वायुपुराणम्/पूर्वार्धम्/अध्यायः ३७
← अध्यायः ३६ | वायुपुराणम् अध्यायः ३७ वेदव्यासः |
अध्यायः ३८ → |
।।सूत उवाच।।
शीतान्तस्याचलेन्द्रस्य कुमुञ्जस्यान्तरेण तु।
द्रोण्यो विहङ्गसङ्घुष्टा नानासत्त्वनिषेविताः ।। ३७.१ ।।
त्रियोजनशतायामा विस्तीर्णाः शतयोजनाः।
सुरसामलपानीयरम्यं तत्र सरोवरम् ।। ३७.२ ।।
द्रोण्यायामप्रमाणैस्तु पुण्डरीकैः सुगन्धिभिः।
सहस्रशतपत्रैर्हि महापद्मैरलंकृतम् ।। ३७.३ ।।
महोरगैरध्युषितं महाभोगैर्दुरासदैः।
देवदानवगन्धर्वैरुपस्पृष्टं जलं शुभम् ।। ३७.४ ।।
पुण्यं तच्छ्रीसरो नाम प्रकाशं दिवि चेह च।
प्रसन्नजलसम्पूर्णं शरण्यं सर्वदेहिनाम् ।। ३७.५ ।।
तत्र त्वेकं महापद्मं मध्ये पद्मवनस्य ह।
कोटिपत्रप्रचारं तत्तरुणादित्यवर्चसम् ।। ३७.६ ।।
नित्यं व्याकोशमजरं चाञ्चल्याच्चातिमण्डलम्।
चारुकेशरजालाढ्यं मत्तषट्पदनादितम् ।। ३७.७ ।।
तस्मिन् पद्मे भगवती साक्षाच्छ्रीर्नित्यमेव हि।
लक्ष्म्याः पद्मं तदावासं मूर्त्तिमत्या न संशयः ।। ३७..८ ।।
सरसस्तस्य पूर्वस्मिन् तीरे सिद्धनिषेवित।
सदा पुष्पफलं रम्यं तत्र बिल्ववनं महत् ।। ३७.९ ।।
शतयोजनविस्तीर्णं त्रियोजनशताय तम्।
अर्धक्रोशोच्चशिखरैर्महावृक्षैः सहस्रशः ।। ३७.१० ।।
शाखासहस्रकलितैर्महास्कन्धैः समाकुलम्।
फलैः सुवर्णसङ्काशैर्हरितैः पाण्डरैस्तथा ।। ३७.११ ।।
अमृतस्वादुसदृशैर्भेरीमात्रैः सुगन्धिभिः।
शीर्यमाणैः पतद्भिश्च कीर्णा भूमिर्निरन्तरा ।। ३७.१२ ।।
नाम्ना तच्छ्रीवनं नाम सर्वलोकेषु विश्रुतम्।
गन्धर्वैः किन्नरैर्यक्षैर्महानागैश्च सेवितम् ।। ३७.१३ ।।
सिद्धैश्चैव समाकीर्णं नित्यं बिल्वफलाशिभिः।
विविधैर्भूतसङ्घैश्च नित्यमेव निषेवितम् ।। ३७.१४ ।।
तस्मिन् वने भगवती साक्षाच्छ्रीर्नित्यमेव हि।
देवी सन्निहिता तत्र सिद्धसङ्घैर्नमस्कृता ।। ३७.१५ ।।
विकङ्कस्याचलेन्द्रस्य मणिशैलस्य चान्तरे।
शतयोजनविस्तीर्णं द्वियोजनशतायतम् ।। ३७.१६ ।।
विपुलञ्चम्पकवनं सिद्धचारणसेवितम्।
पुष्पलक्ष्म्यावृतं भाति ज्वलन्तमिव नित्यदा ।। ३७.१७ ।।
अर्द्धक्रोशोच्चशिखरैर्महास्कन्धैः पलाशिभिः ।
प्रफुल्लशाखाशिखरैः पिञ्जरं भाति तद्वनम् ।। ३७.१८ ।।
द्विबाहुपरिणाहैस्तैस्त्रिहस्तायामविस्तरैः ।
मनः शिलाचूर्णनिभैः पाण्डुकेसरशालिभिः ।। ३७.१९ ।।
पुष्पैर्मनोहरैर्व्याप्तं व्याकोशैर्गन्धशालिभिः।
विराजते वनं सर्वं मत्तभ्रमरनादितम् ।। ३७.२० ।।
तद्वनं दानवैर्देवगन्धर्वैर्यक्षराक्षसैः।
किन्नरैरप्सरोभिश्च महानागैश्च सेवितम् ।। ३७.२१ ।।
तत्राश्रमं भगवतः कश्यपस्य प्रजापतेः।
सिद्धसाध्यगणा कीर्णं नानाश्रुतिविभूषितम्।
महानीलकुमुञ्जाभ्यामन्तरेप्यचलावथ ।। ३७.२२ ।।
महानद्याः सुखायास्तु तीरे सिद्धनिषेविते।
पञ्चाशद्योजनायामं त्रिंशद्योजनविस्तरम्।
रम्यं तालवनं तद्धि अर्द्धक्रोशोच्चमस्तकम् ।। ३७.२३ ।।
महामूलैर्महासारैः स्थिरैरविरलैः शुभैः।
कुमुदाञ्जनसंस्थानैः परिवृत्तैर्महा फलैः।
मृष्टगन्धरसोपेतैरुपेतं सिद्धसेवितम् ।। ३७.२४ ।।
माहेन्द्रस्य द्विपेन्द्रस्य तत्र वास उदाहृतः।
ऐरावतस्य भद्रस्य सर्वलोकेषु विश्रुतः ।। ३७.२५ ।।
वेणुमन्तस्य शैलस्य सुमेधस्योत्तरेण च।
सहस्रयोजनायामं विस्तीर्णं शतयोजनम् ।। ३७.२६ ।।
वृक्षगुल्मलतागुच्छैः सर्ववीरुद्भिरीरितम्।
दूर्वाप्रस्तारमेवाथ सर्वसत्वविवर्जितम् ।। ३७.२७ ।।
तथा निषधशैलस्य देवशैलस्य चोत्तरे।
सहस्रयोजनायामा शतयोजनविस्तृता ।। ३७.२८ ।।
सवांह्येकशिला भूमिर्वृक्षवीरुद्विवर्जिता।
आप्लुता पादमात्रेण ह्युदकेन समन्ततः ।। ३७.२९ ।।
इत्येता ह्यन्तरद्रोण्यो नानाकाराः प्रकीर्त्तिताः।
मेरोः पूर्वेण विप्रेन्द्रा यथावदनुपूर्वशः ।। ३७.३० ।।
इति श्रीमहापुराणे वायुप्रोक्ते भुवनविन्यासो नाम सप्तत्रिंशोऽध्यायः ।। ३७ ।।