर्धते ।

न चाधिगम्यते सत्त्वं तत्त्वमत्यन्तदूरतः ॥ १,२५.१६ ॥

"तत्त्वम्" परमार्थः ॥ १,२५.१६ ॥

 

 

स्थितिरस्थिरतां याता मृतिरागमनोन्मुखी ।

धृतिर्वैधुर्यमायाति रतिर्नित्यमवस्तुनि ॥ १,२५.१७ ॥

"अवस्तुनि" अवस्तुभूते देहादौ ॥ १,२५.१७ ॥

 

 

मतिर्मान्द्येन मलिना पातैकपरमं वपुः ।

ज्वलतीव जरा देहे प्रविस्फूर्जति दुष्कृतम् ॥ १,२५.१८ ॥

"मान्द्येन" जाड्येन ॥ १,२५.१८ ॥

 

 

यत्नेनायाति युवता दूरे सज्जनसङ्गतिः ।

गतिर्न विद्यते काचित्क्वचिन्नोदेति सत्यता ॥ १,२५.१९ ॥

"युवता" लक्षणया स्त्र्यासक्तिः ॥ १,२५.१९ ॥

 

 

मनो विमुह्यतीवान्तर्मुदिता दूरतो गता ।

नोज्ज्वला करुणोदेति दूरादायाति नीचता ॥ १,२५.२० ॥

स्पष्टम् ॥ १,२५.२० ॥

 

 

धीरताधीरतामेति पातोत्पातपरो जनः ।

सुलभो दुर्जनाश्लेषो दुर्लभः साधुसङ्गमः ॥ १,२५.२१ ॥

"धीरता" "अधीरताम्" "एति" नश्यतीत्यर्थः ॥ १,२५.२१ ॥

 

 

 

आगमापायिनो भावा भावना भवबन्धनी ।

नीयते केवलं क्वापि नित्यं भूतपरम्परा ॥ १,२५.२२ ॥

"नीयते" । कालेनेति शेषः ॥ १,२५.२२ ॥

 

 

दिशोऽपि हि न दृश्यन्ते देशोऽप्यव्यपदेशभाक् ।

शैला अपि हि शीर्यन्ते कैवास्था मादृशे जने ॥ १,२५.२३ ॥

"देशः" "अव्यपदेशभाक्" देशेति व्यपदेशं न भजतीति तादृक्स्यात् । देशस्यापि देशेति नाम कालेन न स्यादित्यर्थः । यत्रेदृशानामीदृशा दशा भविष्यन्ति तत्र "मादृशे जने का एव आस्था" को विश्वासः स्यादिति भावः ॥ १,२५.२३ ॥

 

 

 

द्रवन्त्यपि समुद्राश्च शीर्यन्ते तारका अपि ।

सिद्धा अपि न सिध्यन्ति कैवास्था मादृशे जने ॥ १,२५.२४ ॥

स्पष्टम् ॥ १,२५.२४ ॥

 

 

अद्यतेऽसत्तयापि द्यौर्भुवनं चापि भज्यते ।

धरापि याति वैधुर्यं कैवास्था मादृशे जने ॥ १,२५.२५ ॥

"असत्तया" नाशेन । "द्यौर्" "अपि" "अद्यते" ग्रस्यते ॥ १,२५.२५ ॥

 

 

दानवा अपि दीर्यन्ति ध्रुवोऽप्यध्रुवजीवितः ।

अमरा अपि मार्यन्ते कैवास्था मादृशे जने ॥ १,२५.२६ ॥

"मार्यन्ते" । कालेनेति शेषः ॥ १,२५.२६ ॥

 

 

शक्रोऽप्याक्रम्यते शक्रैर्यमोऽपि हि नियम्यते ।

वायोरप्यस्त्यवायुष्ट्वं कैवास्था मादृशे जने ॥ १,२५.२७ ॥

"शक्रैः" नवीनैः शक्रैः ॥ १,२५.२७ ॥

 

 

सोमोऽपि व्योमतामेति मार्ताण्डोऽप्येति खण्डनम् ।

रुग्णतामग्निरप्येति कैवास्था मादृशे जने ॥ १,२५.२८ ॥

"व्योमताम्" । नाशमित्यर्थः ॥ १,२५.२८ ॥

 

 

 

परमेष्ठ्यप्यनिष्ठावान् हरते हरिमप्यजः ।

भवोऽप्यभवतां याति कैवास्था मादृशे जने ॥ १,२५.२९ ॥

"भवोऽप्य्" श्रीमहादेवोऽपि । "अभवताम्" अमहादेवभावम् ॥ १,२५.२९ ॥

 

 

 

कालः शकलतामेति नियतिश्चापि नीयते ।

खमप्यालीयतेऽनन्ते कैवास्था मादृशे जने ॥ १,२५.३० ॥

"अनन्ते" अन्तरहिते कस्मिंश्चिद्वस्तुनि ॥ १,२५.३० ॥

 

 

अश्रव्यावाच्यदुर्दर्शतन्त्रेणाज्ञातमूर्तिना ।

भुवनानि विडम्ब्यन्ते केनापि भ्रमदायिना ॥ १,२५.३१ ॥

"अश्रव्यं" तथा "अवाच्यं" तथा "दुर्दर्शं" "तन्त्रं" वञ्चनोपायः । यस्य । तादृशेन । "केना"पीति अनिर्वाच्येनेत्यर्थः ॥ १,२५.३१ ॥

 

 

 

अहङ्कारकलामेत्य सर्वत्रान्तरवासिना ।

न सोऽस्ति त्रिषु लोकेषु यस्तेनेह न बध्यते ॥ १,२५.३२ ॥

देहादौ आत्मभावः "अहङ्कारः" । "तेन" केनापीत्यर्थः ॥ १,२५.३२ ॥

 

 

शिलाशैलकटप्रेषु साश्वसूतो दिवाकरः ।

वनपाषाणवन्नित्यमवशः परिदोल्यते ॥ १,२५.३३ ॥

शिलायुक्ताः शैलाः "शिलाशैलाः" । तेषां "कटप्राः" समूहाः । तेषु "परिदोल्यते" दोलनं कार्यते ॥ १,२५.३३ ॥

 

 

 

धरागोलकमन्तःस्थसुरासुरगणास्पदम्  ।

वेष्ट्यते धिष्ण्यचक्रेण पक्वाक्षोटमिव त्वचा ॥ १,२५.३४ ॥

"धरागोलकम्" भूगोलम् । "वेष्ट्यते" वेष्टनयुक्तं क्रियते । "धिष्ण्यचक्रेणे"ति करणे तृतीया ॥ १,२५.३४ ॥

 

 

 

दिवि देवा भुवि नराः पातालेऽसुरभोगिनः ।

कल्पिताः कल्पमात्रेण नीयन्ते जर्जरां दशाम् ॥ १,२५.३५ ॥

"असुरभोगिनः" दैत्यसर्पाः । "कल्पमात्रेण" कल्पमात्रपरिमाणेन ॥ १,२५.३५ ॥

 

 

कामश्च जगतीशानरणलब्धपराक्रमः ।

अक्रमेणैव विक्रान्तो लोकमाक्रम्य वल्गति ॥ १,२५.३६ ॥

"ईशानेन" यः "रणः" । तेन "लब्धः" "पराक्रमः" । येन । तादृशः ॥ १,२५.३६ ॥

 

 

वसन्तो मत्तमातङ्गो मदैः कुसुमवर्षनः  ।

आमोदितककुप्चक्रश्चेतो नयति वक्रताम् ॥ १,२५.३७ ॥

"मदैः" मदवारिभिः । "वक्रतां" कामकलाविदग्धत्वम् । कामप्रसङ्गेनेह वसन्ताभिधानम् ॥ १,२५.३७ ॥

 

 

 

अनुरक्ताङ्गनालोकलोचनालोकिताकृति ।

स्पष्टीकर्तुं मनः शक्तो न विवेको महानपि ॥ १,२५.३८ ॥

"महानपि विवेकः मनः स्पष्टीकर्तुं" शुद्धीकर्तुम् । "शक्तो न" भवति । "मनः" कथम्भूतम् । "अनुरक्तो" यः "अङ्गनालोकः" । तस्य यत्"लोचनालोकितम्" दृष्टिपातस्। तद्वद्"आकृतिः" यस्य । तादृशम् । अत्यन्तचलमित्यर्थः ॥ १,२५.३८ ॥

 

 

 

परोपकारकारिण्या परार्त्या परितप्तया ।

बुद्ध एव सुखी मन्ये स्वार्थशीतलया धिया ॥ १,२५.३९ ॥

"बुद्धः" ज्ञानी । "स्वार्थे" स्वप्रयोजने । "शीतलया" । न स्वार्थनिमित्तं परितप्तयेति यावत् ॥ १,२५.३९ ॥

 

 

 

उत्पन्नध्वंसिनः कालवडवानलपातिनः ।

सङ्ख्यातुं केन शक्यन्ते कल्लोला जीविताम्बुधेः ॥ १,२५.४० ॥

"जीविताम्बुधेः" "कल्लोलाः" जीवा इत्यर्थः ॥ १,२५.४० ॥

 

 

 

सर्व एव नरा मोहाद्दुराशापाशपातिनः ।

दोषगुल्मकसारङ्गा निगीर्णा जन्मजङ्गले ॥ १,२५.४१ ॥

"दोषगुल्मकसारङ्गाः" दोषप्रिया इत्यर्थः । मृगो गुल्मप्रियो भवति । "निगीर्णाः" ग्रस्ताः । मोहेनेति शेषः । सारङ्गा अपि पाशपातिनः "जङ्गले" किरातेन ग्रस्ता भवन्ति ॥ १,२५.४१ ॥

 

 

 

सङ्क्षीयते जगति जन्मपरम्परासु

लोकस्य तैरिह कुकर्मभिरायुरेतत् ।

आकाशपादपलताकृतपाशकल्पं

येषां फलं न हि विचारविदोऽपि विद्मः ॥ १,२५.४२ ॥

"आकाशपादपलताकृतपाशकल्पम्" असदित्यर्थः । "इह" कर्म कुर्वन्तीति भावः ॥ १,२५.४२ ॥

 

 

 

सर्गान्तश्लोकेनैतत्समापयति

अद्योत्सवोऽयमृतुरेष तथेह यात्रा

ते बान्धवाः सुखमिदं स विशेषभोगः ।

इत्थं मुधैव कलयन् स्वविकल्पजालम्

आलोलपेलवमतिर्गलतीह लोकः ॥ १,२५.४३ ॥

"आलोलपेलवमतिर्" अतिचञ्चलस्वल्पबुद्धिरित्यर्थः । "स्वविकल्पजालम्" इत्यनेन "उत्सवा"दीनामत्यन्तासत्त्वमुक्तम् । इति शिवम् ॥ १,२५.४३ ॥

 

 

 

 

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे पञ्चविंशः सर्गः ॥ १,२५ ॥