ऋग्वेदः सूक्तं ३.३९

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ३.३९ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं ३.३८ ऋग्वेदः - मण्डल ३
सूक्तं ३.३९
गाथिनो विश्वामित्रः
सूक्तं ३.४० →
दे. इन्द्रः। त्रिष्टुप् ।


इन्द्रं मतिर्हृद आ वच्यमानाच्छा पतिं स्तोमतष्टा जिगाति ।
या जागृविर्विदथे शस्यमानेन्द्र यत्ते जायते विद्धि तस्य ॥१॥
दिवश्चिदा पूर्व्या जायमाना वि जागृविर्विदथे शस्यमाना ।
भद्रा वस्त्राण्यर्जुना वसाना सेयमस्मे सनजा पित्र्या धीः ॥२॥
यमा चिदत्र यमसूरसूत जिह्वाया अग्रं पतदा ह्यस्थात् ।
वपूंषि जाता मिथुना सचेते तमोहना तपुषो बुध्न एता ॥३॥
नकिरेषां निन्दिता मर्त्येषु ये अस्माकं पितरो गोषु योधाः ।
इन्द्र एषां दृंहिता माहिनावानुद्गोत्राणि ससृजे दंसनावान् ॥४॥
सखा ह यत्र सखिभिर्नवग्वैरभिज्ञ्वा सत्वभिर्गा अनुग्मन् ।
सत्यं तदिन्द्रो दशभिर्दशग्वैः सूर्यं विवेद तमसि क्षियन्तम् ॥५॥
इन्द्रो मधु सम्भृतमुस्रियायां पद्वद्विवेद शफवन्नमे गोः ।
गुहा हितं गुह्यं गूळ्हमप्सु हस्ते दधे दक्षिणे दक्षिणावान् ॥६॥
ज्योतिर्वृणीत तमसो विजानन्नारे स्याम दुरितादभीके ।
इमा गिरः सोमपाः सोमवृद्ध जुषस्वेन्द्र पुरुतमस्य कारोः ॥७॥
ज्योतिर्यज्ञाय रोदसी अनु ष्यादारे स्याम दुरितस्य भूरेः ।
भूरि चिद्धि तुजतो मर्त्यस्य सुपारासो वसवो बर्हणावत् ॥८॥
शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।
शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥९॥


सायणभाष्यम्

अथ चतुर्थेऽनुवाके पञ्चदश सूक्तानि । तत्र ‘इन्द्रं मति: ' इति नवर्चं प्रथमं सूक्तं वैश्वामित्रं त्रैष्टुभमैन्द्रम् । इन्द्रं मतिर्नव' इत्यनुक्रान्तम् । सूक्तविनियोगो लिङ्गादवगन्तव्यः ।


इंद्रं॑ म॒तिर्हृ॒द आ व॒च्यमा॒नाच्छा॒ पतिं॒ स्तोम॑तष्टा जिगाति ।

या जागृ॑विर्वि॒दथे॑ श॒स्यमा॒नेंद्र॒ यत्ते॒ जाय॑ते वि॒द्धि तस्य॑ ॥१

इन्द्र॑म् । म॒तिः । हृ॒दः । आ । व॒च्यमा॑ना । अच्छ॑ । पति॑म् । स्तोम॑ऽतष्टा । जि॒गा॒ति॒ ।

या । जागृ॑विः । वि॒दथे॑ । श॒स्यमा॑ना । इन्द्र॑ । यत् । ते॒ । जाय॑ते । वि॒द्धि । तस्य॑ ॥१

इन्द्रम् । मतिः । हृदः । आ । वच्यमाना । अच्छ । पतिम् । स्तोमऽतष्टा । जिगाति ।

या । जागृविः । विदथे । शस्यमाना । इन्द्र । यत् । ते । जायते । विद्धि । तस्य ॥१

विश्वामित्रः स्तौति । हे इन्द्र “हृदः हृदयात् “वच्यमाना उच्यमाना “स्तोमतष्टा स्तोमकारिभिः कृता “मतिः स्तुतिः “पतिं सर्वस्य जगतः स्वामिनं “अच्छ अभिलक्ष्य “आ “जिगाति समन्तात् गच्छतु । "या मदीया स्तुतिः “जागृविः स्तुत्यस्य सर्वं जागरणं कुर्वाणा “विदथे यज्ञे "शस्यमाना भवति । हे “इन्द्र “ते त्वदर्थं “यत् स्तोत्रं मत्तः “जायते तत् “विद्धि जानीहि । “तस्य इति द्वितीयार्थे षष्ठी ।। मतिः । ‘ मन्त्रे वृष ' इत्यादिना क्तिन्नुदात्त: । हृदः । हृदयशब्दस्य ‘ पद्दन्नोमास' ( पा. सू. ६, १. ६३ ) इत्यादिना हृदादेशः । ‘ ऊडिदम्' इति विभक्तेरुदात्तत्वम् । वच्यमाना । ‘ वच परिभाषणे ' इत्यस्य कर्मणि यक् । संप्रसारणवश्छान्दसः । प्रत्ययस्वरः ।। स्तोमतष्टा । ‘ तक्षू त्वक्षू तनूकरणे' इत्यस्य कर्मणि निष्ठा । ‘ तृतीया कर्मणि ' इति पूर्वपदप्रकृतिस्वरत्वम् । जिगाति । ‘ गा स्तुतौ छन्दसि' इति जुहोत्यादिः । ‘ बहुलं छन्दसि ' इत्यभ्यासस्य इत्वम् । निघातः । जायते । ‘ जनी प्रादुर्भावे' इत्यस्य लटि रूपम् । यद्वृत्तयोगादनिघातः । विद्धि । ‘ विद ज्ञाने' इत्यस्य लोटि हेः “ हुझल्भ्यो हेर्धिः' इति ध्यादेशः । वाक्यभेदादनिघातः ।।


दि॒वश्चि॒दा पू॒र्व्या जाय॑माना॒ वि जागृ॑विर्वि॒दथे॑ श॒स्यमा॑ना ।

भ॒द्रा वस्त्रा॒ण्यर्जु॑ना॒ वसा॑ना॒ सेयम॒स्मे स॑न॒जा पित्र्या॒ धीः ॥२

दि॒वः । चि॒त् । आ । पू॒र्व्या । जाय॑माना । वि । जागृ॑विः । वि॒दथे॑ । श॒स्यमा॑ना ।

भ॒द्रा । वस्त्रा॑णि । अर्जु॑ना । वसा॑ना । सा । इ॒यम् । अ॒स्मे इति॑ । स॒न॒ऽजा । पित्र्या॑ । धीः ॥२

दिवः । चित् । आ । पूर्व्या । जायमाना । वि । जागृविः । विदथे । शस्यमाना ।

भद्रा । वस्त्राणि । अर्जुना । वसाना । सा । इयम् । अस्मे इति । सनऽजा । पित्र्या । धीः ॥२

हे इन्द्र “दिवश्चित् द्योतमानात् सूर्यादपि “पूर्व्या पूर्वे भवा उषःकालसंबन्धिनी “आ “जायमाना या स्तुतिलक्षणा वाक् विभवति “सेयं वाक् “विदथे यज्ञे “शस्यमाना “जागृविः स्तुत्यस्य तव जागरणं कुर्वाणा “भद्रा कल्याणानि “अर्जुना शुक्लवर्णानि “वस्त्राणि योग्यतया तेजांसि “वसाना “अस्मे अस्माकं “पित्र्या पितृक्रमागता अत एव “सनजा पुरातनी सती “धीः तव स्तुतिर्भवति ॥ दिवः । दिवेः क्विप् । ‘ ऊडिदम्' इति विभक्तेरुदात्तत्वम् । अर्जुना । ‘ अर्जेर्णिलुक्च' ( उ. सू. ३. ३३८) इति उनन् । नित्स्वरः। सनजा। जनेः “ अन्येभ्योऽपि दृश्यते ' इति डः। प्रत्ययस्वरः । पित्र्या । पितृशब्दात्तत आगत इत्यर्थे ‘ पितुर्यच्च' इति यत्प्रत्ययः । ‘ रीङृतः ' (पा. सू. ७. ४. २७ ) इति रीङादेशः । “यस्य” इति लोपः ।' यतोऽनावः' इत्याद्युदात्तत्वम् ॥


य॒मा चि॒दत्र॑ यम॒सूर॑सूत जि॒ह्वाया॒ अग्रं॒ पत॒दा ह्यस्था॑त् ।

वपूं॑षि जा॒ता मि॑थु॒ना स॑चेते तमो॒हना॒ तपु॑षो बु॒ध्न एता॑ ॥३

य॒मा । चि॒त् । अत्र॑ । य॒म॒ऽसूः । अ॒सू॒त॒ । जि॒ह्वायाः॑ । अग्र॑म् । पत॑त् । आ । हि । अस्था॑त् ।

वपूं॑षि । जा॒ता । मि॒थु॒ना । स॒चे॒ते॒ इति॑ । त॒मः॒ऽहना॑ । तपु॑षः । बु॒ध्ने । आऽइ॑ता ॥३

यमा । चित् । अत्र । यमऽसूः । असूत । जिह्वायाः । अग्रम् । पतत् । आ । हि । अस्थात् ।

वपूंषि । जाता । मिथुना । सचेते इति । तमःऽहना । तपुषः । बुध्ने । आऽइता ॥३

प्रसंगादुषःकालं प्रशंसति । "यमसूः । यमौ यमलौ सूत इति यमसूरुषोभिमानिनी देवता । सा "यमा यमलावश्विनौ “अत्र उषःकाले “असूत । अश्विनोस्तत्र शस्यमानत्वात्तावश्विनौ स्तोतुं मम “जिह्वायाः “अग्रं “पतत् चञ्चलम् “आ “अस्थात् “हि तिष्ठति खलु । “तमोहना तमसो हन्तारौ “तपुषः । तपस्यस्मिन् सूर्य इति तपुः दिवसः। तस्य “बुध्ने मूले “एता एतावागतौ “मिथुना परस्परं संगतौ तावश्विनौ जाता उत्पन्नानि “वपूंषि । उप्यन्ते निधीयन्ते इति वपूंषि उषःकाले क्रियमाणानि शस्त्रादीनि कर्माणि । “सचेते संगच्छतः ॥ यमसूः। ‘षृङ् प्राणिगर्भविमोचने' इत्यस्य क्विप्। कृदुत्तरपदस्वरः। असूत । तस्यैव धातोर्लङि अदादित्वाच्छपो लुक् । निघातः । पतत् ।' पत्लृ गतौ ' । शतुर्लसार्वधातुकस्वरे धातुस्वरः । अस्थात् । ष्ठा गतिनिवृत्तौ' । लुङि रूपम् । हियोगादनिघातः । वपूंषि । ‘ डुवप् बीजसंताने' । ‘अर्तिपॄवपियजितनिधनितपिभ्यो नित्' इति उसिप्रत्ययः । ‘ निच्च ' इत्युक्तत्वादाद्युदात्तः । सचेते । षच समवाये' इत्यस्य लटि रूपम् । तपुषः । तप संतापे ' । ‘ अर्तिपॄवपि °' इत्यादिना उसिः । बुध्ने । बन्ध बन्धने' । ‘बन्धेर्ब्रधिबुधी च ' ( उ. सू. ३. २८५ ) इति नक्प्रत्ययः । ब्रधिबुधी एतावादेशौ धातोः । प्रत्ययस्वरः । एता । ‘ इण् गतौ' इत्यस्य कर्मणि निष्ठा । ' गतिरनन्तरः' इति गतेः स्वरः ।।


नकि॑रेषां निंदि॒ता मर्त्ये॑षु॒ ये अ॒स्माकं॑ पि॒तरो॒ गोषु॑ यो॒धाः ।

इंद्र॑ एषां दृंहि॒ता माहि॑नावा॒नुद्गो॒त्राणि॑ ससृजे दं॒सना॑वान् ॥४

नकिः॑ । ए॒षा॒म् । नि॒न्दि॒ता । मर्त्ये॑षु । ये । अ॒स्माक॑म् । पि॒तरः॑ । गोषु॑ । यो॒धाः ।

इन्द्रः॑ । ए॒षा॒म् । दृं॒हि॒ता । माहि॑नऽवान् । उत् । गो॒त्राणि॑ । स॒सृ॒जे॒ । दं॒सना॑ऽवान् ॥४

नकिः । एषाम् । निन्दिता । मर्त्येषु । ये । अस्माकम् । पितरः । गोषु । योधाः ।

इन्द्रः । एषाम् । दृंहिता । माहिनऽवान् । उत् । गोत्राणि । ससृजे । दंसनाऽवान् ॥४

हे इन्द्र सत्रे प्रवृत्तानाम् “अस्माकं "ये “पितरः अङ्गिरसः “गोषु पणिभिरपहृतेषु तन्निमित्तं "योधाः योद्धारो वर्तन्ते तेषाम् “एषां मर्त्येषु “निन्दिता दूषकः “नकिः न कश्चिदस्ति । कुत इत्यत आह । “माहिनावान् महिमोपेतः "दंसनावान् वृत्रहननादिकर्मवान् “इन्द्रः “एषाम् अङ्गिरसां “दृंहिता दृंहितानि समृद्धानि “गोत्राणि गवां वृन्दानि “उत् “ससृजे तेभ्योऽङ्गिरोभ्यो ददौ॥ निन्दिता ।' निदि कुत्सायाम्' इत्यस्य तृचि रूपम् । मर्त्येषु । वस्वादित्वात् स्वार्थिको यत् । यतोऽनावः' इत्याद्युदातत्वम् । योधाः । ‘युध संप्रहारे' इत्यस्य पचाद्यचि रूपम् । दृंहिता । ‘ दृह दृहि वृद्धौ' इत्यस्य निष्ठायां रूपम् । महिनावान् ।' महेरिनण्च' (उ. सू. २.२१४ ) इति इनण्प्रत्ययः। तदस्यास्ति' इति मतुप् । माहिनावानिति तस्य संज्ञा ।' मतौ बह्वचोऽनजिरादीनाम् ' ( पा. सू. ६. ३. ११९ ) इति संहितायां दीर्घः । गोत्राणि । गवां समूह इत्यर्थे ' खलगोरथात् ' इत्यनुवृत्तौ ' इनित्रकठ्यचश्च' ( पा. सू. ४. २. ५१ ) इति गोशब्दात् त्रप्रत्ययः । प्रत्ययस्वरः । ससृजे । “ सृज विसर्गे ' इत्यस्य लिटि रूपम् ।।


दशपेये निष्केवल्ये निविद्धानीयस्य पुरस्तात् ‘सखा ह यत्र' इत्येषा । सूत्रितं च-’ सखा ह यत्र सखिभिर्नवग्वैरिति निविद्धानीययोराद्ये ' ( आश्व. श्रौ. ९. ३ ) इति ।।

सखा॑ ह॒ यत्र॒ सखि॑भि॒र्नव॑ग्वैरभि॒ज्ञ्वा सत्व॑भि॒र्गा अ॑नु॒ग्मन् ।

स॒त्यं तदिंद्रो॑ द॒शभि॒र्दश॑ग्वैः॒ सूर्यं॑ विवेद॒ तम॑सि क्षि॒यंतं॑ ॥५

सखा॑ । ह॒ । यत्र॑ । सखि॑ऽभिः । नव॑ऽग्वैः । अ॒भि॒ऽज्ञु । आ । सत्व॑ऽभिः । गाः । अ॒नु॒ऽग्मन् ।

स॒त्यम् । तत् । इन्द्रः॑ । द॒शऽभिः॑ । दश॑ऽग्वैः । सूर्य॑म् । वि॒वे॒द॒ । तम॑सि । क्षि॒यन्त॑म् ॥५

सखा । ह । यत्र । सखिऽभिः । नवऽग्वैः । अभिऽज्ञु । आ । सत्वऽभिः । गाः । अनुऽग्मन् ।

सत्यम् । तत् । इन्द्रः । दशऽभिः । दशऽग्वैः । सूर्यम् । विवेद । तमसि । क्षियन्तम् ॥५

“सखिभिः समानख्यानैः “सत्वभिः इन्द्रमभितः सीदद्भिः "नवग्वैः । मेधातिथिप्रभृतयोऽङ्गिरसः केचिन्नव मासान् सत्रमनुष्ठाय फलं लेभिरे केचिद्दश मासाननुष्ठायेति । तत्र ये नव मासान् सत्रमनुष्ठाय लब्धफला उदतिष्ठन् ते नवग्वाः । तैः सत्वभिः अङ्गिरोभिः “सखा समानख्यानः इन्द्रः “यत्र यस्मिन् बिले पणिभिर्निरुद्धाः “गाः अभिलक्ष्य "अभिज्ञु अभिगतजानुकं यथा भवति तथा “अनुग्मन् अनुगच्छन् “इन्द्रः “तत् तत्र बिले “दशग्वैः। ये दश मासान् सत्रमनुष्ठाय लब्धफला उदतिष्ठन् ते दशग्वाः । “दशभिः दशसंख्याकैरङ्गिरोभिः सहितः सन् “तमसि बिलवर्तिन्यन्धकारे “क्षियन्तं निवसन्तं “सत्यं यथार्थप्रकाशं “सूर्यं “विवेद लेभे । ततो लब्धप्रकाशः स इन्द्रस्ता गा आनीयाङ्गिरोभ्यः प्रादादिति भावः । आहौ पूरणौ ॥ सखा । ' ख्या प्रकथने ' । ‘ समाने ख्यश्चोदात्तः' इति इण्प्रत्ययः । डिच्च । 'समानस्य छन्दसि' इति समानस्य सभावः । ‘उदात्त: इत्युक्तत्वेन सामर्थ्यादुपपदस्य इति गम्यते । आद्युदात्तः । नवग्वैः । गमेरौणादिको ड्वप्रत्ययः । बहुव्रीहौ पूर्वपदस्वरः । अभिज्ञु । ' प्रसंभ्यां जानुनोर्ज्ञुः ' इति विधीयमानो ज्ञुः अभेरुत्तरस्य व्यत्ययेन भवति । सत्वभिः । षद्लृ विशरणगत्यवसादनेषु ' इत्यस्मात् ‘प्र ईरसद्योस्तुट् च ' इति क्वनिष्प्रत्ययः । तुडागमः । नित्त्वादाद्युदात्तः । अनुग्मन् । गमेः शतरि ‘बहुलं छन्दसि ' इति शपो लुकि कृते • गमहन ' इत्यादिना' उपधालोपः । प्रादिसमासः । शतृस्वरः । विवेद । ‘ विद ज्ञाने' इत्यस्मात् लिटि णलि रूपम् । क्षियन्तम् । ‘क्षि निवासगत्योः' इत्यस्य शतरि रूपम् ॥ ॥२५॥


इंद्रो॒ मधु॒ संभृ॑तमु॒स्रिया॑यां प॒द्वद्वि॑वेद श॒फव॒न्नमे॒ गोः ।

गुहा॑ हि॒तं गुह्यं॑ गू॒ळ्हम॒प्सु हस्ते॑ दधे॒ दक्षि॑णे॒ दक्षि॑णावान् ॥६

इन्द्रः॑ । मधु॑ । सम्ऽभृ॑तम् । उ॒स्रिया॑याम् । प॒त्ऽवत् । वि॒वे॒द॒ । श॒फऽव॑त् । नमे॑ । गोः ।

गुहा॑ । हि॒तम् । गुह्य॑म् । गू॒ळ्हम् । अ॒प्ऽसु । हस्ते॑ । द॒धे॒ । दक्षि॑णे । दक्षि॑णऽवान् ॥६

इन्द्रः । मधु । सम्ऽभृतम् । उस्रियायाम् । पत्ऽवत् । विवेद । शफऽवत् । नमे । गोः ।

गुहा । हितम् । गुह्यम् । गूळ्हम् । अप्ऽसु । हस्ते । दधे । दक्षिणे । दक्षिणऽवान् ॥६

“इन्द्रः "उस्रियायां क्षीरदध्यादिक्रमेणोत्स्राविण्यां भोगवत्यां गवि “संभृतं संपादितं “मधु क्षीरादि "विवेद अज्ञासीत् । ततस्तदर्थं “पद्वत् पादयुक्तं “शफवत् खुरोपेतं गोधनं विवेद लेभे । कथं लब्धवानिति तदुच्यते । “नमे “गोः । गोरिति द्वितीयार्थे षष्ठी । पणिनामकैरसुरैरपहृतां गां नमे आनीतामकरोत् । तथा “दक्षिणावान् औदार्यवान् समर्थः स इन्द्रः “गुहा गुहायां “हितं “गुह्यं प्रच्छन्नम् अत एव “अप्सु अन्तरिक्षे 'गूळ्हं गूढचारिणं मायिनमसुरं “दक्षिणे “हस्ते “दधे दधार अग्रहीत् इत्यर्थः । द्वितीयाष्टके ‘श्रुधी हवम् ' इस्यस्मिन् वर्गे गुहा हितम्' इत्येतत् सम्यगभ्यधायि (ऋ. सं. २. ११. ५ ) ॥ उस्रियायाम् । प्रक्रिया सम्यक् पूर्वमेवावादि । विवेद । • विद ज्ञाने' ‘ विद्लृ लाभे' । एतयोर्लिटि रूपम् । शफवत् । शफोऽस्यास्तीति मतुप् । ‘ ह्रस्वनुड्भ्यां मतुप्' इति मतुप उदात्तत्वम् । नमे । ' णमु प्रह्वत्वे ' इत्यस्य लिटि रूपम् । द्विर्वचनस्य छन्दसि विकल्पितत्वादत्र द्विर्वचनाभावः । वाक्यभेदादनिघातः । गुह्यम् । ‘गुहू संवरणे' इत्यस्मात् ‘ शंसिगुहिदुहिभ्यो वेति वक्तव्यम्' इति क्यप् । कित्त्वादगुणः। प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः। दधे । दधातेर्लिटि रूपम् । दक्षिणावान् । ' दक्ष वृद्धौ '। 'द्रुदक्षिभ्यामिनन्' इति इनन्प्रत्ययः । तदस्यास्तीति मतुप् । संहितायाम् अन्येषामपि दृश्यते' इति पूर्वपदस्य दीर्घः । नित्स्वरः ॥


ज्योति॑र्वृणीत॒ तम॑सो विजा॒नन्ना॒रे स्या॑म दुरि॒ताद॒भीके॑ ।

इ॒मा गिरः॑ सोमपाः सोमवृद्ध जु॒षस्वें॑द्र पुरु॒तम॑स्य का॒रोः ॥७

ज्योतिः॑ । वृ॒णी॒त॒ । तम॑सः । वि॒ऽजा॒नन् । आ॒रे । स्या॒म॒ । दुः॒ऽइ॒तात् । अ॒भीके॑ ।

इ॒माः । गिरः॑ । सो॒म॒ऽपाः॒ । सो॒म॒ऽवृ॒द्ध॒ । जु॒षस्व॑ । इ॒न्द्र॒ । पु॒रु॒ऽतम॑स्य । का॒रोः ॥७

ज्योतिः । वृणीत । तमसः । विऽजानन् । आरे । स्याम । दुःऽइतात् । अभीके ।

इमाः । गिरः । सोमऽपाः । सोमऽवृद्ध । जुषस्व । इन्द्र । पुरुऽतमस्य । कारोः ॥७

“तमसः रात्रेः सकाशात् पविजानन् विशेषेण जानन्” प्रादुर्भवन् सूर्यात्मक इन्द्रः "ज्योतिवृणीत । जगद्यवहारनिर्वाहकं प्रकाशं समभक्त । यद्वा तमसस्तमोरूपात् वृत्रादेः विजानन् प्रादुर्भवन् । वृत्रं हत्वा प्रकाशमवृणीत । वयं “दुरितात् पापात् "आरे दूरे पापवर्जिताः सन्तः “अभीके भयरहिते स्थाने “स्याम भवेम । “सोमपाः सोमस्य पातः अत एव “सोमवृद्ध सोमपानेषु वृद्ध हे “इन्द्र “पुरुतमस्य । पुरून् बहून्' शत्रून् तामयति ग्लापयतीति पुरुतमः । तादृशस्य तव "कारोः स्तोत्रं कुर्वाणस्य ऋत्विजः “इमाः स्तुतिलक्षणाः “गिरः वाचः “जुषस्व सेवस्व ॥ वृणीत । ‘वृङ् संभक्तौ ' इत्यस्य लङि रूपम् । विजानन् । 'ज्ञा अवबोधने । विशेषेण ज्ञानं प्रकाशः । प्रत्ययस्वरः । अभीके । न विद्यते भीर्यस्मिन् । ततः शेषाद्विभाषा ' (पा. सू. ५. ४. १५४) इति कप्प्रत्ययः। ‘नञ्सुभ्याम् ' इत्यन्तोदात्तत्वे प्राप्ते ‘कपि पूर्वम् ' (पा. सू. ६. २. १७३ ) इति पूर्वस्यान्तोदात्तत्वम् । पुरुतमस्य । ‘ तमु ग्लाने ' इत्यस्मात् ण्यन्तात् पचाद्यचि • परादिश्छन्दसि बहुलम्' इत्युत्तरपदाद्युदात्तत्वम् ॥


ज्योति॑र्य॒ज्ञाय॒ रोद॑सी॒ अनु॑ ष्यादा॒रे स्या॑म दुरि॒तस्य॒ भूरेः॑ ।

भूरि॑ चि॒द्धि तु॑ज॒तो मर्त्य॑स्य सुपा॒रासो॑ वसवो ब॒र्हणा॑वत् ॥८

ज्योतिः॑ । य॒ज्ञाय॑ । रोद॑सी॒ इति॑ । अनु॑ । स्या॒त् । आ॒रे । स्या॒म॒ । दुः॒ऽइ॒तस्य॑ । भूरेः॑ ।

भूरि॑ । चि॒त् । हि । तु॒ज॒तः । मर्त्य॑स्य । सु॒ऽपा॒रासः॑ । व॒स॒वः॒ । ब॒र्हणा॑ऽवत् ॥८

ज्योतिः । यज्ञाय । रोदसी इति । अनु । स्यात् । आरे । स्याम । दुःऽइतस्य । भूरेः ।

भूरि । चित् । हि । तुजतः । मर्त्यस्य । सुऽपारासः । वसवः । बर्हणाऽवत् ॥८

हे इन्द्र “ज्योतिः जगत्प्रकाशकः सूर्यः "यज्ञाय अग्निहोत्रादिकर्मकरणाय “रोदसी द्यावापृथिव्यौ “अनु “ष्यात् अनुभवतु प्रकाशयतु । वयं "भूरेः प्रभूतस्य “दुरितस्य पापस्य “आरे दूरे “स्याम भवेम । हे “वसवः सर्वस्य वासयितार इन्द्रादयः “सुपारासः सुपाराः शोभनपाराः स्तुत्याभिमुखीकर्तुं शक्या यूयं “भूरि “चित् अतिप्रभूतं “बर्हणावत् समृद्धियुक्तं धनं "तुजतः भूरिप्रदस्य “मर्त्यस्य प्रयच्छथ । अत्र योग्यक्रियाध्याहारः ॥ स्यात् । अस्तेर्लिङि रूपम् । संहितायाम् अनोरुत्तरस्यास्तेः ' उपसर्गप्रादुर्भ्यामस्तिर्यच्परः ' ( पा. सू. ८. ३. ८७ ) इति षत्वम् । निघातः । तुजतः ।' तुजि पिजि लजि हिंसादाननिकेतनेषु' । ‘शतुरनुमः' इति विभक्तेरुदात्तत्वम् । बर्हणावत् । ‘ बृहि वृद्धौ ' इत्यस्य भावे औणादिको युप्रत्ययः । प्रत्ययस्वरः ॥


शु॒नं हु॑वेम म॒घवा॑न॒मिंद्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।

शृ॒ण्वंत॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नंतं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नां ॥९

शु॒नम् । हु॒वे॒म॒ । म॒घऽवा॑नम् । इन्द्र॑म् । अ॒स्मिन् । भरे॑ । नृऽत॑मम् । वाज॑ऽसातौ ।

शृ॒ण्वन्त॑म् । उ॒ग्रम् । ऊ॒तये॑ । स॒मत्ऽसु॑ । घ्नन्त॑म् । वृ॒त्राणि॑ । स॒म्ऽजित॑म् । धना॑नाम् ॥९

शुनम् । हुवेम । मघऽवानम् । इन्द्रम् । अस्मिन् । भरे । नृऽतमम् । वाजऽसातौ ।

शृण्वन्तम् । उग्रम् । ऊतये । समत्ऽसु । घ्नन्तम् । वृत्राणि । सम्ऽजितम् । धनानाम् ॥९

व्याख्यातेयम् ॥ ॥ २६ ॥

वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।

पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये तृतीयाष्टके द्वितीयोऽध्यायः समाप्तः ॥



मण्डल ३

सूक्तं ३.१

सूक्तं ३.२

सूक्तं ३.३

सूक्तं ३.४

सूक्तं ३.५

सूक्तं ३.६

सूक्तं ३.७

सूक्तं ३.८

सूक्तं ३.९

सूक्तं ३.१०

सूक्तं ३.११

सूक्तं ३.१२

सूक्तं ३.१३

सूक्तं ३.१४

सूक्तं ३.१५

सूक्तं ३.१६

सूक्तं ३.१७

सूक्तं ३.१८

सूक्तं ३.१९

सूक्तं ३.२०

सूक्तं ३.२१

सूक्तं ३.२२

सूक्तं ३.२३

सूक्तं ३.२४

सूक्तं ३.२५

सूक्तं ३.२६

सूक्तं ३.२७

सूक्तं ३.२८

सूक्तं ३.२९

सूक्तं ३.३०

सूक्तं ३.३१

सूक्तं ३.३२

सूक्तं ३.३३

सूक्तं ३.३४

सूक्तं ३.३५

सूक्तं ३.३६

सूक्तं ३.३७

सूक्तं ३.३८

सूक्तं ३.३९

सूक्तं ३.४०

सूक्तं ३.४१

सूक्तं ३.४२

सूक्तं ३.४३

सूक्तं ३.४४

सूक्तं ३.४५

सूक्तं ३.४६

सूक्तं ३.४७

सूक्तं ३.४८

सूक्तं ३.४९

सूक्तं ३.५०

सूक्तं ३.५१

सूक्तं ३.५२

सूक्तं ३.५३

सूक्तं ३.५४

सूक्तं ३.५५

सूक्तं ३.५६

सूक्तं ३.५७

सूक्तं ३.५८

सूक्तं ३.५९

सूक्तं ३.६०

सूक्तं ३.६१

सूक्तं ३.६२

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.३९&oldid=183669" इत्यस्माद् पुनः प्राप्तिः