ऋग्वेदः सूक्तं ३.४१

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ३.४१ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं ३.४० ऋग्वेदः - मण्डल ३
सूक्तं ३.४१
गाथिनो विश्वामित्रः
सूक्तं ३.४२ →
दे. इन्द्रः। गायत्री


आ तू न इन्द्र मद्र्यग्घुवानः सोमपीतये ।
हरिभ्यां याह्यद्रिवः ॥१॥
सत्तो होता न ऋत्वियस्तिस्तिरे बर्हिरानुषक् ।
अयुज्रन्प्रातरद्रयः ॥२॥
इमा ब्रह्म ब्रह्मवाहः क्रियन्त आ बर्हिः सीद ।
वीहि शूर पुरोळाशम् ॥३॥
रारन्धि सवनेषु ण एषु स्तोमेषु वृत्रहन् ।
उक्थेष्विन्द्र गिर्वणः ॥४॥
मतयः सोमपामुरुं रिहन्ति शवसस्पतिम् ।
इन्द्रं वत्सं न मातरः ॥५॥
स मन्दस्वा ह्यन्धसो राधसे तन्वा महे ।
न स्तोतारं निदे करः ॥६॥
वयमिन्द्र त्वायवो हविष्मन्तो जरामहे ।
उत त्वमस्मयुर्वसो ॥७॥
मारे अस्मद्वि मुमुचो हरिप्रियार्वाङ्याहि ।
इन्द्र स्वधावो मत्स्वेह ॥८॥
अर्वाञ्चं त्वा सुखे रथे वहतामिन्द्र केशिना ।
घृतस्नू बर्हिरासदे ॥९॥


सायणभाष्यम्

‘आ तू न इन्द्र' इति नवर्चं तृतीयं सूक्तं वैश्वामित्रं गायत्रमैन्द्रम् । ‘आ तू नः' इत्यनुक्रान्तम् । अतिरात्रे द्वितीये पर्याये ब्राह्मणाच्छंसिशस्त्रे एतदादिके द्वे सूक्ते । सूत्रितं च--- आ तू न इन्द्र मद्र्यगिति सूक्ते ' ( आश्व. श्रौ. ६. ४ ) इति ।।


आ तू न॑ इंद्र म॒द्र्य॑ग्घुवा॒नः सोम॑पीतये ।

हरि॑भ्यां याह्यद्रिवः ॥१

आ । तु । नः॒ । इ॒न्द्र॒ । म॒द्र्य॑क् । हु॒वा॒नः । सोम॑ऽपीतये ।

हरि॑ऽभ्याम् । या॒हि॒ । अ॒द्रि॒ऽवः॒ ॥१

आ । तु । नः । इन्द्र । मद्र्यक् । हुवानः । सोमऽपीतये ।

हरिऽभ्याम् । याहि । अद्रिऽवः ॥१

"अद्रिवः वज्रिन् हे "इन्द्र “हुवानः होतृभिराहूयमानस्त्वं मद्र्यक् मदभिमुखः सन् नः अस्मदीये यज्ञे "सोमपीतये सोमपानार्थं "हरिभ्याम् अश्वाभ्यां सह "तु क्षिप्रम् "आ "याहि ॥ तु । ‘ऋचि तुनुघ° ' इत्यादिना संहितायां दीर्घः । मद्र्यक् । मामञ्चतीति ‘ऋत्विग्दधृक्' इत्यादिना क्विन् । ' प्रत्ययोत्तरपदयोश्च' इत्यस्मच्छब्दस्यैकवचने मपर्यन्तस्य मादेशः । ‘विष्वग्देवयोश्च टेरद्र्यञ्चतावप्रत्यये ' इति टेः अद्रि इत्यादेशः । 'अद्रिसध्र्योरन्तोदात्तत्वनिपातनं कृत्स्वरनिवृत्यर्थम्' इति वचनात् अद्र्यादेशः अन्तोदात्तः । यणादेशे कृते ' उदात्तस्वरितयोर्यणः' ' इति यणः स्वरितत्वम् । ' क्विन्प्रत्ययस्य कुः ' इति कुत्वम् । सोमपीतये । दासीभारादित्वात् पूर्वपदप्रकृतिस्वरत्वम् । अद्रिवः । ' मतुवसोः ० ' इति रुत्वम् । आमन्त्रितत्वान्निघातः । ।


स॒त्तो होता॑ न ऋ॒त्विय॑स्तिस्ति॒रे ब॒र्हिरा॑नु॒षक् ।

अयु॑ज्रन्प्रा॒तरद्र॑यः ॥२

स॒त्तः । होता॑ । नः॒ । ऋ॒त्वियः॑ । ति॒स्ति॒रे । ब॒र्हिः । आ॒नु॒षक् ।

अयु॑ज्रन् । प्रा॒तः । अद्र॑यः ॥२

सत्तः । होता । नः । ऋत्वियः । तिस्तिरे । बर्हिः । आनुषक् ।

अयुज्रन् । प्रातः । अद्रयः ॥२

हे इन्द्र "नः अस्मदीये यज्ञे "होता ऋत्विक् तवाह्वानार्थम् "ऋत्वियः प्राप्तकालः सन् "सत्तः निषण्णो वर्तते । तथा "बर्हिरानुषक् अनुषक्तं परस्परसंबद्धं यथा भवति तथा "तिस्तिरे हविःष्वासन्नेषु स्तीर्णमभूत् । तथा "प्रातः प्रातःसवने सोमाभिषवार्थम् "अद्रयः ग्रावाणः "अयुज्रन् परस्परं संगता अभूवन् । तस्मात् सोमपानार्थं त्वमागच्छेति भावः ।। सत्तः । षद्लृ विशरणादिषु इत्यस्मात् ' गत्यर्थाकर्मकश्लिष० ' ( पा. सूॄ ३. ४. ७२) इत्यादिना कर्तरि क्तः । सर्वविधीनां छन्दसि विकल्पितत्वादत्र निष्ठातकारस्य नत्वाभावः । ऋत्वियः । ऋतुशब्दात् ' छन्दसि घस् ' इति घस् प्रत्ययः । घस्येयादेशः । ' सिति ' इति पदसंज्ञायाम् ' ओर्गुणः ' इति भसंज्ञाधीनो गुणो न भवति । यणादेशः । प्रत्ययस्वरः । तिस्तिरे । ' स्तॄञ् आच्छादने ' इत्यस्य कर्मणि लिटि ' ऋत इद्धातोः ' इतीत्वम् । द्विर्वचने ' शर्पूर्वाः खयः ' इति तकारस्य शेषः । ' लिटस्तझयोरेशिरेच् ' इति तप्रत्ययस्य एश् इत्यादेशः । पादादित्वादनिघातः । प्रत्ययस्वरः । आनुषक् । ' षञ्ज संगे ' । क्विप् । ' अनिदिताम् ' इति नलोपः । आङन्वोरुपसगर्योः प्राक् प्रयोगः । गतिसमासः । कृदुत्तरपदस्वरः । अयुज्रन् । ' युजिर् योगे ' इत्यस्य लुङि च्लेः ' इरितो वा ' इत्यङादेशः । ' बहुलं छन्दसि ' इति रुडागमः । पादादित्वादनिघातः । अडागमस्वरः


इ॒मा ब्रह्म॑ ब्रह्मवाहः क्रि॒यंत॒ आ ब॒र्हिः सी॑द ।

वी॒हि शू॑र पुरो॒ळाशं॑ ॥३

इ॒मा । ब्रह्म॑ । ब्र॒ह्म॒ऽवा॒हः॒ । क्रि॒यन्ते॑ । आ । ब॒र्हिः । सी॒द॒ ।

वी॒हि । शू॒र॒ । पु॒रो॒ळाश॑म् ॥३

इमा । ब्रह्म । ब्रह्मऽवाहः । क्रियन्ते । आ । बर्हिः । सीद ।

वीहि । शूर । पुरोळाशम् ॥३

"ब्रह्मवाहः। ब्रह्माणि स्तोत्राणि स्तुत्यतया वहतीति ब्रह्मवाहा ब्रह्मणा स्तोत्रेण प्राप्यते इति वा । हे स्तुत्य इन्द्र तुभ्यम् "इमा इमानि ब्रह्म ब्रह्माणि स्तोत्राणि अस्माभिः "क्रियन्ते । अतः "बर्हिः "आ "सीद स्तुत्यतया बर्हिषि यज्ञे उपविश । हे "शूर समर्थेन्द्र अस्माभिर्दीयमानमिमं "पुरोडाशं पुरोडाशाख्यं हविः "वीहि भक्षय ।। ब्रह्मवाहः । ' वह प्रापणे ' इत्यस्मात् ' वहिहाधाञ्भ्यश्छन्दसि ' इत्यसुन् । ' णित् ' इत्यनुवृत्तेरुपधावृद्धिः । आमन्त्रितत्वान्निघातः । क्रियन्ते । करोतेः कर्मणि यक् । रिङ् शयग्लिङ्क्षु ' इति रिङादेशः । प्रत्ययस्वरः । पादादित्वादनिघातः । बर्हिः । कालाध्वनोरत्यन्त- संयोगे द्वितीया । वीहि । वी कान्त्यादिषु । लोटि रूपम् । हेर्ङित्त्वादुदात्तः । पुरोळाशम् । दाशृ दाने ' इत्यस्मात् पुरस्पूर्वात् ' मन्त्रे श्वेतवहोक्थशस्पुरोडाशो ण्विन् ' ( पा. सू ३.२. ७१) । पुरो दाशन्त एनमिति । निपातनाद्दकारस्य लकारः । कृदुत्तरपदस्वरः । ।


रा॒रं॒धि सव॑नेषु ण ए॒षु स्तोमे॑षु वृत्रहन् ।

उ॒क्थेष्विं॑द्र गिर्वणः ॥४

र॒र॒न्धि । सव॑नेषु । नः॒ । ए॒षु । स्तोमे॑षु । वृ॒त्र॒ऽह॒न् ।

उ॒क्थेषु॑ । इ॒न्द्र॒ । गि॒र्व॒णः॒ ॥४

ररन्धि । सवनेषु । नः । एषु । स्तोमेषु । वृत्रऽहन् ।

उक्थेषु । इन्द्र । गिर्वणः ॥४

हे "गिर्वणः गीर्भिः स्तुतिभिर्वननीय "वृत्रहन् वृत्रस्य हन्तर्हे "इन्द्र "नः अस्माकं संबन्धिषु त्रिषु "सवनेषु "एषु क्रियमाणेषु "स्तोमेषु स्तोत्रेषु "उक्थेषु शस्त्रेषु च "रारन्धि रमस्व ॥ रारन्धि । रमतेर्लोटि ‘बहुलं छन्दसि ' इति शपः श्लुः । 'छन्दस्युभयथा' इति हेरार्धधातुकत्वेनाडित्त्वात् ‘अङितश्च' इति हेर्धिः । सवनेषु । सूयते सोमो येष्विति अधिकरणे सुनोतेर्ल्युट् । लित्स्वरः । णः । नसो नकारस्य ‘नश्च धातुस्थोरुषुभ्यः' इति संहितायां णत्वम् ॥


म॒तयः॑ सोम॒पामु॒रुं रि॒हंति॒ शव॑स॒स्पतिं॑ ।

इंद्रं॑ व॒त्सं न मा॒तरः॑ ॥५

म॒तयः॑ । सो॒म॒ऽपाम् । उ॒रुम् । रि॒हन्ति॑ । शव॑सः । पति॑म् ।

इन्द्र॑म् । व॒त्सम् । न । मा॒तरः॑ ॥५

मतयः । सोमऽपाम् । उरुम् । रिहन्ति । शवसः । पतिम् ।

इन्द्रम् । वत्सम् । न । मातरः ॥५

हे इन्द्र “मतयः अस्माभिः क्रियमाणाः स्तुतयः “उरुं महान्तं "सोमपां सोमस्य पातारं "शवसः बलस्य “पतिम् "इन्द्रं त्वां "रिहन्ति लिहन्ति । तत्र दृष्टान्तः । "वत्सं "न । यथा वत्सं "मातरः धेनवो लिहन्ति तद्वत्॥ मतयः । ‘मन ज्ञाने' इत्यस्मात् कर्मणि “ मन्त्रे वृष°' इत्यादिना क्तिन्नुदात्तः । उरुम् । ‘ऊर्णुञ् आच्छादने' इत्यस्मात् महत्यर्थे गम्यमाने ‘महति ह्रस्वश्च ' ( उ. सू. १. ३२) इति कुप्रत्ययो धातोर्ह्रस्वश्च । प्रत्ययस्वरः । रिहन्ति । ‘लिह आस्वादने' इत्यस्य लटि रूपम् । रलयोरभेदः । प्रत्ययस्वरः । शवसस्पतिमिति संहितायां • षष्ठ्याः पतिपुत्रपृष्ठ°' इत्यादिना ‘विसर्जनीयस्य सत्वम् । वत्सम् ।' वद व्यक्तायां -वाचि'। अस्मात् ' वृतॄवदिहनि ' इत्यादिना सप्रत्ययः । वदत्यभीक्ष्णं मातरमिति वत्सो गोबालः । प्रत्ययस्वरः ॥ ॥ ३ ॥


स मं॑दस्वा॒ ह्यंध॑सो॒ राध॑से त॒न्वा॑ म॒हे ।

न स्तो॒तारं॑ नि॒दे क॑रः ॥६

सः । म॒न्द॒स्व॒ । हि । अन्ध॑सः । राध॑से । त॒न्वा॑ । म॒हे ।

न । स्तो॒तार॑म् । नि॒दे । क॒रः॒ ॥६

सः । मन्दस्व । हि । अन्धसः । राधसे । तन्वा । महे ।

न । स्तोतारम् । निदे । करः ॥६

हे इन्द्र "सः तथाविधस्त्वं "महे महते "राधसे धनाय "अन्धसः अस्माभिर्दीयमानस्य सोमस्य पानेन "तन्वा शरीरेण सह "मन्दस्व हृष्टो भव । हिः अत्र समुच्चयार्थः । किंच त्वं "स्तोतारं मां “निदे निन्दायै विषयभूतं "न "करः मा कार्षीः ॥ मन्दस्व । मदि स्तुत्यादिषु इत्यस्य लोटि रूपम् । ' हि च ' इति निघातप्रतिषेधेन भवितव्यमिति चेन्न । तत्र ‘अप्रातिलोम्ये' इति वर्तते । अत्र हेः समुच्चयार्थवान्निघातः । तन्वा । ‘उदात्तस्वरितयोः' इति स्वरितत्वम् । महे । तकारलोपश्छन्दसः । ‘बृहन्महतोरुपसंख्यानम्' इति विभक्तेरुदात्तत्वम् । निदे। ‘णिदि कुत्सायाम्' इत्यस्मात् संपदादिलक्षणो भावे क्विप् । आगमानुशासनस्यानित्यत्वान्नुमभावः । ‘सावेकाचः । इति विभक्तेरुदात्तत्वम् । करः । करोतेर्लुङि च्लेः ' कृमृदृरुहिभ्यश्छन्दसि ' इत्यङादेशः । निघातः ।।


व॒यमिं॑द्र त्वा॒यवो॑ ह॒विष्मं॑तो जरामहे ।

उ॒त त्वम॑स्म॒युर्व॑सो ॥७

व॒यम् । इ॒न्द्र॒ । त्वा॒ऽयवः॑ । ह॒विष्म॑न्तः । ज॒रा॒म॒हे॒ ।

उ॒त । त्वम् । अ॒स्म॒ऽयुः । व॒सो॒ इति॑ ॥७

वयम् । इन्द्र । त्वाऽयवः । हविष्मन्तः । जरामहे ।

उत । त्वम् । अस्मऽयुः । वसो इति ॥७

हे "इन्द्र "त्वायवः यज्ञार्थं त्वामात्मन इच्छन्तस्त्वत्कामाः सन्तः "हविष्मन्तः संभृतहविष्काः “वयं "जरामहे त्वां स्तुमः । हे "वसो सर्वस्य वासक इन्द्र "उत "त्वम् अपि "अस्मयुः हविःस्वीकरणर्थम् अस्मानात्मन इच्छन् भव ॥ त्वायवः । त्वामिच्छन्तीत्यर्थे सुप आत्मनः क्यच् '। ' प्रत्ययोत्तरपदयोश्च' इति मपर्यन्तस्य त्वादेशः । ‘क्याच्छन्दसि इत्युप्रत्ययः । त्वद्यव इति प्राप्तौ ' युष्मदस्मदोरनादेशे' इत्यविभक्तावपि हलादौ व्यत्ययेनात्वम् । प्रत्ययस्वरः । हविष्मन्तः । ‘तसौ मत्वर्थे ' इति भसंज्ञायां सकारस्य रुत्वाभावः । ‘स्वरविधौ व्यञ्जनमविद्यमानवत्' इति परिभाषानाश्रयणात् मतुप उदात्तताभावः । इसिप्रत्ययस्वरः । जरामहे । ‘जरतिः स्तुतिकर्मा ' इति यारकः । अस्मयुः । अरमानिच्छतीत्यर्थे सुपः क्यच् । तस्मादु प्रत्ययः । पूर्वपदान्तलोपश्छन्दसः । प्रत्ययस्वरः ॥


मारे अ॒स्मद्वि मु॑मुचो॒ हरि॑प्रिया॒र्वाङ्या॑हि ।

इंद्र॑ स्वधावो॒ मत्स्वे॒ह ॥८

मा । आ॒रे । अ॒स्मत् । वि । मु॒मु॒चः॒ । हरि॑ऽप्रिय । अ॒र्वाङ् । या॒हि॒ ।

इन्द्र॑ । स्व॒धा॒ऽवः॒ । मत्स्व॑ । इ॒ह ॥८

मा । आरे । अस्मत् । वि । मुमुचः । हरिऽप्रिय । अर्वाङ् । याहि ।

इन्द्र । स्वधाऽवः । मत्स्व । इह ॥८

हे "हरिप्रिय हरी अश्वौ प्रियौ यस्य तादृश हे इन्द्र "अस्मत् अस्मत्तः "आरे दूरे रथे योजितावश्वौ "मा "वि "मुमुचः मा विमोचय । ताभ्यामुपेत एव "अर्वाङ् अस्मदाभि मुख्येन “याहि आगच्छ। हे "स्वधावः सोमलक्षणान्नवन’“इन्द्र “इह अस्मिन् देवयजने “मत्स्व सोमं पीत्वा हृष्टो भव ॥ अस्मत् । अस्मच्छब्दस्य पञ्चमीबहुवचनस्य ‘पञ्चम्या अत् ' (पा. सू. ७. १. ३१ ) इत्यदादेशः । मुमुचः ।' मुच्लृ मोक्षणे ' इत्यस्य ण्यन्तस्य छान्दसे लुङि चङि रूपम् । अभ्यासस्य दीर्घाभावश्छान्दसः । ‘न माङयोगे' इत्यडभावः । निघातः । हरिप्रिय । आमन्त्रितस्य पादादित्वात् षाष्ठिकमाद्युदात्तत्वम् । मत्स्व । मदि स्तुत्यादिषु इत्यस्य लोटि ' बहुलं छन्दसि ' इति विकरणस्य लुक् । आमन्त्रितस्याविद्यमानत्वेन पादादित्वादनिघातः ।।


अ॒र्वांचं॑ त्वा सु॒खे रथे॒ वह॑तामिंद्र के॒शिना॑ ।

घृ॒तस्नू॑ ब॒र्हिरा॒सदे॑ ॥९

अ॒र्वाञ्च॑म् । त्वा॒ । सु॒ऽखे । रथे॑ । वह॑ताम् । इ॒न्द्र॒ । के॒शिना॑ ।

घृ॒तस्नू॒ इति॑ घृ॒तऽस्नू॑ । ब॒र्हिः । आ॒ऽसदे॑ ॥९

अर्वाञ्चम् । त्वा । सुऽखे । रथे । वहताम् । इन्द्र । केशिना ।

घृतस्नू इति घृतऽस्नू । बर्हिः । आऽसदे ॥९

हे "इन्द्र "घृतस्नू श्रमजनितजलप्रस्रवणयुक्तौ "केशिना केशिनौ स्कन्धप्रदेशे लम्बमान केशयुक्तौ हरी “आसदे आसदनीय "बर्हिः अभिलक्ष्य "सुखे सुखकरे "रथे अर्वाञ्चम् अस्मदभिमुखं "त्वा त्वां "वहताम् ॥ अर्वाञ्चम् । अञ्चतेः क्विनि उगिदचाम् ' इति नुम् । "वहताम् ॥ वहेर्लोटि रूपम् । तसो लसार्वधातुकस्वरे कृते धातुस्वरः। आसदे। सदेः कृत्यार्थे केन्प्रत्ययः। नित्स्वरः कृदुत्तरपदप्रकृतिस्वरः ॥ ॥ ४ ॥



मण्डल ३

सूक्तं ३.१

सूक्तं ३.२

सूक्तं ३.३

सूक्तं ३.४

सूक्तं ३.५

सूक्तं ३.६

सूक्तं ३.७

सूक्तं ३.८

सूक्तं ३.९

सूक्तं ३.१०

सूक्तं ३.११

सूक्तं ३.१२

सूक्तं ३.१३

सूक्तं ३.१४

सूक्तं ३.१५

सूक्तं ३.१६

सूक्तं ३.१७

सूक्तं ३.१८

सूक्तं ३.१९

सूक्तं ३.२०

सूक्तं ३.२१

सूक्तं ३.२२

सूक्तं ३.२३

सूक्तं ३.२४

सूक्तं ३.२५

सूक्तं ३.२६

सूक्तं ३.२७

सूक्तं ३.२८

सूक्तं ३.२९

सूक्तं ३.३०

सूक्तं ३.३१

सूक्तं ३.३२

सूक्तं ३.३३

सूक्तं ३.३४

सूक्तं ३.३५

सूक्तं ३.३६

सूक्तं ३.३७

सूक्तं ३.३८

सूक्तं ३.३९

सूक्तं ३.४०

सूक्तं ३.४१

सूक्तं ३.४२

सूक्तं ३.४३

सूक्तं ३.४४

सूक्तं ३.४५

सूक्तं ३.४६

सूक्तं ३.४७

सूक्तं ३.४८

सूक्तं ३.४९

सूक्तं ३.५०

सूक्तं ३.५१

सूक्तं ३.५२

सूक्तं ३.५३

सूक्तं ३.५४

सूक्तं ३.५५

सूक्तं ३.५६

सूक्तं ३.५७

सूक्तं ३.५८

सूक्तं ३.५९

सूक्तं ३.६०

सूक्तं ३.६१

सूक्तं ३.६२

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.४१&oldid=209115" इत्यस्माद् पुनः प्राप्तिः