ऋग्वेदः सूक्तं ३.३३

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ३.३३ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं ३.३२ ऋग्वेदः - मण्डल ३
सूक्तं ३.३३
गाथिनो विश्वामित्रः, ४, ६, ८, १० नद्यः ऋषिकाः
सूक्तं ३.३४ →
दे. नद्यः, ४, ८, १० विश्वामित्रः, ६, ७ इन्द्रः।त्रिष्टुप्, १३ अनुष्टुप्।


प्र पर्वतानामुशती उपस्थादश्वे इव विषिते हासमाने ।
गावेव शुभ्रे मातरा रिहाणे विपाट् छुतुद्री पयसा जवेते ॥१॥
इन्द्रेषिते प्रसवं भिक्षमाणे अच्छा समुद्रं रथ्येव याथः ।
समाराणे ऊर्मिभिः पिन्वमाने अन्या वामन्यामप्येति शुभ्रे ॥२॥
अच्छा सिन्धुं मातृतमामयासं विपाशमुर्वीं सुभगामगन्म ।
वत्समिव मातरा संरिहाणे समानं योनिमनु संचरन्ती ॥३॥
एना वयं पयसा पिन्वमाना अनु योनिं देवकृतं चरन्तीः ।
न वर्तवे प्रसवः सर्गतक्तः किंयुर्विप्रो नद्यो जोहवीति ॥४॥
रमध्वं मे वचसे सोम्याय ऋतावरीरुप मुहूर्तमेवैः ।
प्र सिन्धुमच्छा बृहती मनीषावस्युरह्वे कुशिकस्य सूनुः ॥५॥
इन्द्रो अस्माँ अरदद्वज्रबाहुरपाहन्वृत्रं परिधिं नदीनाम् ।
देवोऽनयत्सविता सुपाणिस्तस्य वयं प्रसवे याम उर्वीः ॥६॥
प्रवाच्यं शश्वधा वीर्यं तदिन्द्रस्य कर्म यदहिं विवृश्चत् ।
वि वज्रेण परिषदो जघानायन्नापोऽयनमिच्छमानाः ॥७॥
एतद्वचो जरितर्मापि मृष्ठा आ यत्ते घोषानुत्तरा युगानि ।
उक्थेषु कारो प्रति नो जुषस्व मा नो नि कः पुरुषत्रा नमस्ते ॥८॥

राजगृहतः वैशालीं गमनाय गौतमेन बुद्धेन गंगायाः चमत्कारिकं पारणम्

ओ षु स्वसारः कारवे शृणोत ययौ वो दूरादनसा रथेन ।
नि षू नमध्वं भवता सुपारा अधोअक्षाः सिन्धवः स्रोत्याभिः ॥९॥
आ ते कारो शृणवामा वचांसि ययाथ दूरादनसा रथेन ।
नि ते नंसै पीप्यानेव योषा मर्यायेव कन्या शश्वचै ते ॥१०॥
यदङ्ग त्वा भरताः संतरेयुर्गव्यन्ग्राम इषित इन्द्रजूतः ।
अर्षादह प्रसवः सर्गतक्त आ वो वृणे सुमतिं यज्ञियानाम् ॥११॥
अतारिषुर्भरता गव्यवः समभक्त विप्रः सुमतिं नदीनाम् ।
प्र पिन्वध्वमिषयन्तीः सुराधा आ वक्षणाः पृणध्वं यात शीभम् ॥१२॥
उद्व ऊर्मिः शम्या हन्त्वापो योक्त्राणि मुञ्चत ।
मादुष्कृतौ व्येनसाघ्न्यौ शूनमारताम् ॥१३॥



सायणभाष्यम्

' प्र पर्वतानाम् ' इति त्रयोदशर्चं चतुर्थं सूक्तम् । अत्रेयमनुक्रमणिका-' प्र पर्वतानां सप्तोना संवादो नदीभिर्विश्वामित्रस्योत्तितीर्षोस्तत्र नदीवाक्यं चतुर्थीषष्ठ्यष्टमीदशम्यः षष्ठीसप्तम्योस्त्विन्द्रस्तुतिरन्त्यानुष्टुप् ' इति । अत्र चतुर्थीषष्ठ्यष्टमीदशमीनां नदीवाक्यत्वान्नद्य एव ऋषयः शिष्टानां विश्वामित्रवाक्यत्वात्स एव ऋषिः । अन्त्यानुष्टुप् शिष्टास्त्रिष्टुभः । इन्द्रो देवता ।. यद्यपि षष्ठ्यां सप्तम्यां च विश्वामित्रो नद्यश्च स्तूयन्ते तथापीन्द्र एव देवता । सूक्तविनियोगो लैङ्गिकः ।। पुरा किल विश्वामित्रः पैजवनस्य सुदासो राज्ञः पुरोहितो बभूव । स च पौरोहित्येन लब्धधनः सर्वं धनमादाय विपाट्छुतुद्र्योः संभेदमाययौ अनुययुरितरे । अथोत्तितीर्षुर्विश्वामित्रः अगाधजले ते नद्यौ दृष्ट्वा उत्तरणार्थम् आद्याभिः तिसृभिस्तुष्टाव । ।


प्र पर्व॑तानामुश॒ती उ॒पस्था॒दश्वे॑ इव॒ विषि॑ते॒ हास॑माने ।

गावे॑व शु॒भ्रे मा॒तरा॑ रिहा॒णे विपा॑ट् छुतु॒द्री पय॑सा जवेते ॥१

प्र । पर्व॑तानाम् । उ॒श॒ती इति॑ । उ॒पऽस्था॑त् । अश्वे॑ इ॒वेत्यश्वे॑ऽइव । विसि॑ते॒ इति॒ विऽसि॑ते । हास॑माने॒ इति॑ ।

गावा॑ऽइव । शु॒भ्रे इति॑ । मा॒तरा॑ । रि॒हा॒णे इति॑ । विऽपा॑ट् । शु॒तु॒द्री । पय॑सा । ज॒वे॒ते॒ इति॑ ॥१

प्र। पर्वतानां। उशती इति। उपऽस्थात्। अश्वे इवेत्यश्वेऽइव। विसिते इति विऽसिते। हासमाने इति।

गावऽइव। शुभ्रे इति। मातरा।रिहाणे इति।विऽपाट्।शुतुद्री। पयसा।जवेते इति ॥१॥

पर्वतानां गिरीणां शैलानामुपस्थादुत्संगान्निर्गत्योशती समुद्रगमनं कामयमाने । गमने दृष्टांतः । अश्वे इव। यथा विषिते मंदुरातो विमुक्ते हासमाने अन्योन्यजवेन स्पर्धमाने । यद्वा हृष्यंत्यावश्वे इव वडवे इव त्वरया गच्छंत्यो परस्परं हृष्यंत्यौ । तथा गावेव शुभ्रे । यथा द्वौ गावौ शोभमानौ वर्तेते तद्वच्छुभ्रे शोभमाने । किंच मातरा। यथा मातरौ धेनू रिहाणे । अंतर्णीतसनर्थो लिहिः। वत्सं जिह्वया लेढुमिच्छंत्यौ शीघ्रं गच्छतस्तद्वत्समुद्रं गंतु जवाद्गच्छंत्यौ पयसा संयुक्ते विपाट्। कूलविपाटनात् विपाशनाद्वा विमोचनाद्वा विपाट् । शुतुद्री । शु क्षिप्रं तु तुन्ना तुन्नेव द्रवति गच्छतीति शुतुद्री। एतन्नामके नद्यौ प्र जवेते । समुद्रं प्रति शीघ्रं गच्छतः । अत्र निरुक्तं । पर्वतानामुपस्थादुपस्थानादुशत्यौ कामयमाने अश्वे इव विमुक्ते इति वा विषण्णे इति वा हासमाने हासतिः स्पर्धायां हर्षमाणे वा गावाविव शुभ्रे शोभने मातरौ संरिहाणे विपाट्छुतुद्र्यौ पयसा प्रजवेते । नि° ९. ३९.। इति ॥ उशती। वश कांतौ। अस्य शतुर्ङित्त्वाद्ग्रहिज्यावयीत्यादिना संप्रसारणं । विषिते । षिञ् बंधन इत्यस्य कर्मणि निष्ठा। संहितायां परिनिविभ्यः सेवसितसयसिवुसहेत्यादिना। पा० ८. ३.७०.। षत्वं ।। गतिरनंतर ति गतेः प्रकृतिस्वरः । हासमाने । हासतिः स्पर्धाकर्मा हसे हसने वा। शानच् । तस्य लसार्वधातुकस्वरे कृते धातुस्वरः। रिहाणे । लिह आस्वादने । स्वरितेत्त्वादुभयपदी। शानच् । अदादित्वाच्छपो लुक् । लकारस्य रेफश्छांदसः । रेफमवलंब्य णत्वं । चित्त्वादंतोदात्तः । विपाट्। पट गतौ पश बाधनस्पर्शनयोरिति वा ण्यंतावेतौ विपूर्वौ । शकारस्य व्रश्चादिना षत्वं । शुतुद्री। छांदसी रूपसिद्धिः । जवेते । जुङ गतौ । भौवादिकः । ङित्त्वादात्मनेपदं । आतो ङित इतीयादेशः । निघातः ॥


इन्द्रे॑षिते प्रस॒वं भिक्ष॑माणे॒ अच्छा॑ समु॒द्रं र॒थ्ये॑व याथः ।

स॒मा॒रा॒णे ऊ॒र्मिभि॒ः पिन्व॑माने अ॒न्या वा॑म॒न्यामप्ये॑ति शुभ्रे ॥२

इन्द्रे॑षिते॒ इतीन्द्र॑ऽइषिते । प्र॒ऽस॒वम् । भिक्ष॑माणे॒ इति॑ । अच्छ॑ । स॒मु॒द्रम् । र॒थ्या॑ऽइव । या॒थः॒ ।

स॒मा॒रा॒णे इति॑ स॒म्ऽआ॒रा॒णे । ऊ॒र्मिऽभिः॑ । पिन्व॑माने॒ इति॑ । अ॒न्या । वा॒म् । अ॒न्याम् । अपि॑ । ए॒ति॒ । शु॒भ्रे॒ इति॑ ॥२

इंद्रेषिते इतींऽइषिते । प्रऽसवं। भिक्षमाणे इति । अच्छ। समुद्रं । रथ्याऽइव। याथः ।

समाराणे इति संऽआराणे । ऊर्मिऽभिः । पिन्वमाने इति । अन्या। वां। अन्यां। अपि । एति। शुभ्रे इति ॥२॥

हे नद्यौ इंद्रेषिते इंद्रेण प्रेषिते प्रसवं तस्येंद्रस्यानुज्ञां भिक्षमाणे प्रार्थयमाने युवां समुद्रमच्छाभिमुख्येन याथः । गच्छथः । तत्र दृष्टांतः। रथ्येवेति । यथा रथिनौ लक्ष्यं देशमभिगच्छतस्तद्वत् । किं कुर्वंत्यौ । समाराणे परस्परं संगच्छंत्यावूर्मिभिस्तरंगैः पिन्वमाने परिसरप्रदेशं संतर्पयंत्यो शुभे शोभमाने। युवां समुद्रं गच्छथ इति । पूर्वेणान्वयः। तथा वां युवयोर्मध्येऽन्यैकान्यामपरां नदीमप्येति । अपिगच्छति । परस्परमैक्यमापद्यत इत्यर्थः ॥ इंद्रेषिते । इष गतावित्यस्य कर्मणि निष्ठायास्तीषसहेत्यादिना इडागमः । तृतीया कर्मणीति पूर्वपदस्वरः । प्रसवं । षू प्रेरण इत्यस्याप्। थाथादिस्वरः । भिक्षमाणे । भिक्ष याञ्चायां । आत्मनेपदी। शानचो लसार्वधातुकस्वरेणानुदात्तत्वे धातुस्वरः। रथ्येव । रथस्येमौ । तस्येदमित्यर्थे रथाद्यदिति यत्प्रत्ययः। तित्स्वरितः। इवेन विभक्त्यलोपः । याथः । यातेर्लटि रूपं । समाराणे । ऋ गतावित्यस्य लिट् । संपूर्वस्यार्तेः समो गमीत्यादिनात्मनेपदत्वात्तस्य कानजादेशः । ऋच्छत्यॄतामिति गुणः । पिन्वमाने । पिवि सेचने । भूवादिः । लसार्वधातुकस्वरेण शानचोऽनुदात्तत्वे धातुस्वरः ॥


अच्छा॒ सिन्धुं॑ मा॒तृत॑मामयासं॒ विपा॑शमु॒र्वीं सु॒भगा॑मगन्म ।

व॒त्समि॑व मा॒तरा॑ संरिहा॒णे स॑मा॒नं योनि॒मनु॑ सं॒चर॑न्ती ॥३

अच्छ॑ । सिन्धु॑म् । मा॒तृऽत॑माम् । अ॒या॒स॒म् । विऽपा॑शम् । उ॒र्वीम् । सु॒ऽभगा॑म् । अ॒ग॒न्म॒ ।

व॒त्सम्ऽइ॑व । मा॒तरा॑ । सं॒रि॒हा॒णे इति॑ स॒म्ऽरि॒हा॒णे । स॒मा॒नम् । योनि॑म् । अनु॑ । स॒ञ्चर॑न्ती॒ इति॑ स॒म्ऽचर॑न्ती ॥३

अच्छ। सिंधुं । मातृऽतमा। अयासं। विऽपाशं । उर्वीं। सुऽभगां। अगन्म।

वत्संऽइव। मातरा। संरिहाणे इति संऽरिहाणे । समानं । योनिं । अनु। संचरंती इति संऽचरंती ॥३॥

हे नद्यौ मातृतमामतिशयेन मातरं सिंधु स्रवंतीं शुतुद्रीं त्वामच्छाभिमुख्येनायासं । विश्वामित्रोऽहं प्राप्तोऽभूवं । उर्वीं महतीं सुभगां सौभाग्यवतीं विपाशं त्वामगन्म । वयं प्राप्ताः स्मः । किं कुर्वत्यौ । मातरा मातरौ द्वे धेनू वत्समिव संरिहाणे। अंतर्णीतसन्नर्थो लिहिः। जिह्वया लेढुमिच्छंत्यौ यथा वत्समनुगच्छतस्तद्वत् समानमेकं योनिं स्थानं समुद्रमनु अभिलक्ष्य संचरंती सम्यक् चरंत्यौ। युवामयासिषमिति पूर्वेणान्वयः ॥ अयासं। या प्रापण इत्यस्य रूपं । इडभावश्छांदसः। अगन्म। गमेर्लङि बहुलं छंदसीति शपो लुक् । म्वोश्चेति मकरस्य नकारः। निघातः । संचरंती। चरतिर्गत्यर्थः । तृतीयायुक्तत्वाभावादात्मनेपदाभावः। शतुर्लसार्वधातुकस्वरेणानुदात्तत्वे कृते धातुस्वरः ॥


ए॒ना व॒यं पय॑सा॒ पिन्व॑माना॒ अनु॒ योनिं॑ दे॒वकृ॑तं॒ चर॑न्तीः ।

न वर्त॑वे प्रस॒वः सर्ग॑तक्तः किं॒युर्विप्रो॑ न॒द्यो॑ जोहवीति ॥४

ए॒ना । व॒यम् । पय॑सा । पिन्व॑मानाः । अनु॑ । योनि॑म् । दे॒वऽकृ॑तम् । चर॑न्तीः ।

न । वर्त॑वे । प्र॒ऽस॒वः । सर्ग॑ऽतक्तः । कि॒म्ऽयुः । विप्रः॑ । न॒द्यः॑ । जो॒ह॒वी॒ति॒ ॥४

एना। वयं । पयसा । पिन्वमानाः । अनु। योनिं । देवऽकृतं । चरंतीः ।।

न। वर्तवे। प्रऽसवः । सर्गऽतक्तः । किंऽयुः । विप्रः । नद्यः । जोहवीति ॥४॥

एवं स्तुते नद्यौ विश्वामित्रं प्रत्यूचतुः । एनैनेन पयसा पिन्वमानाः संतर्पयंत्यो देवकृतं देवेनेंद्रेण कृतं संदिष्टं योनिं स्थानं समुद्रमनु लक्षीकृत्य चरंतीर्गच्छंत्यो वयमास्महे । द्वयोर्बहुवचनं पूजार्थं । तासामस्माकं सर्गतक्तः सर्गे गमने प्रवृत्तः प्रसव उद्योगो न वर्त्तवे । निवर्तनाय न भवति । किंयुः किमिच्छन्नसौ विप्रो ब्राह्मणो नद्यो नदीरस्मान् जोहवीति । भृशमाह्वयति ॥ एना । इदंशब्दस्य तृतीयाया एनादेशः । सुपां सुलुगिति तृतीयाया। आजादेशः । ऊडिदमिति विभक्ते रुदात्तत्वं । पिन्वमानाः । पिवि सेचने । देवकृतं । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरः । वर्त्तवे । वृतु वर्तने । तुमर्थे तवेन्प्रत्ययः। नित्स्वरः । सर्गतक्तः । ते चेति पूर्वपदप्रकृतिस्वरः। किंयुः । किमिच्छन् । क्यचि मांताव्ययप्रतिषेधः । पा°३.१. ८.१.। इति छांदसत्वादत्र प्रतिषेधो न भवतीति क्यच् । क्याच्छंदसीत्युप्रत्ययः । प्रत्ययस्वरः । नद्यः । छांदसो यणादेशः । जोहवीति । ह्वयो यङ्लुक्यभ्यस्तस्य चेति संप्रसारणे कृते गुणो यङ्लुकोरित्यभ्यासस्य गुणः । यङो वेतीडागमः । गुणः । निघातः ॥


रम॑ध्वं मे॒ वच॑से सो॒म्याय॒ ऋता॑वरी॒रुप॑ मुहू॒र्तमेवैः॑ ।

प्र सिन्धु॒मच्छा॑ बृह॒ती म॑नी॒षाव॒स्युर॑ह्वे कुशि॒कस्य॑ सू॒नुः ॥५

रम॑ध्वम् । मे॒ । वच॑से । सो॒म्याय॑ । ऋत॑ऽवरीः । उप॑ । मु॒हू॒र्तम् । एवैः॑ ।

प्र । सिन्धु॑म् । अच्छ॑ । बृ॒ह॒ती । म॒नी॒षा । अ॒व॒स्युः । अ॒ह्वे॒ । कु॒शि॒कस्य॑ । सू॒नुः ॥५

रमध्वं । मे। वर्चसे । सोम्याय । ऋतऽवरीः। उप । मुहूर्तं । एवैः ।।

प्र। सिंधुं। अच्छ। बृहती। मनीषा। अवस्युः । अह्वे। कुशिकस्य । सूनुः ॥५॥

विश्वामित्रो नदीः प्रति बूते । ऋतावरीः । ऋतमुदकं । तद्वत्यो हे नद्यो यूयं मे विश्वामित्रस्य मम सोम्याय। उत्तीर्याहं सोमं संपादयामीत्येवं सोमसंपादिने। वचसे तदर्थमेवैः। पंचम्यर्थे तृतीया। शीघ्रगमनेभ्यो मुहूर्तं मुहूर्तमात्रमुप रमध्वं । उपपूर्वो रमिरुपसंहारे वर्तते । क्षणमात्रं शीघ्रगमनादुपरता भवत । सामान्येन नदीषुच्यमानासु समीहितं प्रयोजनमकुर्वतीषु पुरोवर्तिनीं शुतुद्रीं प्रति ब्रूते । कुशिकस्य राजर्षेः सूनुर्विश्वामित्रोऽहं बृहती महत्या मनीषा मनीषया स्तुत्यावस्युरात्मनो रक्षणमिच्छन् सन् सिंधु शुतुद्रीं त्वामच्छाभिमुख्येन प्राह्वे। प्रकर्षणाह्वयामि । अत्र निरुक्तं । उपरमध्वं मे वचसे सोम्याय सोमसंपादिन ऋतावरीर्ऋतवत्य ऋतमित्युदकनाम प्रत्यृतं भवति मुहूर्तमेवैरयनैरवनैर्वा । प्राभिह्वयामि सिंधुं बृहत्या महत्या मनीषया मनस ईषया स्तुत्या प्रज्ञया वावनाय कुशिकस्य सूनुः । कुशिको राजा बभूव । नि २. २५.। इति ॥ रमध्वं । रमु उपरमे। उपपूर्वाद्रमतेर्विभाषाकर्मकात् । पा॰ १.३. ८५.। इत्यात्मनेपदं । ऋतावरीः । ऋतशब्दान्मत्वर्थे छंदसीवनिपाविति वनिप् । वनो र चेति ङीप् रेफश्चांतादेशः । वा छंदसीति सवर्णदीर्घः । आमंत्रितस्य पादादित्वात्षाष्ठिकमाद्युदात्तत्वं । एवैः । इण गतौ । इण्शीङ्भ्यां वन्। आर्धधातुकलक्षणो गुणः । नित्स्वरः । बृहती मनीषा। उभयत्र तृतीयायाः पूर्वसवर्णदीर्घः । अवस्युः । अवो रक्षणमिच्छन् । सुप आत्मनः क्यच् । नः क्य इति नकारांतस्य पदसंज्ञाया नियमितत्वादत्र सकारस्य रुर्न भवति । क्याच्छंदसीत्युप्रत्ययः । अह्वे। हूयतेर्लुङि सिच आत्मनेपदेष्वन्यतरस्यां । पा० ३.१.५४.। इत्यङादेशः । गुणः । निघातः ॥ ॥१२॥


इन्द्रो॑ अ॒स्माँ अ॑रद॒द्वज्र॑बाहु॒रपा॑हन्वृ॒त्रं प॑रि॒धिं न॒दीना॑म् ।

दे॒वो॑ऽनयत्सवि॒ता सु॑पा॒णिस्तस्य॑ व॒यं प्र॑स॒वे या॑म उ॒र्वीः ॥६

इन्द्रः॑ । अ॒स्मान् । अ॒र॒द॒त् । वज्र॑ऽबाहुः । अप॑ । अ॒ह॒न् । वृ॒त्रम् । प॒रि॒ऽधिम् । न॒दीना॑म् ।

दे॒वः । अ॒न॒य॒त् । स॒वि॒ता । सु॒ऽपा॒णिः । तस्य॑ । व॒यम् । प्र॒ऽस॒वे । या॒मः॒ । उ॒र्वीः ॥६

इंद्रः । अस्मान् । अरदत् । वज्रऽबाहुः । अप। अहन्। वृत्रं । परिऽधिं । नदीनां।

देवः । अनयत् । सविता । सुऽपाणिः । तस्य । वयं । प्रऽसवे । यामः। उर्वीः ॥६॥

नद्यः प्रत्यूचुः । हे विश्वामित्र वज्रबाहुः । वज्रयुक्तो बाहुर्यस्यासौ वज्रबाहुः । तादृशो बलवानिंद्रो नदीरस्मानरदत् । रदतिः खनतिकर्मा। अखनत् । कथमखनत्। उच्यते । नदीनां शब्दकारिणीनामपां परिधिं परितो निहितमुदकमंतः कृत्वा परितो वर्तमानमित्यर्थः । तादृशं वृत्रं । वृणोत्याकाशमिति वृत्रो मेघः । तं मेघमपाहन् । जघान । तस्मिन्हत आपः पतिताः । ताभिर्गच्छंतीभिर्वयं खाताः । एवं मेघहननद्वारेणाखनत् । न केवलमखनत् किं तर्हि सविता सर्वस्य जगतः प्रेरकः सुपाणिः शोभनहस्त उत्पत्तिस्थितिकर्तृत्वात्तादृशो देवो द्योतमान इंद्रो ऽस्माननयत् । मेघभेदनं कृत्वोदकप्रेरणेन समुद्रमपूरयत् । तस्य तादृशसामर्थ्योपेतस्येंद्रस्य प्रसवेऽभ्यनुज्ञायां वर्तमाना उर्वीरुदकैः प्रभूता वयं यामः । गच्छामः । न तव वचनादुपरमामहे । उक्तार्थं यास्को ब्रवीति । इंद्रो अस्मानरदद्वज्रबाहू रदतिः खनतिकर्मापाहन्वृत्रं परिधिं नदीनामिति व्याख्यातं । देवोऽनयत्सविता सुपाणिः कल्याणपाणिः । पाणिः पणायतेः पूजाकर्मणः प्रगृह्य पाणी देवान्पूजयंति । तस्य वयं प्रसवे याम उर्वीरूर्व्यः । नि० २. २६.। इति ॥ अरदत् । रदतेर्लङि रूपं । वज्रबाहुः । बहुव्रीहौ पूर्वपदस्वरः। अहन् । हंतेर्लङि रूपं । निघातः । परिधिं । डुधाञ् धारणपोषणयोरित्यस्मात्कर्मण्युपसर्गे घोः किरिति किप्रत्ययः । आतो लोपः । कृदुत्तरपदस्वरः । अनयत् । नयतेर्लङि रूपं । सुपाणिः । पण व्यवहारे स्तुतौ च । अशिपणाय्यो रुडायलुकौ च । उ॰ ४. १३२.। इतीण् । आयलुक् । बहुव्रीहौ नञ्सुभ्यामिति स्वरः । प्रसवे । षू प्रेरणे । ऋदोरविति भावेऽप्प्रत्ययः । थाथघञ्क्तेत्युत्तरपदांतोदात्तत्वं । यामः । या प्रापण इत्यस्य लटि रूपं । निघातः । उर्वीः । उरुशब्दाद्वोतो गुणवचनादिति ङीष् । वा छंदसीति सवर्णदीर्घः । प्रत्ययस्वरः ।।


प्र॒वाच्यं॑ शश्व॒धा वी॒र्यं१॒॑ तदिन्द्र॑स्य॒ कर्म॒ यदहिं॑ विवृ॒श्चत् ।

वि वज्रे॑ण परि॒षदो॑ जघा॒नाय॒न्नापोऽय॑नमि॒च्छमा॑नाः ॥७

प्र॒ऽवाच्य॑म् । श॒श्व॒धा । वी॒र्य॑म् । तत् । इन्द्र॑स्य । कर्म॑ । यत् । अहि॑म् । वि॒ऽवृ॒श्चत् ।

वि । वज्रे॑ण । प॒रि॒ऽसदः॑ । ज॒घा॒न॒ । आय॑न् । आपः॑ । अय॑नम् । इ॒च्छमा॑नाः ॥७

प्रऽवाच्यं । शश्वधा । वीर्यं । तत् । इंद्रस्य । कर्म । यत् । अहिं। विऽवृश्चत् ।।

वि। वज्रेण । परिऽसदः । जघान। आयन्। आपः । अयनं । इच्छमा॑नाः ॥७॥

योऽयमिंद्रोऽहिं मेघं विवृश्चत् उदकप्रेरणार्थं जघानेति यत्कर्म छेदनरूपं तदिदं तस्येंद्रस्य वीर्यं सामर्थ्यं शश्वधा सर्वदा प्रवाच्यं । प्रकर्षेण वचनीयं । तथा स इंद्रः परिषदः परितः सीदत आसीनान् प्रतिबंधकारिणोऽसुरान् वज्रेण वि जघान । अथायनं स्थानमिच्छमाना इच्छंत्य आप आयन् । यांति ॥ प्रवाच्यं । वच परिभाषण इत्यस्मादृहलोर्ण्यदिति ण्यत् । णित्त्वादुपधावृद्धिः । वचोऽशब्दसंज्ञायां । पा० ७. ३.६७. । इति कृत्वाभावः । व्यत्ययेनाद्युदात्तत्वं । यद्वा वाचयतेरचो यत् । यतोऽनाव इति स्वरः । शश्वधा। शश्वच्छब्दात्स्वार्थे धाप्रत्ययस्तकारलोपश्च द्रष्टव्यः । विवृश्चत् । ओव्रश्चू छेदने । तुदादिः । लङि ग्रहिज्यावयीत्यादिना संप्रसारणं । सह सुपेत्यत्र सहेति योगविभागात्समासः । समासस्वरः । परिषदः । क्विप् । संहितायां सदेरप्रतेरिति षत्वं । जघान । हंतेर्लिटि णलि रूपं । निघातः । आयन् । अय गतावित्यस्य लङि रूपं । पादादित्वादनिघातः । इच्छमानाः । इषु इच्छायामित्यस्माद्व्यत्ययेन शानच । तस्य लसार्वधातुकस्वरे कृते प्रत्ययस्वरः ॥


ए॒तद्वचो॑ जरित॒र्मापि॑ मृष्ठा॒ आ यत्ते॒ घोषा॒नुत्त॑रा यु॒गानि॑ ।

उ॒क्थेषु॑ कारो॒ प्रति॑ नो जुषस्व॒ मा नो॒ नि कः॑ पुरुष॒त्रा नम॑स्ते ॥८

ए॒तत् । वचः॑ । ज॒रि॒तः॒ । मा । अपि॑ । मृ॒ष्ठाः॒ । आ । यत् । ते॒ । घोषा॑न् । उत्ऽत॑रा । यु॒गानि॑ ।

उ॒क्थेषु॑ । का॒रो॒ इति॑ । प्रति॑ । नः॒ । जु॒ष॒स्व॒ । मा । नः॒ । नि । क॒रिति॑ कः । पु॒रु॒ष॒ऽत्रा । नमः॑ । ते॒ ॥८

एतत्। वचः।जरितः। मा। अपि। मृष्टाः। आ।यत्।ते। घोषान्। उत्तरा। युगानि।

उक्थेषु । कारो इति। प्रति। नः । जुषस्व। मा। नः । नि। करिति कः । पुरुषऽत्रा। नमः । ते ॥८॥

नद्यः प्रसंगादिंद्रस्तोत्रं कृत्वा विश्वामित्रं प्रत्यूचुः । जरितः स्तोतर्हे विश्वामित्र ते त्वदीयं यत्संवादात्मकं वचस्त्वं नोऽभीत्या घोषानुद्घोषयन्वर्तसे तद्वचो मापि मृष्ठाः। मा विस्मार्षीः । किं कारणं । उत्तरा युगान्युत्तरेषु याज्ञिकेषु युगेष्वहःसूक्थेषु कारो शस्त्राणां कर्तस्त्वं नोऽस्मान्प्रति जुषस्व । संवादात्मकेन तेन वाक्येन प्रतिसेवस्व। इदानीं नोऽस्मान् पुरुषत्रा पुरुषेषु मा नि कः । उक्तिप्रत्युक्तिरूपसंवादवाक्याध्यापनेन नितरां पुंवत् प्रागल्भ्यं मा कार्षीः । ते तुभ्यं नमः ॥ मृष्ठाः । मृजूष् शुद्धावित्यस्य लङि व्यत्ययेनात्मनेपदं । अदादित्वाच्छ्पो लुक् । व्रश्चादिना षत्वं । निघातः । घोषान् । घुषिर् संशब्दन इत्यस्य शतरि सर्वविधीनां छंदसि विकल्पितत्वादतो गुण इति पररूपत्वाभावः। सवर्णदीर्घः । शतुर्लसार्वधातुकस्वरे कृते धातुस्वरः । युगानि । युजिर् योगे । उंछादिषु घञंतत्वेन निपातनादगुणत्वं । विशिष्टविषयं च निपातनमिष्यते । कालविशेषे रथाद्युपकरणे चेति तत्र पाठादेवांतोदात्तत्वं । कालाध्वनोरत्यंतसंयोग इति द्वितीया । कारो। करोतेः कृवापाजिमीत्यादिना उण्प्रत्ययः । आमंत्रितत्वान्निघातः । कः । करोतेर्लुङि च्लेर्मंत्रे घसेत्यादिना लुक् । हल्ङ्यादिना सिचो लोपः । न माङ्योग इत्यडभावः । पुरुषत्रा। देवमनुष्यपुरुषपुरुमर्त्येभ्यो द्वितीयासप्तम्योर्बहुलमिति सप्तम्यर्थे त्रा प्रत्ययः । प्रत्ययस्वरः ॥


ओ षु स्व॑सारः का॒रवे॑ शृणोत य॒यौ वो॑ दू॒रादन॑सा॒ रथे॑न ।

नि षू न॑मध्वं॒ भव॑ता सुपा॒रा अ॑धोअ॒क्षाः सि॑न्धवः स्रो॒त्याभिः॑ ॥९

ओ इति॑ । सु । स्व॒सा॒रः॒ । का॒रवे॑ । शृ॒णो॒त॒ । य॒यौ । वः॒ । दू॒रात् । अन॑सा । रथे॑न ।

नि । सु । न॒म॒ध्व॒म् । भव॑त । सु॒ऽपा॒राः । अ॒धः॒ऽअ॒क्षाः । सि॒न्ध॒वः॒ । स्रो॒त्याभिः॑ ॥९

ओ इति । सु। स्वसारः। कारवे। शृणोत। ययौ। वः। दूरात् । अनसा। रथेन।

नि । सु । नमध्वं । भवत । सुऽपाराः । अधःऽअक्षाः । सिंधवः । स्रोत्याभिः ॥९॥

विश्वामित्रो नदीः प्रत्युवाच । स्वसारो भगिन्यः सिंधवो हे नद्यः कारवे स्तोत्रं कुर्वाणस्य मम वचनं सु सुष्ठु ओ शृणोत । शृणुतैव । अनसा शकटेन रथेन च सह दूराद्विप्रकृष्टाद्देशाद्वो युष्मान्ययौ । प्राप्तोऽस्मि । यूयं सु सुष्टु नि नमध्वं । आत्मना स्वयं प्रह्वा भवत । तथा सुपाराः । रथादीनां तीरात्सुखेनावरोहणारोहणे यथा स्यातां तथा शोभनरोधसश्च भवत । किंच यूयं स्रोत्याभिः स्रवणशीलाभिरद्भिरधोअक्षा रथांगस्याक्षस्याधस्ताद्भवत । यदापोऽक्षस्याधस्ताद्भवंति तदा रथादीनि नेतुं शक्यंते । तस्मात्तत्परिमाणोदका भवतेत्यर्थाभिप्रायः ॥ ओ इति प्रगृह्यसंज्ञा । शृणोत । श्रु श्रवण इत्यस्य लोटि तप्रत्ययस्य तप्तनप्तनथनाश्चेति तबादेशः । पित्त्वाद्गुणः । निघातः । ययौ । यो प्रापण इत्यस्य भूतमात्रे लिट्युत्तमे णल्यात औ णल इत्यौकारः। एकादेशस्वरः । वः । युष्मच्छब्दस्य द्वितीयाया बहुवचनस्य वस्नसाविति वसादेशः । षू। निपातस्येति संहितायां दीर्घः। नमध्वं । णमु प्रह्वत्वे शब्दे चेत्यस्य कर्मकर्तरि न दुहस्नुनमां यक्चिणाविति प्रतिषेधाद्यगभावः । अधोअक्षाः ।। अधरशब्दस्य पूर्वाधरावराणामसि पुरधवश्चैषामित्यसिप्रत्ययोऽधादेशश्च । अक्षशब्दोऽशू व्याप्तावित्यस्मादशेर्दैवने । उ० ३.६५. । इति सप्रत्ययांतः । कृदुत्तरपदप्रकृतिस्वरः। सिंधवः । आमंत्रितत्वान्निघातः । स्रोत्याभिः । स्रोतःशब्दात्स्रोतसो विभाषा ड्यड्ड्यौ । पा°४. ४.११३.। इति ड्यप्रत्ययः । डित्त्वाट्टिलोपः । प्रत्ययस्वरः ॥


आ ते॑ कारो शृणवामा॒ वचां॑सि य॒याथ॑ दू॒रादन॑सा॒ रथे॑न ।

नि ते॑ नंसै पीप्या॒नेव॒ योषा॒ मर्या॑येव क॒न्या॑ शश्व॒चै ते॑ ॥१०

आ । ते॒ । का॒रो॒ इति॑ । शृ॒ण॒वा॒म॒ । वचां॑सि । य॒याथ॑ । दू॒रात् । अन॑सा । रथे॑न ।

नि । ते॒ । नं॒सै॒ । पी॒प्या॒नाऽइ॑व । योषा॑ । मर्या॑यऽइव । क॒न्या॑ । श॒श्व॒चै । त॒ इति॑ ते ॥१०

आ।ते। कारो इति । शृणवाम । वचांसि । ययाथ। दूरात् । अनसा। रथेन।

नि। ते। नंसे। पीप्यानाऽइव। योषा। मर्यायऽइव। कन्या। शश्वचै। त इति। ते ॥१०॥

नद्यः पूर्वं विश्वामित्रवाक्यं प्रत्याख्यायानयर्चा तस्य वाक्यमाशुश्रुवुः । कारो स्तोत्रं कुर्वाण हे विश्वामित्र ते तव वचांसीमानि वाक्यान्या शृणवाम। शृणुमः । तव समीहितं प्रयोजनं कुर्म इत्यर्थः । अनसा शकटेन रथेन च सह ययाथ । यतो दूरादागतोऽसि । वयं च ते त्वदर्थं नि नंसै । नीचैर्नमाम । प्रत्येकविवक्षयात्रैकवचनं । रथेन गंतु गाधोदका भवामेत्यर्थः। तत्र दृष्टांतः। पीप्यानेव योषा। पीप्याना पुत्रं स्तनं पाययंती योषा माता यथा प्रह्वीभवति । दृष्टांतांतरं। यथा कन्या युवतिर्मर्यायेव मनुष्याय पित्रे भ्रात्रे वा शश्वचै परिष्वजनाय नम्रा भवति तद्वत्ते त्वदर्थं प्रह्वीभवामः । ते इति पुनरुक्तिरादरार्थं । एतामृचं यास्क एवं व्याचष्टे। आशृणवाम ते कारो वचनानि याहि दूरादनसा च रथेन च निनमाम ते पाययमानेव योषा पुत्रं मर्यायेव कन्या परिष्वजनाय निनमा इति वा । नि° २. २७.। इति ॥ कारो। संबुद्धौ शाकल्यस्येतौ । पा० १.१.१६.। इति प्रगृह्यसंज्ञा। शृणवाम । श्रु श्रवण इत्यस्य लोट्याडुत्तमस्य पिच्चेत्याडागमः । पित्त्वाद्गुणः । निघातः । ययाथ । या प्रापण इत्यस्य भूतमात्रे लिटिथल्येका च उपदेशेऽनुदात्तादितीट्प्रतिषेधः । लित्स्वरः । अनसा । सहार्थे तृतीया । नंसै । णमु प्रह्वत्व इत्यस्य लेट्युत्तमे लेटि सिब्बहुलमिति सिप् । वैतोऽन्यत्रेत्यैकारादेशः । निघातः । पीप्यानेव। पीङ् पान इत्यस्यांतर्भावितण्यर्थस्य लिटि कानचि रूपं । चित्स्वरः। योषा। यु मिश्रणे । वृतृवदिहनीत्यादिना । उ°३.६२.। सप्रत्ययः । यौतीति योषा । वृषादित्वादाद्युदात्तः । शश्वचै । ष्वञ्ज परिष्वंग इत्यस्मात्संपदादिलक्षणो भावे क्विप् । पृषोदरादित्वादिष्टरूपसिद्धिरंतोदात्तश्च ॥ ॥ १३ ॥


यद॒ङ्ग त्वा॑ भर॒ताः सं॒तरे॑युर्ग॒व्यन्ग्राम॑ इषि॒त इन्द्र॑जूतः ।

अर्षा॒दह॑ प्रस॒वः सर्ग॑तक्त॒ आ वो॑ वृणे सुम॒तिं य॒ज्ञिया॑नाम् ॥११

यत् । अ॒ङ्ग । त्वा॒ । भ॒र॒ताः । स॒म्ऽतरे॑युः । ग॒व्यन् । ग्रामः॑ । इ॒षि॒तः । इन्द्र॑ऽजूतः ।

अर्षा॑त् । अह॑ । प्र॒ऽस॒वः । सर्ग॑ऽतक्तः । आ । वः॒ । वृ॒णे॒ । सु॒ऽम॒तिम् । य॒ज्ञिया॑नाम् ॥११

यत् । अंग। त्वा । भरताः । संऽतरेयुः । गव्यन्। ग्रामः । इषितः । इंद्रऽजूतः ।

अर्षात् । अहः। प्रऽसवः । सर्गऽतक्तः। आ। वः। वृणे। सुऽमतिं। यज्ञियानां ॥११॥

विश्वामित्रो नदीः प्रत्युवाच । अंगेत्यामंत्रणे । हे नद्यो यद्यस्माद्युष्माभिरुत्तितीर्षोर्ममोत्तरणमभ्यनुज्ञात तस्माद्भरता भरतकुलजा मदीयाः सर्वे त्वा परस्परमेकतामापन्नां नदीं त्वां संतरेयुः । सम्यगुत्तीर्ण भवेयुः । तदेव विशिनष्टि। गव्यन् गा उदकानि तरीतुमिच्छन्निषितस्त्वयाभ्यनुज्ञात इंद्रजूतो युष्माकं प्रवर्तकेनेंद्रेण च प्रेरितो ग्रामो भरतानां संघोऽर्षात् । संतरेत् । यतः सर्गतक्तो गमनाय प्रवृत्तः प्रसवस्तेषामुद्योगोऽह पूर्वं युष्माभिरनुज्ञातः । अहं तु यज्ञियानां यज्ञार्हाणां वो युष्माकं सुमतिं शोभनां स्तुतिमा वृणे । सर्वतः संभजे ॥ भरताः । भरतशब्दादुत्सादित्वादञ् । तस्य यञञोश्चेति लुक् । अतच् प्रत्ययस्वरः। संतरेयुः । तरतेर्लिङि जुसि रूपं । झेर्लसार्वधातुकस्वरे धातुस्वरः । तिङि चोदात्तवतीति गतेर्निघातः । गव्यन् । गा आत्मन इच्छन्। सुपः क्यच् । एकादेशस्वरः। ग्रामः । ग्रसतेरा च । उ॰ १. १४२.। इति मन्प्रत्यय आकारादेशश्च । नित्स्वरः। इंद्रजूतः । जू इति सौत्रो धातुर्गत्यर्थः । श्र्युकः कितीति निष्ठायामिट्प्रतिषेधः । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरः । अर्षात् । ऋ गतावित्यस्य लेटि तिपि सिब्बहुलमिति सिप् । लेटोऽडागमः । एकाच इतीट्प्रतिषेधः । गुणः ।। प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः । वृणे । वृङ् संभक्तावित्यस्य लटि रूपं । यज्ञियानां । यज्ञर्त्विग्भ्यां घखञाविति घप्रत्ययः । प्रत्ययस्वरः ॥


अता॑रिषुर्भर॒ता ग॒व्यव॒ः समभ॑क्त॒ विप्रः॑ सुम॒तिं न॒दीना॑म् ।

प्र पि॑न्वध्वमि॒षय॑न्तीः सु॒राधा॒ आ व॒क्षणाः॑ पृ॒णध्वं॑ या॒त शीभ॑म् ॥१२

अता॑रिषुः । भ॒र॒ताः । ग॒व्यवः॑ । सम् । अभ॑क्त । विप्रः॑ । सु॒ऽम॒तिम् । न॒दीना॑म् ।

प्र । पि॒न्व॒ध्व॒म् । इ॒षय॑न्तीः । सु॒ऽराधाः॑ । आ । व॒क्षणाः॑ । पृ॒णध्व॑म् । या॒त । शीभ॑म् ॥१२

अतारिषुः । भरताः । गव्यवः । सं। अभक्त । विप्रः । सुऽमतिं । नदीनां।

प्र। पिन्वध्वं । इषयंतीः । सुऽराधाः। आ । वक्षणाः । पृणध्वं । यात। शीभं ॥१२॥

गव्यवो गा आत्मन इच्छंतो भरता भरतकुलजाः सर्वेऽतारिषुः । तां नदीं समतरन् । विप्रो मेधावी विश्वामित्रो नदीनां सुमतिं शोभनां स्तुतिं समभक्त । समभजत । यूयं तु यथा पूर्वमिषयंतीः कुल्यादिद्वारान्नं कुर्वाणा अत एव सुराधाः शोभनधनोपेता यूयं वक्षणाः कृत्रिमसरितः कुल्याः प्र पिन्वध्वं । प्रकर्षेण तर्पयत ।आ पृणध्वं । ताः सर्वतः पूरयत च । शीभं शीघ्रं यात। गच्छत च ॥ अतारिषुः । तॄ प्लवनतरणयोरित्यस्य लुङि सिचि वृद्धिः परस्मैपदेष्विति वृद्धिः । अडागमस्वरः। गव्यवः । सुपः क्यच् । क्याच्छंदसीत्युप्रत्ययः । तस्य स्वरः ।। अभक्त । भज सेवायामित्यस्य लुङि सिचो झलो झलीति लोपः । पादादित्वादनिघातः । पिन्वध्वं । पिवि सेचन इत्यस्य लोटि रूपं । निघातः । इषयंतीः । इषं कुर्वत्यः । तत्करोतीति णिच् । णाविष्ठवत्प्रातिपदिकस्येतीष्ठवद्भावाट्टेरिति टिलोपः । वा छंदसीति सवर्णदीर्घः । प्रत्ययस्वरः । पृणध्वं । पृण प्रीणने । लोटि रूपं । व्यत्ययेनात्मनेपदं । वाक्यभेदादनिघातः । यात । या प्रापण इत्यस्य लोटि रूपं । अत्रापि न निघातः । शीभं । शीभृ कत्थने। श्लाघ्यतेऽनेन तद्वानिति करणे घञ्। ञित्स्वरः ॥


उद्व॑ ऊ॒र्मिः शम्या॑ ह॒न्त्वापो॒ योक्त्रा॑णि मुञ्चत ।

मादु॑ष्कृतौ॒ व्ये॑नसा॒घ्न्यौ शून॒मार॑ताम् ॥१३

उत् । वः॒ । ऊ॒र्मिः । शम्याः॑ । ह॒न्तु॒ । आपः॑ । योक्त्रा॑णि । मु॒ञ्च॒त॒ ।

मा । अदुः॑ऽकृतौ । विऽए॑नसा । अ॒घ्न्यौ । शून॑म् । आ । अ॒र॒ता॒म् ॥१३

उत् । वः । ऊर्मिः । शम्याः । हंतु । आपः । योक्त्राणि । मुंचत।

मा । अदुःऽकृतौ । विऽएनसा । अघ्न्यौ। शूनं । आ । अरतां ॥१३॥

पूर्वमुत्तितीषुर्विश्वामित्रो नदीरुक्त्वाधुनोत्तितीर्घः पुनराह । हे नद्यो वो युष्माकमूर्मितरंगः शम्या युगकीला युग्यकटपार्श्वादिसंलग्ना रज्जव उदूर्ध्वं यथा भवंति तथा हंतु । गच्छतु । स तरंगो रज्जूनामधो गच्छत्वित्यभिप्रायः। तथा हे आपो यूयं योक्त्राणि ता रज्जूर्मुंचत । यथा न स्पृशंति तथा यांत्वित्यभिप्रायः । व्येनसा विगतपापे अत एवादुष्कृतौ कल्याणकर्मकारिण्यौ अघ्न्यावघ्न्ये न केनापि तिरस्करणीये विपाट्छुतुद्र्यौ शूनं समृद्धिं मारतां । आगच्छतां। एवं विश्वामित्रो नदीः स्तुत्वा ताभिरनुज्ञातोऽतरदिति ॥ ऊर्मिः। ऋ गतौ। अर्तेरूच्चेति मिप्रत्ययः । ऊरित्ययमादेशो धातोः । ऋच्छतीत्यूर्मिः । प्रत्ययस्वरः । शम्याः । शमु उपशमे ।। पोरदुपधादिति यत्प्रत्ययः। यतोऽनाव इत्याद्युदात्तत्वं । हंतु । हन हिंसागत्योरित्यस्य लोटि रूपं । निघातः । योक्त्राणि । युजिर योगे । करणे दाम्नीशसयुयुजेत्यादिना द्रन्प्रत्ययः । नित्स्वरः । मुंचत । मुच्लृ मोक्षणे । निघातः । अदुष्कृतौ । इसुसोः सामर्थ्य इति विसर्जनीयस्य षत्वं । व्येनसा । बहुव्रीहौ पूर्वपदस्वरः। सुपो डादेशः । अघ्न्यौ । हन हिंसागत्योरित्यस्य नञ्पूर्वस्याघ्न्यादयश्चेति निपातनाद्यक्। कित्त्वादुपधालोपः । हो हंतेरिति घत्वं । सर्वविधीनां छंदसि विकल्पितत्वादत्रौङः शीभावाभावः। एकादेशस्वरः। शूनं। श्वयतेर्नपुंसके भावे क्त इति क्तः । यजादित्वात्संप्रसारणं । हल इति दीर्घत्वं । ओदितश्चेति निष्ठानत्वं । निष्ठा च द्व्यजनादित्याद्युदात्तः । अरतां । ऋ गतावित्यस्य लुङि च्लेः सर्तिशास्त्यर्तिभ्यश्चेत्यङादेशः । ऋदृशोऽङि गुणः । न माङ्योग इत्यडभावः । निघातः ॥ ॥१४॥


मण्डल ३

सूक्तं ३.१

सूक्तं ३.२

सूक्तं ३.३

सूक्तं ३.४

सूक्तं ३.५

सूक्तं ३.६

सूक्तं ३.७

सूक्तं ३.८

सूक्तं ३.९

सूक्तं ३.१०

सूक्तं ३.११

सूक्तं ३.१२

सूक्तं ३.१३

सूक्तं ३.१४

सूक्तं ३.१५

सूक्तं ३.१६

सूक्तं ३.१७

सूक्तं ३.१८

सूक्तं ३.१९

सूक्तं ३.२०

सूक्तं ३.२१

सूक्तं ३.२२

सूक्तं ३.२३

सूक्तं ३.२४

सूक्तं ३.२५

सूक्तं ३.२६

सूक्तं ३.२७

सूक्तं ३.२८

सूक्तं ३.२९

सूक्तं ३.३०

सूक्तं ३.३१

सूक्तं ३.३२

सूक्तं ३.३३

सूक्तं ३.३४

सूक्तं ३.३५

सूक्तं ३.३६

सूक्तं ३.३७

सूक्तं ३.३८

सूक्तं ३.३९

सूक्तं ३.४०

सूक्तं ३.४१

सूक्तं ३.४२

सूक्तं ३.४३

सूक्तं ३.४४

सूक्तं ३.४५

सूक्तं ३.४६

सूक्तं ३.४७

सूक्तं ३.४८

सूक्तं ३.४९

सूक्तं ३.५०

सूक्तं ३.५१

सूक्तं ३.५२

सूक्तं ३.५३

सूक्तं ३.५४

सूक्तं ३.५५

सूक्तं ३.५६

सूक्तं ३.५७

सूक्तं ३.५८

सूक्तं ३.५९

सूक्तं ३.६०

सूक्तं ३.६१

सूक्तं ३.६२

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.३३&oldid=209110" इत्यस्माद् पुनः प्राप्तिः